________________
• चरमावर्ते विशिष्टयोग्यताविर्भावः ।
८८३ तदल्पत्वे = 'योग्यताऽल्पत्वे अस्य = मुक्त्यद्वेषस्य सम्भवः = उपपत्तिः । तदुक्तं- "एवं चाऽपगमोऽप्यस्याः प्रत्यावर्तं सुनीतितः । स्थित एव तदल्पत्वे भावशुद्धिरपि ध्रुवा ।।” (यो.बि.१७०) अतोऽपि = मुक्त्यद्वेषादपि श्रेयसां श्रेणी = कुशलानुबन्धसन्ततिः । किं पुनः वाच्यं मुक्तिरागतः तदुपपत्तौ ।।३०।। वमचरमावर्तकालेऽपि धर्माधिकारिताऽऽपत्तिस्स्यादिति शङ्कनीयम्, अचरमावर्तकाले सहजमलाऽपराभिधानबन्धयोग्यताहासेऽपि धर्माधिकारिताप्रायोग्यस्य कर्मबन्धयोग्यताह्रासविशेषस्य विरहात् । स च चरमावर्ते एव भवति । न हि कार्षापणमात्रेण 'धनवान्' इति व्यपदिश्यते । इत्थञ्च 'तस्मादचरमावर्तेप्वध्यात्म नैव युज्यते' (यो.विं.९३) इति योगबिन्दुवचनमप्युपपद्यते ।
एवं क्रमेण चरमावर्तकाले योग्यताऽल्पत्वे = कर्मवन्धयोग्यताहासविशेषे सति मुक्त्यद्वेषस्य उपपत्तिः = सङ्गतिस्स्यात् । प्रकृते योगबिन्दुसंवादमाह- ‘एवमिति । 'भावशुद्धिः' मुक्त्यद्वेपादिलक्षणाऽऽत्मपरिणतिनिर्मलताऽत्राऽवगन्तव्या ।
सामान्यतोऽप्यद्वेपस्य कुशलमूलत्वमभिमतं किं पुनः मुक्त्यद्वेषस्य ? एतेन → तीणि कुसलमूलाणि - अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं - (दी.नि.३/१०/३०५, पृ.१७१) इति दीघनिकायवचनमपि व्याख्यातम् । अत एव मुक्त्यद्वेषादपि कुशलाऽनुबन्धसन्ततिः = शुद्धयोगवीजोपादानजिनवचनपरिणत्यादिकुशलाऽनुबन्धपरम्परा सङ्गच्छते चरमावर्तकाले । यथोक्तं योगदृष्टिसमुच्चये → चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । संशुद्धमेतन्नियमान्नाऽन्यदाऽपीति तद्विदः ।। (यो.दृ.स.२४) इति । 'एतत् = जिनेषु कुशलादिचित्तम्' । षोडशकेऽपि → तस्माच्चरमे नियमादागमवचनमिह पुद्गलाऽऽवर्ते। परिणमति तत्त्वतः खलु स चाऽधिकारी भवत्यस्याः ।। 6 (पो.५/८) इत्युक्तम् । 'अस्याः = लोकोत्तरतत्त्वसम्प्राप्तेः' । अत एव धर्मयौवनकालोऽयमुच्यते । यथोक्तं विशिकाप्रकरणे → अचरिमपरियट्टेसु कालो भववालकालमो भणिओ । चरिमो उ धम्मजुव्वणकालो तह चित्तभेओत्ति ।। 6 (वि.वि.४/१९) इति ।
किं पुनर्वाच्यं मुक्तिरागतः तदुपपत्तौ = कुशलाऽनुवन्धसन्तत्युपपत्तौ ? कुशलाऽनुवन्धसन्ततिः वीजादिक्रमेण विंशिकाप्रकरणे → बीजाइकमेण पुणो जायइ एसुत्थ भव्वसत्ताणं । नियमा, ण अन्नहा वि इट्ठफलो कप्परुक्खु व्व।। वीजं विमस्स नेयं दट्टणं एयकारिणो जीवे । वहुमाणसंगयाए सुद्धपसंसाइ करणिच्छा ।। तीए चेवऽणुवंधो अकलंको अंकुरो इहं नेओ । कटुं पुण विनेया तदुवायन्नेसणा चित्ता ।। અમુક પ્રમાણમાં ઘટે તો મુક્તિઅદ્વેષ સંભવી શકે. કેમ કે યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે – આ રીતે કર્મબંધયોગ્યતાનો વ્યય પણ દરેક પુદ્ગલપરાવર્તમાં યુક્તિથી સિદ્ધ થાય છે. આ રીતે કર્મબંધયોગ્યતાનો ઘટાડો સિદ્ધ થયે છતે ભાવશુદ્ધિ પણ ચોક્કસ માનવી જ રહી. ૯ પ્રસ્તુત મુક્તિઅદ્વેષથી પણ કુશલાનુબંધની પરંપરા પ્રાપ્ત થાય છે તો પછી મુક્તિરાગથી કુશલાનુબંધની પરંપરા સંગત થવામાં તો કોઈ પ્રશ્ન જ
मो थती नथी. (१२/30) dain १. 'योग्यतालप..इत्यशुद्धः पाठो मुद्रितप्रतौ । २. 'शुदिरपि' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
www.jainelibrary.org