________________
• मुग्धमार्गप्रवेशफलकानुष्ठानविमर्शः ।
९२३ तत्तत्फलार्थिनां तत्तत्तपस्तन्त्रे प्रदर्शितम् । मुग्धमार्गप्रवेशाय दीयतेऽप्यत एव च ।।२३।।
तत्तदिति । तत्तत्फलार्थिनां = सौभाग्यादिफलकाक्षिणां तत्तत्तपो रोहिण्यादितपोरूपं अत एव तन्त्रे प्रदर्शितम् । अत एव च मुग्धानां मार्गप्रवेशाय (=मुग्धमार्गप्रवेशाय) दीयतेऽपि गीतार्थैः । यदाह- "मुद्धाण हियट्ठया सम्मं” (पंचाशक-३/४९) ।
अत्रैवाऽभ्युच्चयमाह- 'तत्तदि'ति । अत एव = बाध्यफलाऽपेक्षायां सत्यामपि मार्गानुसारिणां मुक्त्यद्वेषादिना सदनुष्ठानरागसम्भवादेव सौभाग्यादिफलकाङ्क्षिणां रोहिण्यादितपोरूपं तपः तन्त्रे = जैनदर्शने प्रदर्शितम् । आदिपदेन अम्बादितपोग्रहणं नानादेशप्रसिद्धितः कर्तव्यम् । यथोक्तं पञ्चाशके → रोहिणी अंबा तह मंदउण्णिया सव्वसंपया सोक्खा । सुय-संति-सुरा काली सिद्धाइया तहा चेव ।। एमाइदेवयाओ पडुच्च अवऊसगा उ जे चित्ता । णाणादेसपसिद्धा ते सव्वे चेव होंति तवो ।। __ + (पञ्चा.१९/२४-२५) इति । ‘मंदउण्णिया = मन्दपुण्यिका देवता', 'अवऊसगा = अपवसनानि, अवजोषणानि वा' शिष्टं स्पष्टम् । न च केवलं ज्ञानार्थमेव तत्प्रदर्शनं शास्त्रकृतां, न त्वाचरणार्थमपीति वाच्यम्, तत्तद्भूमिकायामुचितत्वेन प्रदर्शनात्स्वोचितभूमिकाऽनुसारेण तदाचरणस्याप्यदुष्टत्वात् । अत एव = स्वोचितभूमिकाऽनुसारेण रोहिण्यादिरूपस्य तपसोऽदुष्टत्वादेव मुग्धानां मार्गप्रवेशाय रोहिण्यादिरूपं तपो दीयतेऽपि गीताथैः । एतेन → लज्जातो भयतो वितर्कवशतो मात्सर्यतः स्नेहतः, लोभादेव हठाऽभिमान-विनय-शृङ्गार-कीर्त्यादितः । दुःखात् कौतुक-विस्मय-व्यवहृतेर्भावात् कुलाऽऽचारतो वैराग्याच्च भजन्ति धर्ममसमं तेषाममेयं फलम् ।। - (उप.त.२६४) इति उपदेशतरङ्गिणीप्रभृतिसंवादवचनमपि सङ्गच्छते । रोहिणीनक्षत्रदिनोपवासः सप्तमासाऽधिकसप्तवर्षाणि यावत्, तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठा पूजा च विधेयेति (पं.१९/२४ वृ.) रोहिणीतपोविधिः पञ्चाशकवृत्तौ । प्रवचनसारोद्धारे अपि (गा. १५४२) रोहिण्यादितपोविधिः दर्शितः। तत्कथानकादिकञ्च उपदेशप्रासादे त्रयोविंशे स्तम्भे सप्तत्रिंशदधिकत्रिशततमव्याख्यानतोऽवसेयम् ।
प्रकृते तृतीयपञ्चाशक (पञ्चा.३/४९) संवादमाह - ‘मुद्धाण' इति । “मुग्धानां = अव्युत्पन्नबुद्धीनां हितं = श्रेयः तद्रूपो योऽर्थः = वस्तु स हितार्थः तस्मै = हितार्थाय सम्यक् = अविपरीततया" इति तद्वृत्तिः । प्रकृतोपयोगिनी तु पञ्चाशकगाथा → अण्णो वि अत्थि चित्तो तहा तहादेवयाणिओएण । मुद्धजणाण हिओ खलु रोहिणीमाई मुणेयव्यो ।। - (पञ्चा.१९/२३) इति ज्ञेया । न हि एवं અને બાધ્ય ફલાપેક્ષા હોય ત્યારે ઉપરોક્ત પરિસ્થિતિનું નિર્માણ થાય છે. પરંતુ અબાધ્ય = અનિવર્તિનીય ફલાપેક્ષા હોય તો સદનુષ્ઠાનરાગ પ્રગટી શકતો નથી. બાકીની બાબત ટીકાર્યમાં સ્પષ્ટ છે. (૧૩/૨૨)
છે રોહિણી વગેરે તપ તહેતુઅનુષ્ઠાનરૂપ છે જ. ગાથાર્થ :- માટે તે ફળના અર્થી જીવોને તે તે તપ શાસ્ત્રમાં બતાવેલ છે. માટે જ મુગ્ધ જીવોને માર્ગમાં પ્રવેશ કરવા માટે તે-તે તપ દેવાય પણ છે. (૧૩/૨૩)
ટીકાર્થ :- સૌભાગ્ય વગેરે તે તે ફળની કામનાવાળા જીવોને માટે રોહિણી વગેરે સ્વરૂપ તપ આ જ કારણસર શાસ્ત્રમાં દર્શાવેલ છે. માટે જ મુગ્ધ જીવોનો મોક્ષમાર્ગમાં પ્રવેશ કરાવવા માટે ગીતાર્થો દ્વારા તે તે તપ તે મુગ્ધ જીવોને અપાય પણ છે. કારણ કે પંચાશક ગ્રંથમાં શ્રીહરિભદ્રસૂરિજી મહારાજે १. हस्तादर्श 'तपस्तत्रे' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'च' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org