________________
१०१४ • सम्यक्त्वव्यावर्णनम् •
द्वात्रिंशिका-१५/६ भावसारा = भोक्तुः स्त्रीरत्नगोचरगौरवादनन्तगुणेन बहुमानेन प्रधाना विनिर्दिष्टा = प्ररूपिता परमपुरुषैः ।।६।। भवेत् ततोऽप्यनन्तगुणमसौ सम्यग्दृष्टिः गुरुदेवादिपूजनविषयं बहुमानमातिष्ठत इत्याशयेनाह- 'भोक्तुः' इत्यादि । स्पष्टम् । यथोक्तं योगबिन्दौ → भोगिनोऽस्य स दूरेण भावसारं तथेक्षते । सर्वकर्तव्यतात्यागाद् गुरुदेवादिपूजनम् ।। - (यो.बि. २६०) इति । 'अस्य' = स्त्रीरत्नस्य' । यथोक्तं सम्यक्त्वसप्ततिकायां → पूयाइए जिणाणं गुरूण विस्सामणाइए विविहे । अंगीकारो नियमो वेयावच्चे जहासत्ती ।। 6 (स.स.१६) इति । गुरुदेवानां यथासमाधिना वैयावृत्त्ये नियमो गुणज्ञश्राद्धचिन्तामणिवैयावृत्त्यनियमाऽभ्यधिकः सम्यग्दृशो भवतीति (यो.श.वृ.गा.१४) योगशतकवृत्तौ अप्यावेदितम् । इदमेव पञ्चाशकवृत्तौ (पं.वृ.३/५) अप्युक्तम् ।
चरमावर्तकालतः प्रारभ्य मित्रादृष्टिकालेऽपि गुरुवैयावृत्त्यलक्षणयोगबीजोपादानात् प्रकृष्यमाणं तत् सम्यग्दृष्टिदशायां विशुद्धतरं भवति । मित्रादृष्ट्यधिकारे योगदृष्टिसमुच्चये → आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाऽऽशयविशेषतः ।। - (यो.दृ.स.२६) इति गदितमिति वक्ष्यते (द्वा.द्वा.२१/१३ भा-५, पृ.१४४६) । ततश्च सम्यग्दर्शनमल्यं भवति । यथोक्तं सम्यक्त्वसप्ततिकायां श्रीहरिभद्रसूरिभिः → गीयत्थचरित्तीण य सेवा बहुमाण-विणयपरिसुद्धा । तत्ताऽवबोहजोगा सम्मत्तं निम्मलं कुणइ।। (स.स.१०) इति । अपुनर्बन्धकावस्थायामपि प्रागुक्तरीत्या (द्वा.द्वा.१२/१-१२,भाग३ पृ.८३५-८५३) विद्यमानं गुरुदेवादिपूजनं सम्यग्दर्शनकाले विशुद्धतरं भवतीत्यवधेयम् । प्रकृते च → सम्मत्त-णाण-दंसण-तिएण एएण लब्भए मोक्खो । जीवस्स गुणा एए ण य दव्वं होइ सम्मत्तो ।। सम्मं भावो सम्मं जहुज्जुयं णत्थि किञ्चि विवरीयं । धम्माधम्मागासा-पोग्गल-जीवेसु जो भणिओ ।। अहवा जीवाजीवा आसव-संवर तह बंध-णिजरा मोक्खो । एयाइं भावेणं भावेन्तो होइ सम्मत्ते ।। अहवा जं चिय जिणेहिं भणियं पडिहय-मय-दोस-मोह-पसरेहिं । तं सव्वं सच्चं चिय इयभावो होइ सम्मत्तं ।। अरहा जाणइ सव्वं अरहा सव्वंपि पासइ समक्खं । अरहा भासइ सच्चं अरहा बंधू तिहुयणस्स ।। इय भत्ती अरहन्ते कुणइ पसंसं च भाव-गुण-कलिओ । साहूण भत्तिमन्तो इय सम्मत्तं मए भणियं ।।
6 (कु.मा.पृष्ठ-२१७) इति कुवलयमालागाथाप्रबन्धोऽपि बुभुत्सुभिरवधेयः ।।१५/६।। ચક્રવર્તીને સ્ત્રીરત્ન ભોગવવામાં જે ઉમળકો હોય તે કરતાં અનંતગુણા આદર ભાવવાળી ગુરુભક્તિ वगैरे समाती छ- माj ५२भपुरुषोभे तावेद छे. (१५/६)
વિશેષાર્થ - ગુરુ અને ભગવાનની સેવા-પૂજામાં વેઠ વાળવાનો ભાવ, ભારબોજનો ભાવ કે કંટાળાનો ભાવ સમકિતી જીવને ન હોય. ચામડા ચીરાઈ જાય તેવી જાલિમ અનંતી દુર્ગતિઓમાંથી મને કાયમી છુટકારો અપાવનારા ગુરુના ઉપકારનો બદલો પોતાનું સર્વસ્વ ગુરુને સોંપી દેવાથી કે પોતાની ચામડીના પગરખા બનાવીને ગુરુને પહેરાવવાથી પણ વાળી શકાય તેમ નથી- આવું સમકિતી જીવને હૃદયથી સમજાયેલ હોય છે. આ વાતનો તેણે હાર્દિક સ્વીકાર કરેલ હોવાથી જ તે ગુરુસેવા-પ્રભૂપૂજા કરતાં કરતાં વચ્ચે પોતાના ભોગસુખને ભોગવવા વગેરેની ખણજ પોષતો નથી અને પોતાની શક્તિને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org