________________
१०९८ • सर्वज्ञसिद्धिः .
द्वात्रिंशिका-१६/३ सात्त्विक इति । अत्र = ईश्वरे सात्त्विकः परिणामः काष्ठाप्राप्ततया = अत्यन्तोत्कृष्टत्वेन इष्यते । तारतम्यवतां सातिशयानां धर्माणां परमाणावल्पत्वस्येवाऽऽकाशे परममहत्त्वस्येव काष्ठाप्राप्तिदर्शनात् ज्ञानादीनामपि चित्तधर्माणां तारतम्येन परिदृश्यमाणानां क्वचिन्निरतिशयत्वसिद्धेः । न पुनः अक्षप्रणालिकया = इन्द्रियद्वारा प्राप्तः' = उपनीतः इति हेतोः सर्वविषयत्वादेतच्चित्तस्य मत्वम् । तच्च ज्ञान-क्रिया-सामर्थ्यातिशयं विना न । सा चापहस्तितरजस्तमोमलविशुद्धसत्त्वोपादानं विना नेति ईश्वरे सात्त्विकः = शुद्धसत्त्वात्मकः परिणामः चित्ताऽपराभिधानोऽनादिसिद्धः अत्यन्तोत्कृष्टत्वेन = निरतिशयत्वेन इष्यते पातञ्जलैः । “अस्ति ईश्वरस्यानादिसिद्धं शुद्धसत्त्वात्मकं चित्तं प्रधानजं निरतिशयज्ञान-क्रियाशक्तिमत् । स हि भगवान् संसारार्णवाज्जन्तूनामुद्धरणेच्छया तच्चित्तमुपादत्ते, तद्विना ज्ञान-धर्मोपदेश-भक्तानुग्रहाऽयोगात् । न च कथं चित्तोपादानात्प्रागिच्छाधुदेतीति वाच्यम्, बीजाङ्कुरवदनादित्वात्सर्गप्रलयप्रवाहस्य यदा सर्वकार्यस्य प्रलयस्तदा ‘भविष्यत्कल्पे लोकानुग्रहार्थमिदं चित्तमुपादेयमिति भगवता सङ्कल्प्यते । तत्सङ्कल्पवासितं प्रधाने लीनं सत् सर्गादौ चित्तमुद्भवति । तेन चेश्वरोऽनुगृह्णाती"ति मणिप्रभायां रामानन्दो व्याचष्टे (म.प्र.१/२४-पृ.३१) । इत्थमीश्वरे सात्त्विकचित्तसम्बन्ध उपपादितः ।
अधुना ज्ञानादीनां प्रकर्षप्राप्तिं साधयितुमाह- तारतम्यवतामिति । 'अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य, सातिशयत्वात्, परिमाणवदिति । यत्र काष्ठाप्राप्तिः ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेष' इति (यो.सू.१/२५ भा.) इति योगसूत्रभाष्यकारः । अत्र निरतिशयत्वं = काष्ठा, यतः परमातिशयवत्ता नास्तीति । तेन नाऽवधिमात्रेण सिद्धसाधनम् । सातिशयत्वादिति हेतुः । यद्यत्सातिशयं तत्तत्सर्वं निरतिशयं यथा कुवलयामलकबिल्वेषु सातिशयं महत्त्वमात्मनि निरतिशयमिति तत्त्ववैशारद्यां वाचस्पतिमिश्रः (त.वै.१/२५ पृ.७७)। मणिप्रभाकृदपि 'अस्मदादीनां ज्ञानं निरतिशयेन ज्ञानेनाऽविनाभूतं भवितुमर्हति, सातिशयत्वात् । यत्सातिशयं तत् समानजातीयेन निरतिशयेन युक्तं, यथा कुम्भपरिमाणं विभुपरिमाणेन । तत्सिद्धं निरतिशयं ज्ञानं सर्वज्ञस्य बीजं = ज्ञापकम् । यत्र निरतिशयं ज्ञानं तत्र सर्वज्ञत्वं ज्ञायत इत्यर्थः' (म.प्र.१/२५ पृ.३२) इत्याचष्टे ।
ईश्वरे सात्त्विकः परिणाम इन्द्रियद्वारा न उपनीतः इति न सर्वज्ञत्वाऽनुपपत्तिः । इत्थं एतच्चित्तस्य
ટીકાર્થઃ- ઈશ્વરમાં સાત્ત્વિક પરિણામ અત્યન્ત ઉત્કૃષ્ટ સ્વરૂપે માન્ય છે. તારતમ્યવાળા ગુણધર્મો ક્યાંક સાતિશય = સર્વોત્કૃષ્ટ સિદ્ધ થાય છે. જેમ કે ઘટપરિમાણાદિ. ઘટ, પટ આદિના પરિમાણ(=કદ) તરતમભાવવાળા હોય છે. તો ક્યાંક તેની અલ્પતાની અને ઉત્કર્ષની પરાકાષ્ઠા સિદ્ધ થશે. પરમાણુના પરિમાણમાં અલ્પત્વની પરાકાષ્ઠા છે અને આકાશના પરમમિહત્ પરિમાણમાં ઉત્કર્ષની પરાકાષ્ઠા દેખાય છે. બરાબર આ જ રીતે ચિત્તધર્માત્મક જ્ઞાનાદિસ્વરૂપ સાત્ત્વિક પરિણામ પણ સંસારી જીવોમાં તારતમ્યવાળો જણાવાથી ક્યાંક તેના ઉત્કર્ષની સિદ્ધિ થશે. જે આત્મામાં જ્ઞાનાદિ સાત્ત્વિક પરિણામનો ઉત્કર્ષ ચરમસીમાપ્રાપ્ત હોય તેને અમે ઈશ્વર તરીકે ઓળખીએ છીએ. આ પરાકાષ્ઠા પ્રાપ્ત ઉત્કૃષ્ટ સાત્ત્વિક પરિણામ જ ઈશ્વરમાં સર્વજ્ઞતાની સિદ્ધિ કરે છે. કારણ કે સંસારી જીવોની જેમ ઈશ્વરમાં કાંઈ ઇન્દ્રિયપ્રણાલિકા દ્વારા જ્ઞાનાદિસ્વરૂપ १. हस्तादर्श 'प्राप्ता...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org