________________
१०६८
• वेदानां पूर्वमार्यत्वं पश्चादनार्यत्वम् • द्वात्रिंशिका-१५/२९ प्रमानिमित्तत्वमात्रमेतदभ्युपगतं न तु प्रमाकरणत्वमिति चेत् ? न, त्वदुक्तं प्रमाकरणत्वमेव' प्रमाणत्वमिति सर्वेषां प्रमातॄणामनभ्युपगमात् ।।२९।। तोऽपि सम्यक्श्रुतत्वमनाविलमेवेत्यधिकमस्मत्कृतमोक्षरत्नातो विज्ञेयम् (भाषारहस्यवृत्ति स्त.४गा.८३ पृ.२८२)।
यद्यपि भरतचक्रवर्तिकृतवेदस्य स्वरूपतोऽपि सम्यक्त्वमिष्टमेव तथापि त्रिषष्टिशलाकापुरुषचरित्रोक्तरीत्या (त्रि.श.७/२/४७४-५००) वेदगतविधिवचनादीनां सगर-सुलसादिप्रतारणकृते मधुपिङ्गजीवमहाकालाख्याऽसुरादिकृतत्वेन मायानिःसृतमृषाभाषान्तर्भावान्मिथ्यात्वमेव स्वरूपतः । आवश्यकनियुक्तिवृत्तौ श्रीहरिभद्रसूरिभिरपि → आर्यान् वेदान् कृतवांश्च भरत एव, तत्स्वाध्यायनिमित्तमिति तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च । अनार्यास्तु पश्चात् सुलसा-याज्ञवल्क्यादिभिः कृताः - (आ.नि. ३६६ वृ.) इत्युक्तम्। त्रिषष्टिशलाकापुरुषेऽपि → वेदाश्चार्हत्स्तुति-यति-श्राद्धधर्ममयास्तदा । पश्चादनार्याः सुलसा-याज्ञवल्क्यादिभिः कृताः ।। 6 (त्रि.श.पु.१/६/२५६) इत्युक्तं श्रीहेमचन्द्रसूरिभिः । तदुक्तं दर्शनरत्नरत्नाकरे अपि निगमगच्छवर्तिना स्वच्छमतिना सिद्धान्तसारमुनिना → ये च वेदाः श्रीभरतेनाहन्नुति-यति-श्राद्धसामाचारीप्ररूपकाः कृतास्ते सुलसा-याज्ञवल्क्यादिभिरनार्याः कृतास्तेषां चानायीकृतवेदानां पाठकास्ते ब्राह्मणा अश्वमेधादियज्ञकर्मभिः पञ्चाक्षप्राणिगणविशसनपरायणा मिथ्यात्वमोहिताः स्वयं भवाब्धौ निमज्जन्तः परानपि निमज्जयन्ति स्म 6 (द.र.र.,पृ.४४२) इति । अतः साम्प्रतमपि वेदादौ क्वचिदुपलभ्यमानोऽविसंवादो जैनाऽऽगममूलक एवाऽभ्युपेयः ।
एतेन → अन्यदर्शनधर्मेषु यत्सत्यञ्च प्रदृश्यते । तत्सत्यं जैनधर्मस्य ज्ञेयं सापेक्षदृष्टितः ।। - (अध्या.गी.४३०) इति अध्यात्मगीतावचनमपि व्याख्यातम् । प्रकृते → वेदाः सनातनाः सर्वे भरतेन प्रवर्तिताः । तत्त्वरूपेण नित्याः स्युरनित्याः शब्दरूपतः ।। (म.गी.४/५०) इति महावीरगीतावचनमप्यनेकान्तवादतोऽनुयोज्यम् । अत एव जैनगीतायां बुद्धिसागरसूरिभिः → वीरवाणी महावेदः सत्याऽहिंसादिसद्गुणैः । पशुहिंसादियुक्तत्वान्नाऽन्यो वेदः सदोषतः ।। 6 (जै.गी.१२९) इत्युक्तम् । पशुहिंसाप्रतिपादकेषु वेदेषूपलभ्यमानानि सद्वचनान्यपि तदङ्गतया प्रमाणत्वेन व्यवहर्तुं न युज्यन्त इत्यवधेयम् । न हि पूतं स्याद् गोक्षीरं श्वदृतौ धृतमिति न्यायोऽत्र भावनीयः । यज्ञ-श्राद्धादौ मांसाऽभक्षकस्याऽब्राह्मणत्वप्रतिपादकस्य व्यासस्मृतिवचनस्य (पृ.२५/श्लो.५६), मांसादितः पितृतृप्तिप्रतिपादकस्य मत्स्यपुराणवचनस्य (अध्या.१७/श्लो.३०-३६) यज्ञेषु हन्यमानानां पशूनां स्वर्गगमनप्रतिपादकस्य विष्णुपुराणस्य तादृशान्यवचनानां च स्पष्टमेव स्वरूपतो मिथ्यात्वमिति दिक् ।
ननु सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्य सम्यक्श्रुतत्वकथनेन प्रमानिमित्तत्वमानं एतद् = प्रमाणत्वं अभ्युपगतं, न तु प्रमाकरणत्वं = प्रमितिकरणत्वलक्षणं प्रमाणत्वमभ्युपगतं इति चेत् ? न, त्वदुक्तं = नैयायिकोक्तं प्रमाकरणत्वमेव प्रमाणत्वं, न त्वन्यविधं इति सर्वेषां प्रमातॄणां अनभ्युपगमात् । प्रमाण
હ પ્રમાણત્વના અનેક સ્વરૂપ છે જ પૂર્વપક્ષ - આ રીતે તો કેવળ પ્રમાનિમિત્તત્વનો જ વેદવચનમાં સ્વીકાર થાય છે, નહિ કે પ્રમાકરણત્વનો. જ્યારે શિષ્ટલક્ષણમાં પ્રવિષ્ટ વેદપ્રામાણ્યગ્રહ તો સર્વવેદવચનગત પ્રમાકરણત્વના સ્વીકાર સ્વરૂપ છે. તેથી જૈનો વેદવચનમાં પ્રમાકરણત્વસ્વરૂપ પ્રામાણ્ય ન માનતા હોવાથી તેમાં શિષ્ટલક્ષણની અતિવ્યાપ્તિ નહિ આવે. १. हस्तादर्श 'प्रमाकरत्वमेव' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org