________________
• सम्यग्दृष्टिगृहीतं श्रुतं सम्यक्
इति नः अस्माकं स्थितिः सिद्धान्तमर्यादा' |
सत् मधुरं शीतलञ्च सम्पद्यते तथैव स्वरूपतो मिथ्याऽपि श्रुतं सम्यग्दृष्टिपरिगृहीतं सत् सम्यगेव भवतीति भावः। तदुक्तं बृहत्कल्पभाष्यवृत्तौ श्रीमलयगिरिसूरिभिः → लौकिकमपि सम्यग्दृष्टिपरिगृहीतं सम्यक् श्रुतम् । मिथ्यादृष्टिपरिगृहीतं लोकोत्तरमपि मिथ्याश्रुतम् ← (बृ. क.भा. ८८ वृ.) । इयं अस्माकं अनेकान्तवादिनां सिद्धान्तमर्यादा । तदुक्तं सम्मतितर्के तम्हा सव्वे वि गया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोष्णणिस्सि उण हवंति सम्मत्तसब्भावा ।। ← ( सं . त . १ /२१ ) इति ।
=
=
=
Jain Education International
11
“सम्यक्
श्रुतं
ज्ञानगतसम्यक्त्व-मिथ्यात्वयोः ज्ञेयकृतत्व - ज्ञातृकृतत्वप्रतिपिपादयिषया श्रीहरिभद्रसूरिभिः अङ्गाऽनप्रविष्टं आचाराऽऽवश्यकादि, तथा मिथ्याश्रुतं = पुराण- रामायण-महाभारतादि । सर्वमेव वा दर्शनपरिग्रहविशेषात् सम्यक्श्रुतमितरद् वा” ← ( आ.नि.गा. २० वृ.) इत्येवं आवश्यकनिर्युक्तिवृत्तौ कथितम् । यथोक्तं नन्दिसूत्रेऽपि अहवा बावत्तरि कलाओ चत्तारि वेआ संगोवंगा, एआई मिच्छदिट्ठिस्स मिच्छत्तपरिग्गहिआई मिच्छासुअं, एयाइं चेव सम्मदिट्ठिस्स सम्मत्तपरिग्गहिआई सम्मसुअं ← ( नं. सू. ४१ पृ. १९४ ) इति । 'भारतादीनि शास्त्राणि सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि भवन्ति सम्यक्त्वेन यथावस्थिताऽसारतापरिभावनरूपेण परिगृहीतानि तस्य सम्यक्श्रुतं तद्गताऽसारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात्' (नं.सू.४१ वृ.पृ. १९४) इति तद्वृत्तौ श्रीमलयगिरिसूरिः । तदुक्तं अध्यात्मगीतायामपि परस्परविरुद्धा या, असंख्या धर्मदृष्टयः । अविरुद्धा भवन्त्येव, सम्प्राप्याऽध्यात्मवेदिनम् ।। ← (अ.गी. २२१ ) इति । एतेन उदधाविव सर्वसिन्धवः समुदीर्णाः त्वयि नाथ ! दृष्टयः ← ( द्वा. द्वा. ४/२५) इति द्वात्रिंशिकाप्रकरणे सिद्धसेनदिवाकरसूरिवचनं व्याख्यातम् । प्रकृते जैनसम्यग्दृशां चैव सम्यग् रूपेण भासनम्। भवति सर्वधर्माणां प्रवृत्तीनां तथा स्मृतम् ।। ← (जै.गी. १०१ ) इति जैनगीतावचनमपि स्मर्तव्यम्। सम्यग्दर्शनाऽविनाभाविविद्यामाहात्म्यमेतत् । सम्मतञ्चेदं परेषामपि । तदुक्तं अध्यात्मरामायणे अविद्या संसृतेर्हेतुः विद्या तस्या निवर्त्तिका ← ( अ.रा.अयोध्याकाण्ड-४/३४) इति। तदुक्तं शङ्कराचार्येणापि आत्मबोधे विद्याऽविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत् ← ( आ.बो. ५ ) इति ।
एतेन सम्यग्दृष्टिपरिगृहीतस्य महाभारत - वेद-पुराणादेर्द्रव्यतो मिथ्यात्वमनपायमेवेति निरस्तम्, बहुश्रुतत्वादिगुणकलितेन सम्यगुपयुक्तेन सम्यग्दृष्टिना स्यात्कारलाञ्छिततया परिगृहीते वेदादौ द्रव्यतोऽपि सम्यक् श्रुतत्वाऽनपायात् । अभिनिवेशे गलिते सति वेदान्तदर्शनस्य परिशुद्धसङ्ग्रहनयाभिप्रायेण, साङ्ख्यदर्शनस्याऽपरिशुद्धसङ्ग्रहनयाशयेन व्यवहारनयमतेन वा, नैयायिक-वैशेषिकदर्शनयोर्नैगमनयतात्पर्येण, बौद्धदर्शनस्य चर्जुसूत्रनयदृष्ट्या द्रव्यतोऽपि प्रमाणत्वमभिमतमेवाऽस्माकम्, नैरपेक्ष्यविषपरित्यागात् । तदुक्तं पञ्चाध्यायीप्रकरणे अपि निरपेक्षा मिथ्या त एव सापेक्षका नयाः सम्यक् ← ( पञ्चा. १ । ५९० ) इति ।
इत्थञ्च व्यवहारतो मिथ्या श्रुतस्याऽपि बहुश्रुतत्वादिगुणकलितसम्यग्दृष्टिपरिगृहीतस्य द्रव्यतोऽपि न मिथ्या श्रुतत्वसम्भवः । तथाहि 'जिनेन्द्रस्तवनं यस्य तस्य जन्म निरर्थकम् । जिनेन्द्रस्तवनं नाऽस्य सफलं जन्म तस्य हि ।।' इत्यत्र 'यसु प्रयत्ने', 'तसु उपक्षये', 'असु क्षेपणे' इति धातुपाठबलेनार्थान्वये द्रव्यપુરાણ વગેરે મિથ્યા શાસ્ત્રો પણ સમ્યક્ સાચા બને છે. આનું કારણ એ છે કે સમકિતી જીવ પ્રત્યે તે મિથ્યાશાસ્ત્રો પણ યથાર્થ બોધનું નિમિત્ત બને છે. આ પ્રમાણે અમારા જૈનસિદ્ધાન્તની વ્યવસ્થા છે.
१. हस्तादर्शे 'मर्यादात्' इत्यशुद्धः पाठः ।
=
•
For Private & Personal Use Only
१०६७
www.jainelibrary.org