SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ • अन्तःकरण-चित्तवृत्तीनां चतुर्विधत्वम् • ७८३ ततः क्वाऽतिप्रसञ्जनं = योगादेकस्य मुक्तावन्यस्याऽपि मुक्त्यापत्तिरूपम् ? प्रकृतेः सर्वत्रैकत्वेऽपि बुद्धिव्यापारभेदेन भेदोपपत्तेः। तथा च सूत्रं-“कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति" महतस्तु तथा वृत्तिः सङ्कल्पाऽध्यवसायात्मिका - (लिं.पु. १/३/१७) इति । → अध्यवसायलक्षणो महान् बुद्धिर्मतिरुपलब्धिरित्यनर्थान्तरम् - (देव.स्मृ.६/५२) इति देवलस्मृतिवचनमपि प्रकृतेऽवधेयम् । यदपि वायुपुराणे → सङ्कल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् - (वा.पु.४/४६) इत्येवमुक्तं तदपि मनोऽपराभिधाने महत्तत्त्वे योज्यम् । तदुक्तं योगवाशिष्ठे → अस्य बुद्ध्यभिधानस्य याऽङ्कुरस्य प्रपीनता । सङ्कल्परूपिणी तस्याः चित्तं चेतो मनोऽभिधा ।। - (यो.वा. ) इति । → महदाख्यमाद्यं कार्यं तन्मनः -- (सां.सू.१/७१) इति साङ्ख्यसूत्रमपि मनस एव महत्तत्त्वाऽनन्तरतामाह । तदुक्तं शिवगीतायां अपि → मनो बुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् । अन्तःकरणमित्याहुः - (शि.गी.२/ ३०) इति, → अहड्कारो मनो बुद्धिः चित्तञ्चैतच्चतुष्टयम् - (श्रीधी.१/९९) इति च श्रीधीशगीतायाम् । यथोक्तं शम्भुगीतायां अपि → मनो बुद्धिरहङ्कारश्चित्तमेतच्चतुर्विधम् । अन्तःकरणमस्तीति वित्त यूयं पितृव्रजाः !।। - (शं.गी.१/८५) इति । प्रकृते → मनो बुद्धिरहङ्कारश्चित्तमित्यन्तःकरणचतुष्टयम् - (शारी.पृष्ठ-२) इति शारीरकोपनिषद्वचनं, → साङ्कल्पनं मनो विद्धि - (महो.४/५२) इति महोपनिषद्वचनं, → अन्तःकरण-मनो-बुद्धि-चित्ताऽहङ्काराः तद्वृत्तयः - (पै.२/१) इति पैङ्गलोपनिषद्वचनमप्यत्राऽवधेयम् । तदुक्तं रामगीतायां अपि → मनो बुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् - (रा.गी. ४/३९) इति । यथोक्तं कपिल-देवहूतिसंवादे अपि → मनोवुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् - (क. देव. सं.२/१४) इति । तदुक्तं नारदपरिव्राजकोपनिषदि अपि → वृत्तयश्चत्वारो मनो बुद्धिः अहङ्कारः चित्तं च - (ना.परि.५/१२) इति । ततश्च बुद्धेः सकाशाद् विषयपरिच्छेदो नाऽसम्भवीति सिद्धम् । ततः = बुद्धितत्त्वस्य प्रत्यात्मनियतत्वात् योगात् = असम्प्रज्ञातसमाधियोगात् एकस्य पुरुषस्य मुक्तौ जातायां अन्यस्यापि सर्वस्य पुरुषस्य मुक्त्यापत्तिरूपं = मुक्तिप्राप्तिलक्षणं अतिप्रसञ्जनं क्व सम्भवति ? इदञ्च बुद्धेः सर्वपुरुपसाधारणत्वे स्यात् । न चेदमभ्युपगम्यते । न च प्रकृतेरेकत्वात् सर्वपुरुपसाधारणत्वादियमापत्तिरपरिहार्येवेति शङ्कनीयम्, प्रकृतेः सर्वत्र = सर्वान् पुरुपान् प्रति एकत्वेऽपि बुद्धिव्यापारभेदेन = स्वकीयव्यापारीभूतबुद्धिभेदोपगमेन भेदोपपत्तेः = अन्यत्वसङ्गतेः । अत्र योगसूत्रसंवादमाह- कृतार्थमिति। एतद्व्याख्या योगसुधाकरे ने प्रधानमेकं पुरुपा अनन्ताः । तथा च તેથી ચિત્તવૃત્તિનિરોધ સ્વરૂપ યોગના પ્રભાવથી એક આત્માની મુક્તિ થતાં અન્ય આત્માની મુક્તિ થઈ જવાની સમસ્યાને કોઈ અવકાશ નહિ રહે. કારણ કે, પ્રકૃતિ બધે એક હોવા છતાં પણ પ્રકૃતિવિકારભૂત બુદ્ધિતત્ત્વ દરેક આત્મામાં અલગ અલગ હોવાથી બુદ્ધિસ્વરૂપ પ્રકૃતિવ્યાપારના ભેદ દ્વારા “એક આત્મા મુક્ત અને અન્ય અમુક્ત' એવો વ્યવહાર થઈ શકશે. મતલબ કે જે પુરુષે પોતાના ચિત્તની વૃત્તિઓનો નિરોધ કરેલ છે તે મુક્ત બનશે તથા જે આત્માએ વૃત્તિનિરોધ નથી કર્યો તે સંસારી કહેવાશે. આવા જ આશયથી યોગસૂત્રમાં જણાવેલ છે કે – “પ્રધાન તત્ત્વ = પ્રકૃતિ તત્ત્વ કૃતાર્થ આત્મા પ્રત્યે નષ્ટ = વ્યાપારશૂન્ય થવા છતાં પણ નાશ પામતું નથી. અર્થાત્ સર્વથા બુદ્ધિવરૂપવ્યાપારથી શૂન્ય થતું નથી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy