________________
७६२ • कूटस्थत्वव्युत्पत्तिः •
द्वात्रिंशिका-११/११ ___'न चेति । न चैतत् = पूर्वोक्तं किञ्चित् अपरिणामिनि आत्मनि युज्यते । तत्र = आत्मनि हि कूटस्थे = 'एकान्तकस्वभावे सति । असंसारः = संसाराभाव एव स्यात्, पुष्करपत्रवन्निर्लेपस्य तस्याऽविचलितस्वभावत्वात् ।
प्रकृतितद्विकारोपहितस्वभावे च तस्मिन् संसारदशायामभ्युपगम्यमाने ध्रुवं = निश्चितं अमोक्षः कादशकप्रतिपादितं योगलक्षणं अपरिणामिनि = सर्वथा कूटस्थनित्ये आत्मनि स्वीक्रियमाणे न च = नैव किञ्चित् = किमपि युज्यते = सङ्गच्छते । तथाहि- आत्मनि हि कूटस्थे = एकान्तैकस्वभावे = अप्रच्युताऽनुत्पन्नस्थिरैकपरिणामे सति; 'कूटः = लोहकाराऽऽपणस्था लौहानां कूट्टनार्थिका लौही चैरिणी, तद्वत् सर्वदा तिष्ठतीति कूटस्थः = एकरूपतया कालव्यापी' इति किरणावल्यभिधानायां साङ्ख्यकारिकावृत्तौ प्रोक्तम् । प्रकृते आपादनमाह- संसाराऽभाव एव स्यात् पुष्करपत्रवत् = पद्मपलाशवत् निर्लेपस्य = पङ्कस्थानीयकर्तृत्वादिलेपशून्यस्य तस्य आत्मनः अविचलितस्वभावत्वात् । यथा विमलकमलदलमम्भसा कर्दमादिना वा लिप्तं न सम्भवति तथाऽऽत्मा कर्तृत्वाद्याश्रयो न भवतीति तन्मतम् । अतो लिप्तत्वमनुयोगितासम्बन्धेन विजातीयसंयोगवत्त्वम् । वैजात्यञ्च ‘अम्भसा भस्मना वा लिप्तं शरीरं तैलेन लिप्तमि'त्याद्यनुगतप्रतीतिसिद्धनोदनत्वव्याप्यजातिविशेषरूपम्। अनुयोगितासम्बन्धेन तादृशवैजात्यावच्छिनप्रतियोगिताकाऽभाववत्त्वं स्वरूपसम्बन्धेन तादृशवैजात्याऽवच्छिन्नाऽनुयोगित्वाऽवच्छिन्नप्रतियोगिताकाऽभाववत्त्वं वा निर्लिप्तत्वमिति (कारिकावली-४९ प्र.पृ.४०३) मुक्तावली-प्रभायां नृसिंहशास्त्री । एतादृशनिर्लेपस्वभावाङ्गीकारे चतुर्गतिसंसरणनानादुःखोपधानादिमयसंसाराऽसम्भवः स्पष्ट एव । ततश्च भोगाऽनुपपत्तिरपि दुर्वारा । तदुक्तं वीतरागस्तोत्रे श्रीहेमचन्द्रसूरिभिः → आत्मन्येकान्तनित्ये स्यान्न भोगः सुख-दुःखयोः - (वी.स्तो.८/२) इति । पुरुषस्य परिणामित्वे तु चित्तैकाग्र्याऽभ्यासप्रकर्षवशात् चित्तनिरोध अस्माकमपीष्ट एव । तदुक्तं उत्तराध्ययनसूत्रे → एगग्गमणसंनिवेसणाए णं भंते!. जीवे किं जणेइ? चित्तनिरोहं करेइ ( (उत्त.२९/२५) इति ।
ननु पुरुषः पुष्करपत्रवन्निर्लेप एव, प्रकृतिरेव च की, बुद्धिश्च प्रकृतेः विकारः । पुरुपोपरागविपयोपराग-कर्तव्योपरागरूपांशत्रयवत्या बुद्धरुपधानाद्धि पुरुषस्य संसार उच्यते, तदानीं तस्य प्रकृतिबुद्धयुपहितस्वभावत्वादिति चेत्? अत्रोच्यते, प्रकृति-तद्विकारोपहितस्वभावे च = प्रधान-तद्विकारात्मकबुद्धिलक्षणोपाधिसङ्गतिस्वभावे हि तस्मिन् आत्मनि संसारदशायां पतञ्जल्यनुयायिभिः अभ्युपगम्यमाने
ટીકાર્ય - આત્માને એકાંતે અપરિણામી માનવામાં આવે તો પતંજલિ દ્વારા જણાવેલ યોગલક્ષણ જરા પણ સંગત થતું નથી. કારણ કે જો આત્માને ફૂટસ્થ-સ્થિરએકાન્તસ્વભાવવાળો માનવામાં આવે તો સંસાર જ સંભવે નહિ. આનું કારણ એ છે કે કમળના પાંદડાની જેમ પુરુષ = આત્મા સર્વથા નિર્લેપ જ છે, સર્વદા નિર્લેપ જ છે. પોતાના સાર્વદિક નિર્લેપ સ્વભાવને પુરુષ કદાપિ છોડતો નથી જ. અલિપ્ત સ્વભાવથી આત્મા જરા પણ ચલાયમાન ન થાય તો તે આત્મા સંસારી કઈ રીતે કહી શકાય ? કારણ કે દોષથી લેપાયું - ખરડાવું આ જ તો સંસારી આત્માની ખાસ ઓળખાણ છે.
તથા જો પાતંજલ યોગદર્શનકાર દ્વારા એમ કહેવામાં આવે કે – “સંસારી અવસ્થામાં પ્રકૃતિ १. मुद्रितप्रतौ 'एकान्तिक....' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org