SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३२० • द्रव्यभावयोर्निर्जराकारणविमर्शः • द्वात्रिंशिका-५/१५ स परिणामः तन्त्रोक्तस्मृतिमूलया = आगमवचनस्मरणपूर्विकया (भक्त्या) चेष्टया = प्रवृत्त्या शुभो भवति, भक्ति-बहुमान-विनयादिलिङ्गानामागमाऽनुसरणमूलत्वात् । तदिदमाह 'बिम्बं महत् सुरूपं कनकादिमयश्च यः खलु विशेषः । नास्मात्फलं विशिष्टं भवति तु तदिहाशयविशेषात् ।। आगमतन्त्रः सततं तद्वद्भक्त्यादिलिङ्गसंसिद्धः । चेष्टायां तत्स्मृतिमान् शस्तः खल्वाशयविशेषः ।।' (षो.७/१२-१३) इति ।।१५।। निच्छयतो पुण अप्पे जस्स वत्थुम्मि जायते भावो । तत्तो सो निज्जरगो जिण-गोयम-सीहआहरणं ।। ( (व्य.भा.६/१९१) इति ।। परं व्यवहारनयस्त्वाचष्टे यद्यल्पाद् महतश्च बिम्बात् समं फलं जायेत ततः ‘अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेद् ?' इत्यनेनैव न्यायेनाऽल्पपरिमाणाद् बिम्बाद् फले सिद्धे नैव कश्चिद् विपश्चिद् महदाऽऽयाससाध्ये महद्धनव्ययसाध्ये हेमादिमये महाबिम्बे प्रवर्तेत । सार्वलौकिकाऽनुभवसिद्धं यदुत हेमादिनिर्मिते महति जिनबिम्बे प्रह्लादोऽपि विशिष्टतरो जायते । अतो भावविशेषाऽऽधायकतया बाह्यविशेषोऽप्याद्रियत एव । यथोक्तं व्यवहारभाष्ये व्यवहारनयतः → लक्खणजुत्ता पडिमा पासाईया समत्तलंकारा । पल्हायइ जह व मणं तह णिज्जरमो वियाणाहित्ति ।। - (व्य.भा.उ.६/गा.१८९) इति । इदञ्चोपलक्षणमधिकबिम्बसङ्ख्याया अपि । तदुक्तं चैत्यवन्दनमहाभाष्ये → एगम्मि वि जिणबिंबे दिढे हिययस्स होइ आणंदो । अहियाऽहियदंसणओ अइप्पमाणो पवित्थरइ ।। अणुहवसिद्धं एयं पायं भव्वाणं सुद्धबुद्धीणं। - (चै.वं.म.भा.६७/६८) इति । यच्च शिवोपनिषदि → यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा । तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः ।। 6 (शि.१३) इत्युक्तं तदपि लिङ्गशब्दस्य बिम्बपरतामुपलक्ष्य निश्चय-व्यवहारतो यथातन्त्रमनुयोज्यम् । स परिणामः कथं शुभो भवति ? इत्याशङ्कायामाह- चेष्टयेति । आगमवचनस्मरणपूर्विकया प्रवृत्त्या स परिणामः शुभो भवति । यथोक्तं अष्टकप्रकरणे → औचित्येन प्रवृत्तस्य कुग्रहत्यागतो भृशम् । सर्वत्राऽऽगमनिष्ठस्य भावशुद्धिर्यथोदिता ।। ( (अ.प्र.२२/८) इति । आगमस्मरणेन हेतुशुद्धिरभिहिता, आगमाऽनुसारिप्रवृत्त्या स्वरूपशुद्धिरभिहिता, आगमवतां भक्त्या चानुबन्धशुद्धिरभिहिता। आगमवतां भक्तिबहुमान-विनयादिलिङ्गानां आगमाऽनुसरणमूलत्वात् = मोक्षमार्गप्रदर्शकाऽऽगमानुसरणमूलकत्वात् । इत्थमेव मार्गस्थक्षयोपशमवृद्धिर्जायते सम्यग्दर्शनादिशुद्धिश्च सानुबन्धा भवति । एवं हेतु-स्वरूपाऽनुबन्धशुद्धिपरिकलितत्वाद् भावस्य प्राशस्त्यमवसेयम् । कारिकायुगलेन षोडशकसंवादमाह- 'बिम्बमिति ‘आगमेति च । છે. તેથી શ્રી હરિભદ્રસૂરિ મ.સા.એ ષોડશક ગ્રંથમાં જણાવેલ છે કે – જિનપ્રતિમા મોટી હોય, સુંદર રૂપવાળી હોય અને સુવર્ણમય વગેરે સ્વરૂપ હોય. આવી જે વિશેષતા પ્રતિમામાં હોય તેનાથી વિશિષ્ટ ફળ મળતું નથી. પ્રસ્તુતમાં આશય વિશેષથી વિશેષફળ મળે છે. આગમને અનુસરતો, સતત આગમજ્ઞ પુરુષની ભક્તિ વગેરે ચિહ્નોથી નિશ્ચિત તથા પ્રવૃત્તિમાં આગમસ્મૃતિયુક્ત આશયવિશેષ અહીં પ્રશસ્ત 201ो . ८ (५/१५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy