SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १०४० • वेदत्वेनाऽप्रामाण्यानभ्युपगविवक्षा • द्वात्रिंशिका-१५/१९ 'अजानति चेति । वेदत्वं च वेदे अजानति ब्राह्मणे अव्याप्तं लक्षणमेतत्, तेन वेदाऽप्रामाण्याऽभ्युपगमात् । अथ चेद् = यदि वेदत्वेनाऽभ्युपगमो विवक्ष्यते, वेद एव वेदत्वमजानतश्च न वेदत्वेनाऽप्रामाण्याऽभ्युपगमः किन्तु 'इदमप्रमाणमिति इदंत्वादिनैवेति नाऽव्याप्तिः । वेदे = वस्त्राद्यन्तरितत्वेन वेदशास्त्रे वेदत्वं अजानति ब्राह्मणे अव्याप्तं लक्षणमेतत् । तेन = श्रोत्रियेण 'नेदं शास्त्रं प्रमाणमित्येवं वेदाऽप्रामाण्याऽभ्युपगमात् स्वारसिकवेदप्रामाण्यमननोत्तरकालीन-वेदप्रामाण्यविरोधिस्वरसवाह्यभ्युपगमसंसर्गाऽभावप्रच्यवात् । ___उपलक्षणाद् बहिः ‘वेदशास्त्रमि'त्यक्षरोट्टङ्कितवस्त्राद्यन्तरितबौद्धशास्त्रमुद्दिश्य ‘इदं प्रमाणमि'त्येवं बौद्धशास्त्रप्रामाण्याऽभ्युपगन्तर्यपि ब्राह्मणेऽव्याप्तिर्बोध्या, बौद्धशास्त्रप्रामाण्याऽभ्युपगमस्य वेदप्रामाण्यविरोधितया स्वारसिकवेदप्रामाण्यमन्तृत्वोत्तरकालीनवेदप्रामाण्यविरोधिस्वारसिकाऽभ्युपगमसंसर्गाभावरूपस्य शिष्टलक्षणस्य विरहात् ।। ____ अथ यदि वेदत्वेनाऽभ्युपगमो विवक्ष्यते तर्हि यद्यपि वस्त्राद्यन्तरितादिदशायां वेदे = वेदशास्त्रे एव वेदत्वमजानतश्च श्रोत्रियस्य 'न वेदाः प्रमाणमित्येवं वेदत्वेन रूपेण वेदशास्त्रे अप्रामाण्याऽभ्युपगमो न = नैवाऽस्ति किन्तु 'इदमप्रमाणमिति रूपेण इदन्त्वादिनैव अप्रामाण्यस्वीकार इति न = नैव शिष्टलक्षणस्य अव्याप्तिः । केनचित् शाठ्यादितो 'बौद्धशास्त्रमि'त्यक्षरशालिवस्त्राद्यन्तरितं ऋग्वेदादिकमुद्दिश्य 'इदं शास्त्रं प्रमाणं यदुताऽप्रमाणम् ?' इत्येवं पृष्टः श्रोत्रियो ब्राह्मणो 'नेदं प्रमाणमिति ब्रूते तदा यद्यपि वेद इदन्त्वेनाऽप्रामाण्यं स्वरसत एव तेनाभ्युपगतमेव तथापि वेदत्वेन वेदेऽप्रामाण्यं नैवोपगतम् । एवमेव बहिः 'वेदशास्त्रमि'त्यक्षराऽऽलिङ्गितवस्त्राद्यन्तरितबौद्धशास्त्रमुद्दिश्य 'इदं प्रमाणमि'त्येवं बौद्धशास्त्रप्रामाण्यमन्तृत्वं नैव श्रोत्रियस्य शिष्टलक्षणाऽव्याप्तिप्रसञ्जकम्, वेदत्वेन वेदप्रामाण्याभ्युपगमस्य सत्त्वादेव । न हीदन्त्वेन बौद्धाद्या गमप्रामाण्याभ्युपगमो वेदप्रामाण्यविरोधी किन्तु बौद्धागमत्वादिनैव रूपेण बौद्धाद्यागमप्रामाण्याभ्युपगमः । एवं प्रामाण्यग्रहोऽपि वेदत्वेनैव शिष्टलक्षणे प्रवेशनीयः । तेन बहिः ‘बौद्धशास्त्रमि'त्यक्षरोट्टङ्कितवस्त्राद्यन्तरितवेदशास्त्रमुद्दिश्य 'इदं प्रमाणमिति ब्रुवतो बौद्धस्य नैव शिष्टत्वप्रसङ्गः । इत्थञ्च वेदत्वेन स्वारसिकप्रामाण्यग्रहाद् यावन्न वेदत्वेन स्वारसिकः प्रामाण्यविरोधिग्रहस्तावच्छिष्टत्वमित्यभ्युपगमे नैवाऽस्ति कश्चिद् दोषलेश इति पूर्वपक्ष्याशयः । વાત કરો તો પણ આ લક્ષણ ખરેખર દોષગ્રસ્ત છે. (૧૫/૧૯) ટીકાર્ય-પુસ્તકાદિસ્વરૂપ વેદમાં વેદપણાને નહિ જાણતા અને તેનો અપ્રમાણ તરીકે સ્વીકાર કરવાના લીધે તે બ્રાહ્મણમાં શિષ્ટલક્ષણ અવ્યાપ્તિદોષવાળું થશે. જો પૂર્વપક્ષી કહે કે વેદરૂપે વેદને અપ્રમાણ તરીકે સ્વીકારે ત્યાં સુધી શિષ્ટત્વ માનવું- આવી વિવેક્ષા છે. વેદને વસ્ત્રથી ઢાંકીને બૌદ્ધગ્રંથનું લેબલ કે સિમ્બોલ લગાડ્યા બાદ તે બ્રાહ્મણ “આ ગ્રંથ અપ્રમાણ છે’ આમ પુરોવર્તીત્વરૂપે તેમાં અપ્રામાણ્યનો સ્વીકાર કરે છે. પણ વેદરૂપે તેમાં અપ્રામાયનો સ્વીકાર નથી કરતો. માટે આવ્યાપ્તિ દોષને અવકાશ નહિ રહે. ૯પરંતુ આ વાત વ્યાજબી નથી. १. हस्तादर्श 'अज्ञानति' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy