________________
• संसारनिर्वेदविभावना •
१०३१
=
इतिकाव्योक्तलक्षणसंवेगभाक् भवनिर्वेदात् ' संसारवैरस्यात् आत्मनिःसरणं तु = जरा-मरणादिदारुणदहनात्स्वनिष्कासनं पुनः यः 'चिन्तयती 'ति गम्यते ।
२
आत्मार्थसम्प्रवृत्तः ' = स्वप्रयोजनमात्रप्रतिबद्धचित्तः असौ सदा = निरन्तरं स्याद् = भवेत् मुण्डकेवली द्रव्य-भावमुण्डनप्रधानस्तथाविधबाह्याऽतिशयशून्यः केवली पीठ - महापीठवत् ।।१५।। अभिभूयन्ते जराराक्षस्या, आच्छाद्यन्ते मोहतिमिरेण, आकृष्यन्ते हृषीकतुरङ्गमैः, पापच्यन्ते क्रोधतीव्रवह्निना, अवष्टभ्यन्ते मानमहापर्वतेन, वेष्ट्यन्ते मायाजालिकया, प्लाव्यन्ते लोभसागरप्लवेन, परिताप्यन्त इष्टवियोगवेदनया, दोदूयन्तेऽनिष्टसङ्गमतापेन, दोलायन्ते कालपरिणतिवशेन, तन्तम्यन्ते कुटुम्बपोषणपरायणतया, कदर्थ्यन्ते कर्मदानग्रहणिकैः, अभियन्ते महामोहनिद्रया, कवलीक्रियन्ते मृत्युमहामकरेण तथापि विषमविषयविषाऽऽकाङ्क्षां नैव परित्यजंतीति क्लेशरूप एवाऽयं सर्वोऽपि भवः” इति विमर्शेण संसारवैरस्यात् तु जरामरणादिदारुणदहनात् = वार्धक्य-मृत्यु-रोग-शोकोपद्रवादिलक्षणदारुणाऽनलदह्यमानभवभवनोदरात् दूरं स्वनिष्कासनं चिन्तयति ।
न चाऽस्य देवलोक शर्माऽऽकाङ्क्षाऽपि वर्तते, यतः किं देवाण सुन्दरत्तं जाणं जोओ अधुवसरीरेण, दारुणं कम्मबन्धपारतन्तं, उक्कडा कसाया, पहवइ महामोहो, अवसाणीन्दियाणि, गरुई विसयतण्हा, विचित्ता उक्करिसाऽवगरिसा, उद्दामं माणसं, अणिवारिओ मच्चू, विरसमवसाणं ति कीइसं वा एवंविहाणं सुहं ← ( स. क. भव - ९ / पृ.९६९) इति समरादित्यकथावचनतात्पर्यं परिणतं तच्चित्ते । शिष्टं स्पष्टप्रायम् । तीर्थकरपद - गणधरपद - सातिशयगुरुपद-मुण्डकेवलिपदप्रयोजके स्व-परोपकारादिचिन्तनवैचित्र्ये तथाभव्यत्वमेव हेतुः । यथोक्तं योगबिन्दौ
तथाभव्यत्वतश्चित्रनिमित्तोपनिपाततः । एवञ्चिन्तादिसिद्धिश्च सन्न्यायाऽऽगमसङ्गता 11 एवं कालादिभेदेन बीजसिद्धयादिसंस्थितिः । सामग्र्यपेक्षया न्यायादन्यथा नोपपद्यते ।। तत्तत्स्वभावता चित्रा तदन्याऽनपेक्षणी तथा । सर्वाऽभ्युपगमव्याप्त्या न्यायश्चाऽत्र निदर्शितः । । सामग्र्याः कार्यहेतुत्वं तदन्याऽभावतोऽपि हि । तदभावादिति ज्ञेयं कालादीनां नियोगतः ।।
← (यो.बिं.-२९१-२९२ - २९३-८२ ) इति ।
केषाञ्चिदाचार्याणां मते तु अत्यन्ताप्तगोचर श्रद्धा - स्थैर्यवतोऽनुष्ठानात्तीर्थकृत्त्वं, मध्यमश्रद्धासमन्विताद् गणधरत्वं जघन्यश्रद्धासहितान्मुण्डकेवलित्वमाप्यते । यथोक्तं योगबिन्दी अधिमुक्त्याशय स्थैर्यઆવો સંવેગી જીવ સંસારની નિર્ગુણતાથી-વિરસતાથી ઘડપણ-મોત વગેરે ભયાનક આગમય સંસારમાંથી પોતાની જાતને બહાર કાઢવાનું વારંવાર ચિંતન-મનન કરે છે. માત્ર પોતાના આત્મકલ્યાણનું પ્રયોજન સાધી લેવા તેનું મન સતત ઝંખી રહ્યું હોય છે. સ્વકલ્યાણમાં જ તેનું મન ચોંટી ગયેલ હોવાથી તે મુંડકેવલી = સામાન્યકેવલી થાય છે. મતલબ દ્રવ્યથી કેશમંડન અને ભાવથી દોષમુંડન-પાપલુંચન જ જેના જીવનમાં મુખ્ય છે અને તેવા પ્રકારના બાહ્ય અતિશયોથી જે રહિત હોય છે તેવા કેવલજ્ઞાની મુંડકેવલી કહેવાય. દા.ત. પીઠ અને મહાપીઠ નામના બે સાધુ સતત સ્વાધ્યાયાદિ સ્વપ્રયોજનને સાધવામાં જ દત્તચિત્તવાળા હોવાથી સામાન્ય કેવલી થઈને બ્રાહ્મી-સુંદરીના ભવમાં મોક્ષે ગયા. (૧૫/૧૫)
१. मुद्रितप्रतौ 'भवनैर्गुण्यात्' इति पाठः । परं मूलानुसारेण यः पाठः शब्दतोऽप्युचितः सोऽस्माभिर्योजितोऽत्र ।
२. मुद्रितप्रतौ ' प्रवत्त' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ' भवेत' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org