________________
दौहृदोत्थापनमीमांसा •
३१७
मनसोत्थापिताः सन्तः (पूर्या: = ) पूरणीयाः क्रीडनकाद्युपढौकनादिना, इत्थमेव भगवद्भक्तिप्रकर्षोपपत्तेः ।
यदाह
‘अधिकगुणस्थैर्नियमात् कारयितव्यं स्वदौर्हृदैर्युक्तम् । न्यायाऽर्जितवित्तेन तु जिनबिम्बं भावशुद्धेन ।। अत्राऽवस्थात्रयगामिनो बुधैर्दोर्हृदाः समाख्याताः ।
'बालाद्याश्चैत्ता यत्तत्क्रीडनकादि देयमिति । । ' ( षो. ७ / ८-९ ) ।।१३।। दिदशानुसारित्वेऽपि शिल्प्युद्देश्यकत्वेनानुद्भाव्येति यावत्, प्रतिमागतावस्थात्रयोद्भावनेन जिनबिम्बसत्कबाल-कुमार-युवलक्षणावस्थात्रितयपरिभावनेन; वृद्धावस्था तु न ग्राह्या, तीर्थङ्करे वार्धक्यदशाविरहेण तादृशजिनप्रतिमाया निषिद्धत्वात् । तदुक्तं शुक्राचार्येण क्वचित्तु बालसदृशं सदैव तरुणं वपुः । मूर्त्तीनां कल्पयेच्छिल्पी न वृद्धसदृशं क्वचित् ।। ← ( वेधवास्तु प्रभाकर - ८१ ) इति । न च भगवतो निरञ्जनत्वे कथं रूपाऽवस्थादिकल्पना युज्यते ? इति शङ्कनीयम्, स्वभूमिकौचित्येन तथाविधभक्त्युपासनादिकृते तस्या ‘अशुद्धे वर्त्मनि स्थित्वा ततः शुद्धं समीहते' इति न्यायेन युज्यमानत्वात् । सम्मतञ्चेदं परेषामपि । तदुक्तं रामपूर्वतापिन्युपनिषदि चिन्मयस्याऽद्वितीयस्य निष्कलस्याऽशरीरिणः । उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ।। ← ( रा. ता. १ / ७ ) इति ।
•
प्रकृतमुच्यते - ते मनोरथाः शिल्प्यालम्बनेन पूरणीयाः क्रीडनकाद्युपढौकनादिना । क्रीडनकं विस्मयकृदुपभोगोपकरणजातं, प्रथमादिपदेन भोगोपकरणसङ्ग्रहः द्वितीयादिपदेन क्रयणादिपरिग्रहः । एवञ्चैतद् बालाद्यवस्थात्रयानुसारिमनोरथसम्पादकं वस्तु प्रदेयम् । जनन्या दोहृदाभावे गर्भस्थस्यापि दुःखिता । अत्यन्तं जायमानस्य योनियन्त्रनिपीडनात् ।। ← (बृ.परा.१२/१७९) इति बृहत्पराशरस्मृतिवचनाद् दौहृदाऽ पूरणनिमित्तकाऽपायपरिहाराय दौहृदपूरणस्य यथावश्यकता तथेह प्रतिपत्तव्यम् । 'जामात्रर्थं श्रपितस्य सूपादेरतिथ्युपकारकत्वमितिन्यायेन भगवदर्थमुपकल्पितस्य दौर्हृदस्य शिल्प्युपकारकत्वमवसेयम् । इत्थमेव भगवद्भक्तिप्रकर्षोपपत्तेः । न च स्वपुत्राद्यालम्बनेनाऽपि तत्परिपूर्त्तिरस्तु कस्माच्छिल्प्यालम्बनेन तत्पूरणमिति शङ्कनीयम्, यो यदा यत्करणे व्याप्रियते स तदा तदुपयोगोपरक्तचित्तत्वेन तन्मयो भवति, न त्वन्य इति नियमेनाऽऽगमतो भावनिक्षेपाऽपेक्षया शिल्पिन एव तदा भगवद्रूपत्वेन तदालम्बनेनैव दौर्हृदपरिपूरणस्य न्याय्यत्वात् ।
१. मुद्रितप्रतौ 'बालद्या' इति पाठः ।
इदमेवाऽभिप्रेत्य मयशास्त्रे शिल्पी नः कल्पितो देवः ← (म.शा. अध्याय-३) इत्युक्तम् । ત્રણ અવસ્થા અનુસારે દોહલા શ્રાવકે ઉભા કરવા. શિલ્પીની ત્રણ અવસ્થાનો અનાદર કર્યા વિના ભગવાનની ત્રણ અવસ્થાને આશ્રયીને પ્રતિમામાં ત્રણ અવસ્થાનું ઉદ્ભાવન કરવા દ્વારા મનથી ઉભા કરેલા મનોરથ = દોહલા શ્રાવકે શિલ્પીને રમકડાં વગેરે આપવા દ્વારા પૂરા કરવા. આ રીતે જ ભગવાન પ્રત્યેની ભક્તિ ઉત્કૃષ્ટ બની શકે છે. ષોડશક પ્રકરણમાં શ્રી હરિભદ્રસૂરીશ્વરજી મહારાજે જણાવેલ છે કે → અધિકગુણસંપન્ન ભગવાન સંબંધી પોતાના મનોરથથી યુક્ત એવી જિનપ્રતિમા નિયમા ન્યાયોપાર્જિત જ ધન વડે શુભ મનથી કરાવવી. અહીં બાળાદિ ત્રણ અવસ્થાઓને અનુસરતા માનસિક દોહલા પંડિતોએ भगावेस छे. माटे रम अहि शिल्पीने आापवा. ← (4/93)
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org