________________
७५०
• निद्रायां सुखाद्यनुभवसमर्थनम् • द्वात्रिंशिका-११/५ निद्रा च वासनाऽभावप्रत्ययाऽऽलम्बना स्मृता। सुखादिविषया वृत्तिर्जागरे स्मृतिदर्शनात् ।।५।।
निद्रा चेति । अभावप्रत्ययाऽऽलम्बना = 'भावप्रत्ययालम्बनविरहिता वासना च निद्रा स्मृता, सन्ततमुद्रिक्तत्वात्तमसः । समस्तविषयपरित्यागेन या प्रवर्तत इत्यर्थः । तदाह- "अभावप्रत्ययालम्बना यस्य स तथा । तथा च वाधावाधकालाऽविशेषेण तदुभयजनकोऽर्थशून्यप्रत्ययो विकल्प इत्यर्थः । विपर्ययश्च वाधोत्तरं न स्वविषयेषु शब्द-ज्ञाने जनयति + (यो.सू. १/९ प्र.) इति प्रदीपे भावागणेशो व्याख्यातवान् । ___ 'व्यवहाराऽविसंवादान्नायं विपर्यय' (त.वै.१/९) इति तत्त्ववैशारद्यां वाचस्पतिमिश्र आचष्टे । वस्तुशून्यत्वेऽपि शब्दज्ञानयाथार्थ्यनिबन्धनव्यवहारस्य दृश्यमानत्वान्नायं विपर्ययोपारोहीति योगसूत्रभाष्यकाराशयः। → यथा च यथार्थशब्देन यथार्थज्ञानेन च यादृशो व्यवहारो भवति शब्दज्ञानरूपः तादृश एव व्यवहारो विकल्पादपि दृश्यते विवेकिनामपीत्यर्थः । विपर्ययस्तु नैवम्, बाधोत्तर मिदं रजतमिति शब्द-प्रत्यययोरभावात् 6 (यो.सू. १/९ यो.वा.) इति योगवार्तिके विज्ञानभिक्षुः व्याचप्टे ।।११/४।।
चतुर्थी वृत्तिमाह- 'निद्रे'ति । भावप्रत्ययाऽऽलम्बनविरहिता = जाग्रत्स्वप्नवृत्तिकारणात्मकविषयशून्या वासना = वृत्तिः निद्रा स्मृता । बुद्धिसत्त्वे हि त्रिगुणे यदा सत्त्व-रजसी अभिभूय समस्तकरणाऽऽवारकमाविर्भवति तमस्तदा सन्ततं तमस उद्रिक्तत्वात् वुद्धेः विषयाऽऽकारपरिणामाऽभावात् समस्तविषयपरित्यागेन या वृत्तिः प्रवर्तते सा निद्रा इत्यर्थः । योगसूत्रसंवादमाह- ‘अभावे'ति । एतद्व्याख्या राजमार्तण्डे → अभावप्रत्यय आलम्बनं यस्या वृत्तेः सा तथोक्ता । एतदुक्तं भवति- या सन्ततमुद्रिक्तत्वात्तमसः समस्तविपयपरित्यागेन प्रवर्तते वृत्तिः सा निद्रा । तस्याश्च ‘सुखमहमस्वाप्समिति स्मृतिदर्शनात् स्मृतेश्चानुभवव्यतिरेकेणाऽनुपपत्तेर्वृत्तित्वम् - (यो.सू. १/१० रा.मा.) इत्येवं वर्तते । प्रकृते → तथाऽहं सुखमस्वाप्सं नैव किञ्चिदवेदिषम् । इत्येवं प्रत्यभिज्ञाऽपि पश्चात्तस्योपपद्यते ।। 6 (शि.गी.१०/५६) इति शिवगीतावचनमप्यनुयोज्यम् । प्रत्यभिज्ञापदस्य स्मृतिपरत्वमत्रावसेयम् । → कार्य प्रति अयते = गच्छतीति प्रत्ययः = हेतुः । जाग्रत्स्वप्नवृत्तीनामभावे हेतुः तमः आ
છે નિદ્રાસ્વરૂપ વિચાર હ ગાથાર્થ:- અભાવપ્રત્યયઆલંબનવાળી વાસના નિદ્રા કહેવાય છે. આ વાસના = વૃત્તિ સુખાદિવિષયક હોય છે. કારણ કે જાગ્યા પછી તેની સ્મૃતિ થતી દેખાય છે. (૧૧/૫)
ટીકાર્થ:- અભાવપ્રત્યયઆલંબનવાળી એટલે કે ભાવપ્રત્યયઆલંબનશૂન્ય એવી વાસના એ નિદ્રા કહેવાયેલ છે. (ભાવ = જાગ્રતદશાવૃત્તિ અને સ્વપ્રદશાવૃત્તિ. તેના કારણભૂત એવા વિષયને આલંબન ન બનાવે તેવી વાસનાત્મક વૃત્તિ નિદ્રા કહેવાય. અથવા જાગ્રત અને સ્વપ્રદશાના અભાવમાં નિમિત્તભૂત તમસ ગુણને આલંબન = વિષય બનાવે તેવી વૃત્તિ નિદ્રા કહેવાય છે. મતલબ કે તે સમયે તમન્ તત્ત્વ અત્યંત બળવાન હોવાથી જાગ્રત-સ્વપ્રદશાના સમસ્ત વિષયોનો ત્યાગ કરીને જે પ્રવૃત્તિ કરે તે વૃત્તિ નિદ્રા કહેવાય છે. આવા જ આશયથી યોગસૂત્રમાં જણાવેલ છે કે “અભાવ-પ્રત્યયને આલંબન = વિષય બનાવનાર વૃત્તિ નિદ્રા છે.' આ વૃત્તિ સુખ-દુઃખ-મોહવિષયક હોય છે. કારણ કે નિદ્રાનો ત્યાગ કરીને १. हस्तादर्श 'भावप्रत्यया' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org