________________
पुरुषेऽध्यवसायविचारः
द्वात्रिंशिका - ११/२०
यस्मात् ततः = मोक्षशास्त्राद् दुःखनिवृत्त्यर्थं = दुःखनाशाय प्रकृतेः = प्रधानस्य कर्तृत्वस्मयस्य कर्तृत्वाऽभिमानस्य वर्जनं निवृत्तिर्भवति (=कर्तृत्वस्मयवर्जनं ) । अनादिरेव हि प्रकृतिपुरुषयोर्भोक्तृ-भोग्यभावलक्षणः सम्बन्धः ।
तस्मिन् सति व्यक्तमचेतनायाः प्रकृतेः कर्तृत्वाऽभिमानाद् दुःखाऽनुभवे सति कथमियं मोक्षशास्त्राद् = मुक्तिप्रतिपादकशास्त्राद् दुःखनाशाय = त्रिविधदुःखप्रच्यवाय प्रधानस्य अलिङ्गाऽपराभिधानस्य कर्तृत्वाऽभिमानस्य निवृत्तिर्भवति । इत्थमत्र मोक्षकृते शास्त्रमप्युपयुज्यते ।
ननु कुड्यं विना चित्रकर्मानुसारीदम्, यतो जडत्वात्प्रकृतेः कर्तृत्वाऽभिमानोदय एव न सम्भवति, कुतस्तन्निवृत्तिकृते मोक्षशास्त्रोपदेशाऽऽवश्यकता इति चेत् ? अत्रोच्यते- पातञ्जलैः अनादिरेव नैसर्गिको हि प्रकृति-पुरुषयोः भोक्तृभोग्यभावलक्षणः सम्बन्धः अविवेकख्यातिमूलः कक्षीक्रियते । तदुक्तं शिवगीतायां →
७८८
=
=
=
एक एव महानात्मा सोऽहंकारोऽभिधीयते । स जीवः सोंऽतरात्मेति गीयते तत्त्वचिन्तकैः ।। तेन वेदयते सर्वं सुखं दुःखं च जन्मसु । स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ।। तेनाऽविवेकजस्तस्मात्संसारः पुरुषस्य तु । स चाऽविवेकः प्रकृतेः सङ्गात्कालेन सोऽभवत् ।।
← (शि.गी.१७/१३-१४-१५) इति । वस्तुतः पुरुपे भोक्तृत्वं नास्त्येव परं चित्तवृत्ति पुरुषप्रति - विम्वसङ्क्रमात्तत्तादात्म्याऽध्यासाद् भोक्तृत्वादिकं तत्रोपचर्यते । पुरुपगतस्य भोक्तृत्व-कर्तृत्वादेरौपचरिकत्वातन्निरूपितं भोक्तृत्व-कर्तृत्वादिकमपि प्रकृतावुपचरितमेव तत्त्वतो भवति । तदुक्तं राजमार्तण्डे प्रकृतिवस्तुतः कर्तृत्व- भोक्तृत्वरहिताऽपि 'कर्च्यहं भोक्यहमित्यभिमन्यते । सोऽयमस्मिताऽऽख्यो विपर्यासः क्लेशः ← ( रा. मा. २ / ६ ) इति । किन्तु प्रकृतौ कर्तृत्व- भोक्तृत्वाद्यभिमानं तु पारमार्थिकमेव, पुरुषप्रतिविम्बसङ्क्रान्त्या तस्याश्चेतनायमानत्वेन कर्तृत्वाद्यभिमानोदयात् ।
=
·
एतदेव व्यक्तीकरोति- तस्मिन् सम्बन्धे सति पुरुषाऽर्थकर्तव्यतारूपशक्तिद्वयसद्भावे या महदादिभावेन परिणतिः तस्यां संयोगे सति यदात्मनोऽधिष्ठातृत्वं = चिच्छायासमर्पणसामर्थ्यं वुद्धिसत्त्वस्य च सङ्क्रान्तचिच्छायाग्रहणसामर्थ्यं ततो व्यक्तं अचेतनायाः = जडाया अपि प्रकृतेः प्रकृत्यभिन्नायाः बुद्धेः कर्तृत्वाऽभिमानात् कर्तृत्व-भोक्तृत्वाऽभिमानाद् दुःखाऽनुभवे = प्रतिकूलवेदनीयसाक्षात्कारे सति कथमियं જો સમર્થ હોય (પ્રકૃતિથી જ મોક્ષ થવાનો હોય, ‘મોક્ષ થવો-ન થવો-ક્યારે થવો ?' આ બાબત જો પ્રકૃતિને જ આધીન હોય, પુરુષનો મોક્ષ કરાવવાનું વાસ્તવિક સામર્થ્ય જો પ્રકૃતિમાં જ હોય) તો મોક્ષના ઉપદેશક શાસ્ર વ્યર્થ થવાની આપત્તિ આવશે” - આવી શંકા ન કરવી. આનું કારણ એ છે કે દુઃખની નિવૃત્તિ માટે મોક્ષદર્શક શાસ્ત્રથી પ્રકૃતિને કર્તૃત્વનું અભિમાન દૂર થાય છે. કહેવાનો આશય એ છે કે પુરુષ અને પ્રકૃતિનો અનાદિ કાળથી જ ભોક્ત-ભોગ્યભાવ નામનો સંબંધ છે. પુરુષ ભોક્તા છે અને પ્રકૃતિ ભોગ્ય છે. આ અનાદિ કાળથી ચાલી આવતી હકીકત છે. પ્રકૃતિ અને આત્મા વચ્ચે આવો ભોગ્ય-ભોક્તાભાવસ્વરૂપ સંબંધ છે.
તેના કારણે પુરુષપ્રતિબિંબ પડવાથી જડ એવી પણ પ્રકૃતિને કર્તૃત્વ-ભોક્તત્વનું અભિમાન થાય
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
=