________________
• पुष्टि-शुद्धिनिरूपणम् • तानेवाहप्रणिधानं प्रवृत्तिश्च तथा विघ्नजयस्त्रिधा। सिद्धिश्च विनियोगश्च एते' कर्मशुभाऽऽशयाः।।१०।।
प्रणिधानमिति । कर्मणि = क्रियायां शुभाशयाः = स्वपुष्टि-शुद्ध्यनुबन्धहेतवः शुभपरिणामाः (=कर्मशुभाशयाः)। पुष्टिरुपचयः, शुद्धिश्च ज्ञानादिगुणविघातिघातिकर्मह्रासोत्थनिर्मलतेत्यवधेयम् ।।१०।। ___ तानेव प्रणिधानादीन् ग्रन्थकार आह- ‘प्रणिधानमिति । यथोक्तं षोडशके → प्रणिधि-प्रवृत्तिविघ्नजय-सिद्धि-विनियोगभेदतः प्रायः । धर्म राख्यातः शुभाशयः पञ्चधाऽत्र विधौ ।। - (षो.३/ ६) इति। स्वपुष्टि-शुद्ध्यनुबन्धहेतवः शुभपरिणामाः इति । अभव्यादौ प्रकृतदृढतरसदाशयाऽसत्त्वेन क्वाचित्कशुद्धिपुष्ट्योः सत्त्वेऽपि न तदनुबन्धः सम्भवति । अनाभोगवति मुग्धादौ प्रणिधानादिविरहादेव निरनुबन्धिन्यौ ते भवत इति ध्येयम् । पुष्टिः = उपचयः = प्रवर्धमानपुण्ययोगः, शुद्धिः = ज्ञानादिगुणविघातिघातिकर्महासोत्थनिर्मलता = सम्यग्ज्ञानादिप्रतिबन्धकज्ञानावरणादिघातिकर्मव्यपगमेनोत्पन्ना यावती काचित् देशतोऽपि निरुपाधिकता । न चाऽपवर्गमार्गे शुद्धेरेवास्त्वावश्यकता, अलं पुष्ट्येति शङ्कनीयम्, दैव-पुरुषकारवत् शुद्धि-पुष्ट्योरन्योन्यसापेक्षतयैवाऽपवर्गजनकत्वाभ्युपगमात् । यथोक्तं षोडशके पुष्टिः पुण्योपचयः शुद्धिः पापक्षयेण निर्मलता। अनुबन्धिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया ।। - (पोड.३/४) इति । पुण्यस्य विरहे तु मोक्षसामग्रीलाभ एव दुर्लभः ।
__ इदमेवाभिप्रेत्य भक्तामरस्तोत्रवृत्तौ → जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके, विद्वद्गोष्ठी वचनपटुता कौशलं सत्कलासु । साध्वी लक्ष्मीश्चरणकमलोपासना सद्गुरूणां, शुद्धं शीलं मतिरमलिना प्राप्यते नाल्पपुण्यैः ।। - (भक्ता.१९/पृष्ठ.५०) इत्युक्तम् । यथोक्तं पुण्यकुलके अपि → सुद्धो बोहो सुगुरूहिं, संगमो उवसमं दयालुत्तं । दक्खिण्णकरणं जं, लभंति पभूयपुण्णेहिं ।। संमत्तं निच्चलं तं, वयाण परिपालणं अमायत्तं । पढणं गुणणं विणओ, लभंति पभूयपुण्णेहिं ।। उस्सग्गे अववाये, निच्छय-ववहारम्मि निउणत्तं । मण-वयण-कायसुद्धी, लब्भंति पभूयपुण्णेहिं ।। अवियारं तारुण्णं, जिणाणं राओ परोवयारत्तं । निक्कंपया य झाणे, लब्भंति पभूयपुण्णेहिं ।।
6 (पु.कु.३-६) इत्याद्युक्तम् । → मनःशुद्धिः प्रकर्तव्या, कर्तव्यमात्मसाधनम् + (कृ. गी.३५) इति कृष्णगीतावचनं तु शुद्धिप्राधान्यपरमवसेयम् । ततश्च शुद्धि-पुष्ट्योरुभयोरेवावश्यकताऽઅભવ્યાદિક્રિયા, મુગ્ધક્રિયા અને પ્રણિધાનાદિયુક્ત ધર્મક્રિયામાં યથાક્રમ સમજી લેવું. (૧૦/૯)
ધર્મક્રિયાને શુદ્ધ કરનારા પ્રણિધાન વગેરેને ગ્રંથકારશ્રી જણાવે છે.
ગાથાર્થ :- પ્રણિધાન, પ્રવૃત્તિ, વિનય, સિદ્ધિ અને વિનિયોગ-આ પાંચ ક્રિયાગત શુભાશય 81141.(१०/१०)
ટીકાર્ય :- ધર્મક્રિયામાં પોતાની શુદ્ધિ અને પુષ્ટિની પરંપરાને ચલાવનારા શુભ પરિણામો પ્રણિધા-નાદિ પાંચ છે. પુષ્ટિ એટલે પ્રવર્ધમાન પુણ્યયોગે પુષ્ટ થવું. તથા શુદ્ધિ એટલે જ્ઞાનાદિ આત્મગુણોનો નાશ કરનાર ઘાતકર્મના ક્ષયોપશમાદિથી ઉભી થયેલી આત્માની નિર્મળતા.- આ વાત ખાસ ધ્યાનમાં રાખવી. (૧૦/૧૦) १. हस्ताद” 'नंत' इत्यशुद्धः पाठः । अन्यहस्तप्रतौ च 'पंथ' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org