________________
• बौद्धमते पुण्यद्वैविध्यकथनम् •
७१९ हि सुवर्णघटो 'भिद्यमानोऽपि न सुवर्णानुबन्धं मुञ्चति एवं शुभक्रिया तथाविधकषायोदयाद् भग्नाऽपि शुभफलैवेति । तदिदमुक्तं- “भाववृद्धिरतोऽवश्यं सानुबन्धं शुभोदयम् ।
गीयतेऽन्यैरपि ह्येतत्सुवर्णघटसन्निभम् ।।” (यो.बि.३५१) इति ।।२४।। अपि सुवर्णघटतुल्यां ब्रुवते → द्विविधं हि भिक्षवः ! पुण्यम् - मिथ्यादृष्टिजं सम्यग्दृष्टिजञ्च । अपरिशुद्धमाद्यं, फलं प्रति मृद्घटसंस्थानीयम् । परिशुद्धमुत्तरम्, फलं प्रति सुवर्णघटसंस्थानीयम् - (योगशतक गा.८७ वृत्तौ उद्धृत) इति वचनात् । प्रकृते योगबिन्दुसंवादमाह- 'भाववृद्धि'रिति । तद्वृत्तिस्त्वेवम् → भाववृद्धिः भावोत्कर्परूपा अतः = सत्क्षयोपशमात् अवश्यं = नियमवती भवतीति । अत्रैव परमतमाह सानुबन्धं शुभोदयं = प्रशस्तफलं गीयते = प्रतिपाद्यते, अन्यैरपि हि सौगतादिभिर्न केवलमस्माभिरित्यपिशव्दार्थः, एतत् = शुभमनुष्ठानं सुवर्णघटसन्निभम् । यथा सुवर्णघटो भिद्यमानोऽपि न सुवर्णानुबन्धं मुञ्चति एवं शुभमनुष्ठानं तथाविधकषायोदयाद् भग्नमपि शुभफलमेव + (यो.विं. ३५१ वृ.) इति । प्रकृते भावः शुद्ध आज्ञाबहुमानपरिणामरूपोऽवसेयः । तदुक्तं उपदेशपदे → आणाबहुमाणाओ सुद्धाओ इहं फलं विसिटुंति । ण तु किरियामेत्ताओ पुवायरिया तहा चाहु ।। भावाऽऽणाबहुमाणाओ सत्तिओ सुकिरियापवित्तीवि। नियमेणं चिय इहरा ण तको सुद्धोत्ति इट्ठा सा।। एईए उ विसिटुं सुवन्नघडतुल्लमिह फलं नवरं । अणुबंधजुयं संपुन्नहे उओ सम्ममवसेयं ।। किरियामेत्तं तु इहं जायति लद्धादवेक्खयाएऽवि । गुरुलाघवादिसन्नाणवज्जियं पायमियरेसिं ।। एत्तो उ निरणुबंधं मिम्मयघडसरिसमो फलं णेयं । कुलडादियदाणाइसु जहा तहा हंत एयंपि ।। तम्हा भावो सुद्धो सव्वपयत्तेण हंदि परलोए । कायव्वो बुद्धिमया आणोवगजोगतो णिच्चं ।।
6 (उप.पद.२३८/२४३) इति । ज्ञानसारेऽपि → ज्ञानपूतां परेऽप्याहुः क्रियां हेमघटोपमाम् । युक्तं तदपि तद्भावं न यद् भग्नाऽपि सोज्झति ।। - (ज्ञा.सा.उपसं. १०) इत्युक्तम् । तथाविधभावं विना तु बाह्यकरणमप्यकिञ्चित्करमेव । तदुक्तं भावप्राभृते → बाहिरसंगच्चाओ गिरि-सरिय-दरि-कंदराइ आवासो। सयलो झाणज्झयणो णिरत्थओ भावरहियाणं ।। - (भा.प्रा.८९) इति ध्येयम् ।।१०/२४ ।। સમાન કહે છે. જેમ સોનાનો ઘડો ફૂટે-તૂટે તો પણ સુવર્ણપણાનો નાશ થતો નથી. સોનું તો હાજર જ રહે છે. તેમ તેવા પ્રકારના કોઈક કષાયના ઉદયથી શુભ ક્રિયા નષ્ટ થવા છતાં પણ તે શુભ ફળને જ આપનારી બને છે. મતલબ કે વિપરીત સંયોગમાં બાહ્ય ક્રિયાનો અભાવ હોય તો પણ ધર્મક્રિયા કરવાનો માનસિક પરિણામ તો રહે જ છે.
માટે જ યોગબિંદુમાં જણાવેલ છે કે – ક્રિયાજનક શક્તિથી અવશ્ય ભાવવૃદ્ધિ થાય છે. ભાવયુક્ત अनुठान शुभोध्यवाणु छ. अन्य = जौद्ध दोडी ५९॥ तेने सुवघटतुल्य डे छ.' - (१०/२४)
વિશેષાર્થ :- શુભ ભાવથી વણાયેલી ધર્મક્રિયા સુવર્ણઘટ જેવી છે. સોનાનો ઘડો ફૂટી-તૂટી જાય તો પણ સોનું ટકી રહે છે. તેની પણ કિંમત હોય છે. તેમ શુભભાવવાળી ક્રિયા પૂર્ણ થયા પછી પણ ભાવ ટકી રહે છે, સદનુષ્ઠાન કરવાનો પરિણામ ટકી રહે છે. તે પણ અવશ્ય સારું ફળ આપનાર થાય છે. (૧)(૨૪) १. 'विद्यमानो' इति मुद्रितप्रतावशुद्धः पाठः । २. मुद्रितप्रतौ ‘स्वर्णा...' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org