________________
७९२
तत्त्वज्ञानमात्रादपवर्गाऽसम्भवद्योतनम्
द्वात्रिंशिका-११/२२
वतीति । न च भोगव्यपदेशवन्मुक्तिव्यपदेशोऽप्युपचारादेव पुंसि सम्भवतीति वाच्यम्,
= आत्मन एव, न तु प्रकृतेः, मुक्तिरुक्ता । सा च = पुरुषमुक्तिर्हि न = नैव सम्भवति, पुरुषस्य सदैवाऽवद्धत्वात्, इति हेतो: ' पञ्चविंशतितत्त्वज्ञो यत्र तत्राऽऽश्रमे रत' इत्यादिकारिकोक्तं वृथैवेति फलितम्। न ह्यन्यस्य मोक्षार्थं कश्चिद् विपश्चित् तथा यतते । तदुक्तं धर्मसङ्ग्रहण्यां श्रीहरिभद्रसूरिभिः अण्णस्स वंध- मोक्खा ण अप्पणो वालवयणसरिसमिणं । तस्सवि य णिच्चपक्खे एमेव ण संगता ते उ ।। परिणामम्मि य णणु तस्स चेव जुज्जंति किं ततोऽण्णेण । अपमाणेण परिकप्पितेण अण्णाणपिसुणेणं । । इय दिट्ठादिट्ठविरोह भावतो सव्ववत्थुविसओ उ । एतणिच्चपक्खो मिच्छत्तं होइ णेतव्वो ।। ← (धर्मसं.२२५-२२७) इति । तदुक्तं अध्यात्मसारे अपि →
कृति - भोगौ च बुद्धेश्चेद् बन्धो मोक्षश्च नाऽऽत्मनः । ततश्चाऽऽत्मानमुद्दिश्य कूटमेतद् यदुच्यते ।। पञ्चविंशतितत्त्वज्ञो यत्र तत्राऽऽश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नाऽत्र संशयः || एतस्य चोपचारत्वे मोक्षशास्त्रं वृथाऽखिलम् । अन्यस्य हि विमोक्षार्थे न कोऽप्यन्यः प्रवर्तते ।। ← (अ.सा. १३/५९-६१ ) इति । एतेन ज्ञानान्मुक्तिः (सां.सू.३/२३ ) बन्धो विपर्ययात् ← (सां. सू. ३/२४) इति साङ्ख्यसूत्रयुगलमपि व्याख्यातम् ।
→ विकारं प्रकृतिं चैव पुरुषं च सनातनम् । यो यथावद् विजानाति स वितृष्णो विमुच्यते । । ← (म.भा.शां.प.११७/३७ ) इति महाभारते अपि कण्ठतः पुरुपस्यैव मुक्तिरभिहिता ।
इदञ्चाऽत्राऽवधेयम्- पञ्चविंशतितत्त्वज्ञानान्मुक्तिरिति साङ्ख्यसिद्धान्तस्य श्रद्धामात्रशरणत्वमेव, सर्वैरेव स्व-स्वाऽभ्युपगतपदार्थतत्त्वज्ञानस्यैव मोक्षहेतुत्वोक्तेः । एतेन ये पण्णवतितत्त्वज्ञा यत्र कुत्राऽऽश्रमे रताः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ।। ← ( वरा . १ ।१७ ) इति वराहोपनिषद्वचनं, → धर्मविशेपप्रसूताद् द्रव्य-गुण-कर्म- सामान्य-विशेप - समवायानां पदार्थानां साधर्म्य - वैधर्म्याभ्यां तत्त्वज्ञानाद् निःश्रेयसम् ← (वै.सू.१/१/४ ) इति वैशिषकसूत्रं प्रमाण- प्रमेय - संशय-प्रयोजन-दृष्टान्त-सिद्धान्ताऽवयवतर्क- निर्णय-वाद- जल्पवितण्डा - हेत्वाभास- च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाऽधिगमः ← (न्या. सू.१-१-१) इति न्यायसूत्रं च निरस्तम् । साङ्ख्योक्तपञ्चविंशतितत्त्वादिज्ञानमात्रादेव पतञ्जलिदर्शितपड्विंशतितत्त्वज्ञानादेव वा मुक्त्यभ्युपगमेन साङ्ख्यैः न योगेः नाऽऽश्रमैर्नाऽन्यैरात्मानमुपलभन्ते ← (सुबा. ९/७) इति सुबालोपनिषद्वचनमपि व्याहन्येत ।
न च यद्यपि भोगवत् मुक्तिरपि तत्त्वतः प्रकृतेरेव, न तु पुरुपे, तस्य कूटस्थनित्यत्वादकारणत्वाच्च, तदुक्तं साङ्ख्यकारिकायां ' तस्मान्नं बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृतिः ।।' (सां. का. ६२ ) इति तथापि भोगव्यपदेशवत् = कर्तृत्वચોથા સંન્યાસાશ્રમમાં રહેલો હોય તો તેનો મોક્ષ થાય છે આમાં કોઈ સંશય નથી. આ ભાવવાળા પૂર્વપક્ષીને માન્ય એવા ઉપરના શ્લોકમાં પચીશ તત્ત્વના જ્ઞાનથી પુરુષની જ મુક્તિ કહેવાયેલી છે, નહિ કે પ્રકૃતિની મુક્તિ. પરંતુ પુરુષની મુક્તિ તો સંભવતી નથી. કારણ કે પુરુષ બંધાયેલો જ નથી. અહીં એવી શંકા થાય કે → ‘જેમ પુરુષમાં ભોગનો વ્યવહાર ઉપચારથી થાય છે તેમ મુક્તિનો વ્યવહા૨
•
चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Jain Education International
For Private & Personal Use Only
•
www.jainelibrary.org