________________
७३४
शुद्धनयदेशनाऽऽवेदनम्
द्वात्रिंशिका - १०/३०
तदुक्ताः पर्याया घनतरतरङ्गा इव जवाद्विवर्तव्यावृत्तिव्यतिकरभृतश्चिज्जलनिधौ । । न बद्धो नो मुक्तो न भवति मुमुक्षुर्न विरतो, न सिद्धः साध्यो वा व्युपरतविवर्तव्यतिकरः । असावात्मा नित्यः परिणमदनन्ताऽविरतचिच्चमत्कारस्फारः स्फुरति भवतो निश्चयनये ।।
← (न्या.खं.खा.१००-१०१ ) इति । न निरोधो न चोत्पत्तिर्न वन्द्यो न च शासनम् । न मुमुक्षा न मुक्तिश्चेदित्येषा परमार्थता ।। ← ( ब्र. बिं. २/१० ) इति अथर्ववेदीय-ब्रह्मबिन्दूपनिषदि, → न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ।। ← (आत्मो.३१, अव.८, त्रिपु.५/१०, मां. का. २ / ३२) इति आत्मोपनिषदि अवधूतोपनिषदि त्रिपुरातापिन्युपनिषदि माण्डूक्यकारिकाभाष्ये च सर्वशून्यं निरालम्बं स्वरूपं यत्र चिन्त्यते । अभावयोगः स प्रोक्तो येनाऽऽत्मानं प्रपश्यति ।। ← (शि.पु. ७/२/७३ /६ ) इति च शिवपुराणे न शून्यं मोक्षौपयिकतत्त्वतया प्रतिपाद्यते किन्तु निरोधोत्पादाद्यभाव एव प्रतिपाद्यत इत्येपा शुद्धनयस्थितिः स्याद्वादपरिकरभूताऽवसेया ।
•
•
परमार्थतः सैव सम्यग्दृष्टिभिरुपादेया । एतेन ववहारोऽभूयत्थो भूयत्थो देसिदो दु सुद्धणओ । भूयत्थमस्सिदो खलु सम्माइट्ठी हवइ जीवो।। ← ( स.सा. ११) इति समयसारोक्तिः व्यख्याता द्रष्टव्या, इत्थमेव पारमार्थिकसम्यग्दर्शनशालिनां सार्वदिकशुद्धज्ञानधारोपपत्तेः । एतेन उत्पाद्यत्वं विकार्यत्वं संस्कार्यत्वमथाणुता । एते हि ब्रह्मणो धर्माः प्रतिषिद्धा बुधैरपि ।। ← ( रा.गी. ५/३६) इति रामगीतावचनमपि व्याख्यातम् । तदुक्तं तेजोबिन्दुपनिषदि अपि बन्ध - मोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा । जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।। ← (ते. बिं. ५ / ३८) इति ।
प्रकृते अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासनिदर्शनैः । ग्राह्य-ग्राहकसंवित्तेर्भेदवानिव लक्ष्यते ।। ← (उ.सा. १८/१४२) इति उपदेशसाहस्रीवचनमप्यनुयोज्यम् । अयं श्लोकः तत्त्ववैशारद्यां (४/२३) स्फोटसिद्धिगोपालिकावृत्ती (स्फो.गो. पृ. १६०), सर्वदर्शनसङ्ग्रहे (स.द.सं. पृ.३२), बृहदारण्यकवार्तिकवृत्तौ (बृ. आ.वा.टी. ४/३/४७६) व्योमवत्यां (व्यो. व. पृ. ५२५) न्यायविनिश्चयविवरणे ( न्या. वि.वि. पृ.२५२) च समुद्धृतः । अयमेव श्लोकः पाठभेदलेशेन प्रमाणवार्तिके (प्र.वा. २/३५४) मीमांसा श्लोकवार्तिककाशिकावृत्तौ (मी श्लो. का. शून्यवाद) प्रकरणपञ्चिकायां चोद्धृतो वर्तत इत्यवधेयम् । अलं प्रसक्तानुप्रसक्ततयैतादृशविवरणेन विद्वदनुग्रहकारित्वे ।
प्रकृतं प्रस्तूयते । निश्चयतोऽसङ्गतयाऽऽत्मनोऽनुभवेऽपि प्रारब्धबलादारब्धदेहादिर्न निवर्तते न वा तन्मूलो जन्म-मरण - बन्धादिव्यवहारो निवर्तते । तदुक्तं आत्मप्रबोधोपनिषदि विवेकयुक्तिबुद्ध्याऽहं जानाम्यात्मानमद्वयम् । तथापि बन्ध-मोक्षादिव्यवहारः प्रतीयते । । ← (आ.प्र. ११) इति । एतेन जन्म-मरणादिव्यवहारोऽपि व्याख्यातः । तदुक्तं अध्यात्मसार एव
जन्मादिकोऽपि नियतः परिणामो हि कर्मणाम् । न च कर्मकृतो भेदः स्यादात्मन्यविकारिणि ।। आरोप्य केवलं कर्मकृतां विकृतिमात्मनि । भ्रमन्ति भ्रष्टविज्ञाना भीमे संसारसागरे ।। उपाधिभेदजं भेदं वेत्त्यज्ञः स्फटिके यथा । तथा कर्मकृतं भेदमात्मन्येवाऽभिमन्यते ।। उपाधिकर्मजो नास्ति व्यवहारस्त्वकर्मणः । इत्यागमवचो लुप्तमात्मवैरूप्यवादिना ।। ← (अ.सा. १८/१५-१८) इति । आगमवचस्तु अकम्मस्स ववहारो ण विज्जति ← ( आचा. १/ ३/१/११०) इति आचाराङ्गसूत्रवचनात्मकमवगन्तव्यमिति । कर्तृत्वादेः कर्मसम्पादितत्वमिति तात्पर्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org