________________
८५६
• महतां सत्प्रतिज्ञता
द्वात्रिंशिका - १२/१४
परिवादाऽपनोदः । तथा आपदि निर्वाहणम् । सम्पत्तावपि
राग इति । गुणिनि = गुणवति पुंसि रागः । सर्वत्र जघन्यमध्यमोत्तमेषु निन्दात्यागः विपत्तौ अदैन्यं = अदीनभावः । सत्प्रतिज्ञत्वं = प्रतिपन्नक्रियाविभवसमागमेऽपि नम्रता = औचित्येन नमनशीलता ।। १४ ।। बार्हस्पत्यसूत्राद्यवलम्वनेन मात्सर्यमपहाय गुणवति पुंसि रागः इत्यनेन 'पक्षपाती गुणेपु च' (यो.शा.१/ ५३) इति योगशास्त्रोक्तो द्वाविंशतितमो मार्गानुसारितागुणो द्योतितः । ' सर्वत्र निन्दात्यागः' इत्यनेन 'अवर्णवादी न क्वापि राजादिपु विशेषतः ' (यो.शा. १/४८) इति योगशास्त्रोपदर्शितः पप्ठो मार्गानुसारितागुण आवेदितः । वैदिकतन्त्रस्थोऽपुनर्वन्धकस्तु सर्वं परिक्रोशं जहि ← (ऋ. वे. १/२९/७) इति ऋग्वेदवचनात् → आत्मप्रशंसां परगर्हामिति च वर्जयेत् ← ( आ.ध. १/२/७/२४) इति आपस्तम्बीयधर्मसूत्राच्च सर्वमात्सर्यत्यागेन निन्दामपि परित्यजति । एवमन्यतन्त्रेष्वपि यथार्हमनुयोज्यम् ।
'आपदि अदैन्यमित्यनेन दीनतारूपस्य भवाभिनन्दिलक्षणस्य विरहो निवेदितः । 'सत्प्रतिज्ञत्वमित्यनेन वशीकृतेन्द्रियग्रामलक्षणः पञ्चत्रिंशत्तमो मार्गानुसारितागुणः प्रवेदितः ।
सर्वतन्त्रावस्थितस्याऽप्यपुनर्वन्धकस्य
न हि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः ← (वा.रा. १०१/५१) इति वाल्मीकिरामायणवचनं, छन्दा दोसा भया मोहा यो धम्मं नातिवत्तति । आरति यसो तस्स सुक्कपक्खे व चन्दिमा ।। ← ( दी. नि. ३/८/२४६) इति दीघनिकायवचनं विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ← (मु. रा. १।१७ ) इति च मुद्राराक्षसप्रभृतिवचनमवलम्ब्य प्रतिपन्नक्रियानिर्वाहणं सम्भवति तथाविधप्रकृतिवशेनेत्यवधेयम् ।
→ विवेकः सह सम्पत्त्या विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ।। ← ( नल. ३/१६) इति नलचम्पूवचनात् सम्पत्सु महतां चित्तं भवेदुत्पलकोमलम् । आपत्सु च महाशैलशिलासङ्घातकर्कशम् ।। ← (नि.श. ६२ ) इति नीतिशतकवचनात् सम्पत्तौ न च हर्षोऽस्ति विपत्तौ नास्ति शोकिता । यस्य तस्य समत्वेन मुक्तिर्भवति निश्चयः (? यात्) ।। ← (कृ.गी. ५२) इति कृष्णगीताप्रभृतिवचनाच्च सर्वतन्त्राऽवस्थितस्याऽपुनर्बन्धकस्य सम्पत्तावपि = विशिष्टपुण्योदयेऽपि विवेकगर्भा निष्कृत्रिमा नम्रता सम्पद्यते । अनेन अन्तरङ्गाऽरिपवर्गपरिहारपरायणत्व-सलज्जत्वलक्षणौ मार्गानुसारितागुणौ प्रकटीकृतौ । प्रकृते 'सर्वत्र निन्दासन्त्यागो वर्णवादश्च साधुषु। आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता ।।' (यो. विं. १२७ ) इति योगबिन्दुकारिका स्मर्तव्या ।।१२/१४ ||
=
H
=
•
ટીકાર્થ :- ગુણવાન પુરુષ ઉપર રાગ હોવો. જધન્ય, મધ્યમ કે ઉત્તમ વ્યક્તિઓની નિંદાનો ત્યાગ કરવો. આપત્તિમાં દીનતા ન હોવી. પોતે સ્વીકારેલી પ્રતિજ્ઞાને સારી રીતે પાર પાડવી. વૈભવ આવે છતાં પણ ઉચિત નમ્રતા- આ બધા સદાચાર છે. (૧૨/૧૪)
વિશેષાર્થ :- યોગની પૂર્વસેવામાં અંતર્ગત સદાચારના ઉપરોક્ત વિવિધ સ્વરૂપો છે. પ્રસ્તુતમાં વૈભવ આવે તો પણ ઉચિત નમ્રતાનો અર્થ એ છે કે વિશિષ્ટ પુણ્યોદય હોવા છતાં વડીલો પાસે અત્યંત વિનમ્ર સ્વભાવ હોય, સમકક્ષ કે નિમ્નકક્ષાની વ્યક્તિ પાસે પ્રભુકૃપા-ગુરુઅનુગ્રહ વગેરે તત્ત્વોને પોતાની સફળતાના મુખ્ય ચાલકબળ તરીકે સ્વમુખે ગણાવવા. આ છે ઉચિત નમ્રતા. બાકીની બાબત ટીકાર્થમાં સ્પષ્ટ છે.(૧૨/૧૪)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org