SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ • ईश्वरशक्तीनां षड्विधत्वम् • १०९९ (सर्वज्ञतास्थितिः=) सर्वज्ञतायाः स्थितिः = प्रसिद्धिः । तदुक्तं- “तत्र निरतिशयं सर्वज्ञबीजम्" (यो.सू.१-२५) ।।३।। ऋषीणां कपिलादीनामप्ययं परमो गुरुः । तदिच्छया जगत्सर्वं यथाकर्म विवर्तते ॥४॥ ऋषीणामिति । अयं = ईश्वरः कपिलादीनामपि ऋषीणां परमः = उत्कृष्टो गुरुः । तदुक्तं“स पूर्वेषामपि गुरुः कालेनानऽवच्छेदादिति" (यो.सू.१-२६) । = ईश्वरीयस्य चित्तस्य सर्वविषयत्वात् सर्वज्ञतायाः प्रसिद्धिः । अत्र योगसूत्रसंवादमाह- 'तत्रे'ति । अस्य च राजमार्तण्डव्याख्यालेशः → तस्मिन् भगवति सर्वज्ञत्वस्य यद्बीजमतीताऽनागतादिग्रहणस्याल्पत्वं महत्त्वं च मूलत्वाद् बीजमिवेति बीजं तत्तत्र निरतिशयं = काष्ठां प्राप्तम् । दृष्टा ह्यल्पत्व-महत्त्वादीनां धर्माणां सातिशयानां काष्ठाप्राप्तिः, यथा परमाणावल्पत्वस्याऽऽकाशे परममहत्त्वस्य । एवं ज्ञानादयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामासादयन्ति । यत्र चैते निरतिशयाः स ईश्वरः - (रा.मा. १/२५ पृ.३१) इत्येवं वर्तते । पुरुषसंहितायां नारदं प्रति सनत्कुमारेण → विनेन्द्रियेण सर्वज्ञः - (पु.सं. ) इति यदुक्तं तदप्यऽत्राऽनुयोज्यं यथातन्त्रम् ।। तदुक्तं वायुपुराणेऽपि 'सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः। अनन्तशक्तिश्च विभोविधिज्ञाः षडाहुरङ्गानि महेश्वरस्य । (वा.पु.१२/३३) इति । एतेन → सर्वज्ञानित्व-तृप्त्यनादिबोध-स्वतन्त्र-नित्यमलुप्तानन्तं षट्कोणशक्तयः 6 (ना.पूर्व. ६/३) इति नारायणपूर्वतापिनीयोपनिषद्वचनमपि व्याख्यातम् । तस्य सर्वज्ञत्वसाधने → यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः - (मुं.१/१/९, सं.१) इति मुण्डकोपनिषत्-संन्यासोपनिषदोः वचनं, → एष सर्वेश्वर एष सर्वज्ञः - (गणे.१/२) इति गणेशोत्तरतापिन्युपनिषद्वचनं, → एष सर्वेश्वर एष सर्वज्ञः - (मां.६) इति माण्डूक्योपनिषद्वचनं, → विश्वतश्चक्षुरुत विश्वतोमुखः - (श्वे.३/३) इति श्वेताश्वतरोपनिषद्वचनमपि तस्य सर्वज्ञतामेवावेदयति । समन्तभद्राचार्येण तु आप्तमीमांसायां → सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद् यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ।। 6 (आ.मी.५) इत्येवं जैनतन्त्रानुसारेण सर्वज्ञसिद्धिः कृतेत्यवधेयम् ।।१६/३।। एवमीश्वरस्य प्रमाणमभिधाय प्रभावमाह- ऋषीणामिति । अत्रैव योगसूत्रसंवादमाह- 'स' इति । 'आद्यानां स्रष्टृणां ब्रह्मादीनामपि स गुरुः = उपदेष्टा यतः स कालेन नावच्छिद्यते, अनादित्वात् । तेषां पुनरादिमत्त्वादस्ति कालेनाऽवच्छेदः' (रा.मा.१/२६ पृ.३३) इति राजमार्तण्डकृत् । ईश्वरस्येच्छया ચિત્તપરિણામ નથી થતા. ઈન્દ્રિયપ્રણાલિકા દ્વારા જે જ્ઞાનાદિ ઉત્પન્ન થાય તે સીમિત હોય. કારણ કે ઇન્દ્રિયને ઘણી બધી મર્યાદા છે. જ્યારે ઇન્દ્રિયપ્રણાલિકા વિના જે જ્ઞાનાદિપરિણામો ઉત્પન્ન થાય તેને કોઈ મર્યાદા હોતી નથી. સર્વ વિષયોનું તે ચિત્તમાં અવગાહન હોય છે. માટે સર્વજ્ઞતાની સિદ્ધિ થાય છે. યોગસૂત્રમાં ५९ %uवेल. छे 'श्वरम नितिशय = ५२॥5181प्रा. सर्वशी४ होय छे.' (१६/3) ગાથાર્થ - કપિલ વગેરે પૂર્વના મહર્ષિઓના પણ પરમગુરુ ઈશ્વર છે. ઈશ્વરની ઇચ્છાનુસાર आधु त भ भु४५ प्रवत छ, परिमे छे. (१६/४) ટીકાર્ચ - કપિલ વગેરે મહર્ષિઓના પણ પરમોત્કૃષ્ટ ગુરુ ઈશ્વર છે. યોગસૂત્રમાં પતંજલિ ઋષિએ જણાવેલ છે કે તે પૂર્વના મહર્ષિઓના પણ ગુરુ છે. કારણ કે કાલ દ્વારા તેની કોઈ સીમા નક્કી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy