________________
आदिधार्मिक विचारः •
द्वात्रिंशिका-१२/९
चारिसञ्जीविनीचारन्यायादेवं फलोदयः । मार्गप्रवेशरूपः स्याद्विशेषेणाऽऽदिकर्मणाम् ।।९।। ‘चारी’ति । चारिसञ्जीविनीचारन्यायात् = प्रागुपदर्शितात् एवं = सर्वदेवनमस्कारेऽनुषङ्गत इष्टप्राप्तौ तत एव शुभाऽध्यवसायविशेषात् मार्गप्रवेशरूपः शुद्धदेवभक्त्यादिलक्षणः फलोदयः स्यात् । विशेषेण = अनुषङ्गप्राप्तवीतरागगुणाऽऽधिक्यपरिज्ञानेन आदिकर्मणां = प्रथममेवाऽऽरब्धस्थूलधर्माचाराणाम् ।
=
=
चरणं स एव
न्यायः =
लाऽऽचरणा भवन्ति इति हेतोः कथं अविशेषेण समानरूपेण ते नमस्करणीयाः ? इत्यत आह'चारी'ति । प्राक् द्वितीयद्वात्रिंशिकायां (भाग-१, पृ. १०५) उपदर्शितात् चारिसञ्जीविनीचारन्यायात् चारेः प्रतीतरूपाया मध्ये सञ्जीविन्यौपधिविशेषः = चारिसञ्जीविनी तस्याः चारणं दृष्टान्तः तस्मात् सर्वदेवनमस्कारे संमुग्धतयाऽभिनिवेशमन्तरेण क्रियमाणे अनुषङ्गतः अन्योद्देशेन प्रवृत्तस्य तन्नान्तरीयकविधयाऽन्यसिद्धिप्रकारेण इष्टप्राप्तौ समुचिताभीप्टशुद्धदेवसम्प्राप्तौ सत्यां तत एव = आलम्बनीय-नमस्करणीयशुद्धदेवसकाशादेव लब्धाऽऽत्मलाभात् शुभाऽध्यवसायविशेषात् परिपक्वप्रशस्तपरिणामप्रवाहपरम्परातः शुद्धदेवभक्त्यादिलक्षणः शुद्धदेवभक्ति-नति-शरणागति प्रतिपत्तिप्रभृतिस्वरूपमोक्षमार्गप्रवेशलक्षणः फलोदयः
फललाभः स्यात् ।
अयञ्च कथं केषां स्यात्? इत्याह अनुषङ्गप्राप्तवीतरागगुणाऽऽधिक्यपरिज्ञानेन = अन्योद्देश्यकप्रवृत्तिनान्तरीयकाऽवर्जनीयभावव्यापारसमुपलब्धे ध्वस्तदोपे देवाधिदेवेऽन्यदेवाऽवृत्तिसन्मार्गदेशकत्व- वीतरागत्वसर्वज्ञत्वादिगुणसन्दोहस्याऽवगमेन प्रथममेव आरब्धस्थूलधर्माऽऽचाराणां निरुक्तफलोदयः स्यात् । न्यायसम्पन्नवैभवादिपञ्चत्रिंशद्गुणैरुत्तरोत्तरगुणवृद्धियोग्यतावान् आदिधार्मिकः प्रथममेवाऽऽरब्धस्थूलधर्माचारत्वे
नाऽऽदिधार्मिकसंज्ञया प्रसिद्धः तत्तत्तन्त्राऽनुसारतो विचित्राचारो भवतीति (ध.सं.गा. १७) धर्मसङ्ग्रहवृत्तिकृन्मतमत्रावधेयम्। आदिधार्मिकस्य प्रज्ञापनीयतया तदीयमिथ्यात्वस्याऽनाभिग्रहिकत्वात्सामान्यधर्मदेशनायोग्यताऽत्राऽवेसया । तदुक्तं धर्मसङ्ग्रहवृत्तौ मिथ्यादृष्टीनामपि माध्यस्थ्यादिगुणमूलकमित्रादिदृष्टियोगेन तस्य गुणस्थानकत्वसिद्धेः, तथाप्रवृत्तेरनाभिग्रहिकस्य सम्भवाद् अनाभिग्रहिकत्वमेव तस्य देशनायोग्यत्वे शोभननिबन्धनम् ← (ध.सं.वृ.गा. १८ पृ. ४५ ) इति ।
८४६
,
=
=
=
=
=
=
=
♦ ચારિસંજીવિનીન્યાયથી તાત્ત્વિક દેવની ઉપલબ્ધિ *
ગાથાર્થ :- આ રીતે ચારિસંવિની ચારણ ન્યાયથી માર્ગપ્રવેશરૂપ ફલોદય પ્રાપ્ત થાય છે. વિશેષે કરીને આદિધાર્મિક જીવોને આ વાત લાગુ પડે છે. (૧૨/૯)
ટીકાર્થ :- પૂર્વે બીજી બત્રીસીના પંદ૨મા શ્લોકમાં બતાવેલ ચારિસંજીવની ચારણ ન્યાય મુજબ આ રીતે સર્વ દેવોને નમસ્કાર કરતાં-કરતાં પ્રાસંગિક રીતે ઈષ્ટ મુખ્ય દેવ મળી જતાં, તેમના જ માધ્યમથી વિશિષ્ટ શુભ અધ્યવસાય નિમિત્તે શુદ્ધ દેવની ભક્તિ વગેરે સ્વરૂપ મોક્ષમાર્ગપ્રવેશાત્મક ફલોદય થઈ શકે છે. સૌપ્રથમ જ જેમણે સ્થૂલ એવા ધર્માચાર શરૂ કર્યા છે તેવા આદિકર્મ આદિધાર્મિક જીવોને પ્રાસંગિક રીતે મળેલા વીતરાગ દેવમાં બીજા દેવો કરતાં ચઢિયાતા ગુણોનું જ્ઞાન થવાના નિમિત્તે વિશેષરૂપે ઉપરોક્ત ફલલાભ થાય છે. કારણ કે તે આદિધાર્મિક જીવો અત્યન્ત મુગ્ધ હોવાના કારણે વિશિષ્ટ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org