________________
इश्वरस्वरूपप्रकाशनम् -
(.८७
॥ अथेशानुग्रहविचारद्वात्रिंशिका ।।१६।। सम्यग्दृष्टिनिरूपणाऽनन्तरं तन्निर्वाहकमीशाऽनुग्रहं विचारयतिमहेशाऽनुग्रहात्केचिद्योगसिद्धिं प्रचक्षते । क्लेशाद्यैरपरामृष्टः पुंविशेषः स चेष्यते ॥१॥
महेशेति । केचित् = पातञ्जलाः महेशाऽनुग्रहात् योगस्योक्तलक्षणस्य सिद्धिं' = योगक्षेमलक्षणां (=योगसिलिं) प्रचक्षते = प्रकथयन्ति । स च महेशः पुंविशेषः = पुरुषविशेष इष्यते । कीदृश इत्याह-क्लेशाद्यैः = क्लेश-कर्म-विपाकाऽऽशयैः अपरामृष्टः = अस्पृष्टः त्रिष्वपि कालेषु । तथा च सूत्रं- "क्लेशकर्मविपाकाशयैः अपरामृष्टः पुरुषविशेष ईश्वरः” (यो.सू.१-२४) इति ।
नयलता सम्यग्दृष्टिसमव्याप्ता विशिष्टा शिष्टता परा । निर्वाह्यते यतः साऽत्र तमीशानुग्रहं ब्रुवे ।।१।।
सम्यग्दृष्टिनिरूपणानन्तरं तनिर्वाहकं = सम्यग्दृष्टियोगक्षेमकारकं ईशानुग्रहं = भगवदनुग्रहं विचारयति = मीमांसते - ‘महेशे'ति। महेशानुग्रहात् = प्रणिधानाऽऽवर्जितेश्वरानुग्रहप्रभावाद् उक्तलक्षणस्य = चित्तवृत्तिनिरोधलक्षणस्य योगक्षेमलक्षणां = अप्राप्तप्राप्ति-प्राप्तरक्षणस्वरूपां सिद्धिं पातञ्जलाः कथयन्ति । तदुक्तं → 'ईश्वरप्रणिधानाद् वा' - (यो.सू.१/२३) इति योगसूत्रस्य भाष्ये व्यासेन → प्रणिधानाद् = भक्तिविशेषाद् आवर्जित ईश्वरः तमनुगृह्णाति अभिध्यानमात्रेण । तदभिध्यानमात्रादपि योगिन आसत्रतरः समाधिलाभः समाधिफलं च भवति - (यो.सू.भा.१/२३) इति । अस्पृष्टः = असंस्पृष्टः । अत्र पातञ्जलयोगसूत्रसंवादमाह- 'क्लेशे'ति । ___अत्र च योगसुधाकरवृत्तिरेवं → क्लिश्नन्तीति क्लेशाः वक्ष्यमाणलक्षणाः अविद्यादयः । कर्म मिश्रामिश्ररूपं वक्ष्यमाणम् । विपच्यत इति विपाकः = फलं जात्यायु गादिः । आशेरत इत्याशयाः = संस्काराः । तैः अपरामृष्टः = असंश्लिष्ट: । संश्लिष्टस्तु संसारी जीवः । मुक्तस्त्वसंश्लिष्टोऽपि पूर्वकाले तत्संश्लेषाद् बद्ध इव । अतः पुरुषविशेषो नित्यमुक्त ईश्वरः । तस्य सार्वइयमैश्वर्यञ्चानादिसिद्धप्राकृतशुद्धसत्त्वात्मकचित्तसम्बन्धादिति द्रष्टव्यम् + (यो.सू.१/२४ पृ.३१)। तदुक्तं याज्ञवल्क्यस्मृतौ अपि
છે ઈશાનુગ્રહવિચાર દ્વાબિંશિક પ્રકાશ છે સમ્યગ્દષ્ટિનું નિરૂપણ કર્યા બાદ સમ્યગ્દર્શનનો નિર્વાહ કરનાર ભગવદ્અનુગ્રહની વિચારણા अंथ२श्री ४३ छ..
ગાથાર્થ - કેટલાક વિદ્વાનો મહેશ્વરના અનુગ્રહથી યોગની સિદ્ધિને કહે છે અને કુલેશ, કર્મ વગેરેથી અપરાકૃષ્ટ પુરુષવિશેષ તે ઈશ્વર તરીકે માન્ય છે. (૧૬/૧).
टीर्थ :- पात४५ शनन। विद्वानो भडेश्वरन। अनुप्रथा पूर्व ४॥वेद (au..११/१,भाग૩, પૃ.૭૪૧) યોગની પ્રાપ્તિ અને સ્થિરતા સ્વરૂપ સિદ્ધિ થાય છે. એમ કહે છે. મહેશ્વર તરીકે તે વિશેષ પુરુષ માન્ય છે કે જે ત્રણેય કાળમાં “કલેશ, કર્મ અને તેના વિપાક = ફળ તેમ જ આશયથી = सं२७१२थी अ५२।मृष्ट = मसंद्ध छे. पात४८. योगसूत्रमा ४९॥वेत छ ? → सेश, धर्म, विपा
भने माशयथा अपराभृष्ट विशेष प्रा२नो पुरुष = सात्मा श्व२ छे.' 6 Jain -१. हस्तादर्श ‘सिद्धं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'कथ...' इति पाठः । ३. मुद्रितप्रतौ 'अस्पृष्टः' इति पदं नास्ति।
www.jainelibrary.org