________________
१०२२
• बोधिसत्त्वस्य कायपातेऽपि चित्तपाताभावः • द्वात्रिंशिका-१५/११ = कायचेष्टा क्वचिद् गृहारम्भादौ । 'यदि परं' इत्युक्तेः = इत्थंवचनात्, कायपात्येव स = सम्यग्दृष्टिः, न चित्तपाती स्मृतः । इत्थं च कायपातिन एव बोधिसत्त्वा इति लक्षणमत्रोपपन्नं भवति । तदुक्तं- “कायपातिन एवेह' बोधिसत्त्वाः परोदितम् ।
न चित्तपातिनस्तावदेतदत्राऽपि युक्तिमत् ।।” (यो.बि.२७१) ।।११।। संवेगसारा कायचेष्टा अस्वारसिकी गृहाऽऽरम्भादौ पापे यदि परम्, प्रायस्तु न भवत्येवेति न पापपक्षपातोऽस्य । इत्थं = अनेन प्रकारेण श्रीहरिभद्रसूरेः वचनात् निकाचितचारित्रमोहाद्युदयात् कायपात्येव = कायमात्रेणैव सावधक्रियाऽवतारी सम्यग्दृष्टिः = अविरतप्रमत्तसम्यग्दृष्टिः न चित्तपाती = नैव चित्तेन पतनशीलः। यथोक्तं वैराग्यकल्पलतायां अपि → स्वप्नेन्द्रजालसदृशं संसारं मन्यते हि सद्बुद्धिः । तप्ताऽयःपददानन्यायाद् भुङ्क्तेऽपि विषयसुखम् ।। जाता चरणसुखाशा, तनुवाङ्मनसां व्यथा निरनुबन्धा । अहितेऽस्य गृद्ध्यभावान्नष्टं बिभत्सरूपत्वम् ।। सबुद्धेः सान्निध्यात्, कदनभुक्तौ स लज्जते बाढम् । हतदोषकामचारस्तदसौ जातः सदाचारः ।।
6 (वै.क.स्त.२/२२०-२२१-२२२) इति । यथा चैतत्तथा सद्दृष्टिद्वात्रिंशिकायां (द्वा.द्वा.२४/४ भाग-५, पृ.१६२६) भावयिष्यते ।
इत्थञ्च सदसत्प्रवृत्तौ तत्परिणामशुद्धिरनाविलैव निश्चयतः। इदमेवाऽभिप्रेत्य श्रावकप्रज्ञप्तौ धर्मसङ्ग्रहण्यां दर्शनशुद्धिप्रकरणे च → इत्थ य परिणामो खलु जीवस्स सुद्धो उ होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि ज्झामलं होइ ? ।। (श्रा.प्र.५४, ध.सं.८०७, द.शु.४/४५) इत्युक्तम् । न ह्यग्निपरीक्षोत्तीर्णं जात्यहेम ध्यामलं सम्पद्यते, न वा जातवेधं जात्यरत्नं मलाऽऽविलत्वेऽप्यविद्धं सम्पद्यते, न वा वज्रतण्डुलस्य पाकः कुत्राऽपि दृश्यते इति वक्ष्यते तारादित्रयद्वात्रिंशिकायाम् (द्वा.द्वा.२२/ २६-भाग-५,पृ.१५३४) बोधिसत्त्वाः = बोधिप्रधानाः प्राणिनः, तथाभावनातः चित्तगाम्भीर्यादिनेति गम्यम् । यथोक्तं योगशतके → तह कायपाइणो ण पुण चित्तमहिकिच्च बोहिसत्त त्ति । होंति तहभावणाओ आसयजोगेण सुद्धाओ ।। 6 (यो.श.८८) इति । तथा चार्षम् → कायपातिनो हि बोधिसत्त्वाः , न चित्तपातिनः, निराश्रवकर्मफलमेतत् + (योगशतक गा.८८ वृत्तौ उद्धृतः) इति । ग्रन्थकारोऽत्र योगबिन्दुसंवादमाह- 'कायेति। भावितार्थोऽयं श्लोकोऽत्रैव । ब्रह्मसिद्धान्तसमुच्चये श्रीहरिभद्रसूरिभिः → प्रक्षीणतीव्रसङ्क्लेशमोहग्रन्थिविभेदतः । आस्तिक्याऽऽदिगुणोपेतः सम्यग्दृष्टिरुदाहृतः ।। आस्तिक्यादनुकम्पाऽस्य ततो निर्वेद इत्यपि । तस्मात् संवेगसंसिद्धिरतः प्रशम इत्यलम् ।। अतः क्रमादमी भावा जायन्तेऽस्य महात्मनः । क्षायोपशमिकाः पूर्वं तदनु क्षायिका अपि ।।
आविर्भाव-तिरोभावौ वाऽऽद्यानां स्तो नियोगतः । इतरेषां तु विज्ञेयः सदाऽऽविर्भाव एव हि ।। અત્યંત કાંપતો હોય છે.'- આ પ્રમાણે જે જૈનશાસ્ત્રવચન છે તેનાથી સિદ્ધ થાય છે કે “સમ્યગ્દષ્ટિ જીવ કાયપાતી જ હોય છે, ચિત્તપાતી નહિ'- આવું શાસ્ત્રકારોને માન્ય છે. આ રીતે “બોધિસત્ત્વ કાયપાતી જ હોય છે – આ મુજબનું બોધિસત્ત્વલક્ષણ સમકિતી જીવમાં યુક્તિસંગત સિદ્ધ થાય છે. યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે – “બોધિસત્ત્વ કાયપાતી જ હોય છે, ચિત્તપાતી નહિ - આ પ્રમાણે બૌદ્ધદર્શનોક્ત બોધિસત્ત્વલક્ષણ પણ સમકિતીમાં જ યુક્તિસંગત થાય છે. (૧૫/૧૧) १. मुद्रितप्रतौ 'एवेव' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org