SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३२८ • परज्ञता-परदर्शकत्वस्वभावविचारः • द्वात्रिंशिका-५/१८ औपाधिकश्च, आद्यः परज्ञता-परदर्शकत्वलक्षणः, अन्त्यश्च विचित्र इति न दोषः ।।१८।। भाविक उपचरितस्वभावः परज्ञता-परदर्शकत्वलक्षणः परशब्दस्य श्रेष्ठार्थकत्वात् श्रेष्ठज्ञता-श्रेष्ठदर्शकत्वलक्षणः = केवलज्ञान-केवलदर्शनलक्षणो भवति, उपलक्षणादनन्ताऽऽनन्द-वीतरागताऽनन्तशक्त्यादिग्रहणम् । प्रतिष्ठाकारयिता स्वात्मनि ‘स एवाहमि'त्येवंविधं यं केवलज्ञान-दर्शनानन्तानन्दवीतरागादिभावोपचारं करोति स उपचार स्वाभाविकस्तदाहितोपचरितस्वभावोऽपि स्वाभाविक उच्यते, केवलज्ञानादीनामात्मस्वभावभूतत्वात् छद्मस्थे च प्रतिष्ठाकारयितरि साम्प्रतं तिरोभूतत्वात्। मुक्तात्मनि केवलज्ञानादेरनुपचरितस्वभावत्वम्, प्रतिष्ठाकारयितरि च तस्य स्वाभाविकोपचरितस्वभावत्वम् । एतस्य स्वाभाविकस्योपचरितस्वभावस्य कालान्तरे भवान्तरे वा विनाशेऽपि न प्रतिमाया अप्रतिष्ठितत्वापत्तिर्न वाऽपूज्यतापत्तिः, तस्यामन्त्यस्योपचरितस्वभावस्यैवाऽभ्युपगमादिति वदन्ति । तच्चिन्त्यम् । वस्तुतस्तु निश्चयनयाऽभिप्रायानुसारेण स्वेतराऽमिश्रणेन स्वद्रव्य-गुण-पर्यायज्ञातृत्व-द्रष्टुत्वलक्षणो ह्यात्मनोऽनुपचरितस्वभावः शुद्धस्वभावाऽपराऽभिधानः; परद्रव्यादिज्ञातृत्व-द्रष्टुत्व-कर्तृत्व-भोक्तृत्वादिकन्त्वात्मन्युपचारमात्रेणाऽभिधीयते । एतादृशीं वस्तुस्थितिं विलोक्याऽपरिमितनयमयाऽनेकान्तवादघटकीभूतो व्यवहाराभिधानः सुनयः ब्रूते- ज्ञातृत्व-द्रष्टुत्वलक्षणनिजस्वभावप्रभावादेवाऽऽत्मा परद्रव्यादिकं जानाति पश्यति चेति परज्ञता-परदर्शकत्वलक्षणः = परद्रव्यगुणादि-ज्ञातृत्व-द्रष्टुत्वलक्षण आत्मन उपचरितस्वभावो हि स्वाभाविकः, स्वभावप्रसूतत्वात्। तथा परद्रव्य-गुण-पर्यायकर्तृत्व-भोक्तृत्वलक्षण आत्मन उपचरितस्वभावो ह्यौपाधिक एव । उपाधीनां विचित्रत्वादौपाधिक उपचरितस्वभावोऽपि विचित्र इत्याशयेनाह- अन्त्यश्च औपाधिक उपचरितस्वभावो हि विचित्रः = अनाकार-साकार-विनश्वराऽविनश्वराऽल्पकालीन-चिरतरकालिकादिरूपेणाऽनेकविधः, उपाधीनामनेकविधत्वात् । एवमेव यथागमं पुद्गलद्रव्येऽपि स्वभाववैविध्यं भावनीयम् । यच्च ग्रन्थकृतैव अनेकान्तव्यवस्थायां जैनतर्काऽपराऽभिधानायां → स्वभावस्याऽप्यन्यत्रोपचारादुपचरितस्वभावः । स द्वेधा, कर्मज-स्वाभाविकभेदात् । आद्यो यथा- जीवस्य मूर्तत्वमचेतनत्वञ्च । द्वितीयो यथा- सिद्धात्मनां परज्ञता परदर्शकत्वञ्च - (अ.व्य.पृष्ठ.७७) इत्येवमाशाम्बरप्रक्रियानुसारेणोक्तं तदप्यत्र यथातन्त्रमनुयोज्यम् । अयञ्चोपचरितस्वभावोऽपि नैकान्ततोऽभ्युपेयः, विरोधादिप्रसङ्गात् । तदुक्तं बृहन्नयઆત્મભિન્ન અર્થમાં છે. નિરુપચરિત રીતે જીવનો સ્વભાવ પોતાને જાણવાનો અને જોવાનો છે. પરદ્રવ્યાદિને જાણવા-જોવાનો સ્વભાવ ઔપચારિક છે. તેમ છતાં તે સ્વાભાવિક છે. મૂળભૂત સ્વભાવ મુજબ જે ઉપચાર થાય તે સ્વાભાવિક ઉપચાર કહેવાય. અર્થાત આત્માના સ્વભાવને અનુસરતા એવા ઉપચારથી પ્રગટ થયેલો સ્વભાવ તે સ્વાભાવિક ઉપચરિત સ્વભાવ કહેવાય તથા પ્રતિમામાં કેવલજ્ઞાનાદિ ગુણોનો ઉપચાર કરવાથી પ્રતિમામાં આવેલા સ્વભાવને ઔપાધિક ઉપચરિત સ્વભાવ કહેવાય. ઉપાધિ = નિમિત્ત. પ્રતિમામાં રહેલ શિલ્પશાસ્ત્રોક્ત મુદ્રા વગેરે નિમિત્તને અવલંબીને પ્રતિમામાં પ્રતિષ્ઠાકારક વીતરાગતાદિ ગુણોનો ઉપચાર કરે છે. આવા ઉપચારથી પ્રતિમામાં ઔપાધિક ઉપચરિત સ્વભાવ પ્રગટ થાય છે. તે અનેક પ્રકારનો છે અને પ્રતિષ્ઠા પછી પણ પ્રતિમામાં રહે છે. માટે પ્રતિષ્ઠાકારકનો અધ્યવસાય નાશ થવા છતાં પણ પ્રતિમા અપૂજ્ય = અપ્રતિષ્ઠિત થવાનો કોઈ દોષ આવશે નહિ. (પ/૧૮) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy