SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आत्मनः परिणामित्वसमर्थनम् • ६१९ न चेदेवं 'ब्राह्मणो नष्टो ब्राह्मणो जानातीत्यादिव्यवहाराऽनुपपत्तिः विना ब्राह्मण्यस्य' व्यासज्यवृत्तित्वमित्यादिकमुपपादितमन्यत्र ।। २५ ।। ← ( धर्मसं. ३९०-३९१ ) इति । यदपि शिवगीतायां इय मणुयाइभवकयं वेयइ देवाइभवगओ अप्पा । तस्सेव तहा भावा सव्वमिगं होइ उववन्नं ।। एतेण उ निच्चोऽणिच्चो कह नु वेयए सकडं । एगसहावत्तणओ तदणन्तरनासओ चेव ।। ← (समरा. भव-८/पृ. ७९३ - ४ ) इति समरादित्यकथावचनान्यवश्यमनुस्मर्तव्यानि बुभुत्सुभिः । तदुक्तं धर्मसङ्ग्रहण्यां अपि श्रीहरिभद्रसूरिभिः परिणामी खलु जीवो देहावत्थाण भेदाओ ।। एवं सुहादिजोगो न अन्नहा जुज्जए सती चेव । संसारो कम्मफलं मोक्खो य पसाहियमिदं च ।। नष्टेऽपि तस्मिन् तव नास्ति हानिर्घटे विनष्टे नभसो यथैव ← (शि.गी. ७/३३) इत्युक्तं तदपि द्रव्यार्थिकनयापेक्षया योज्यम्, प्रमाणार्पणया तु नित्यानित्यत्वमेवाऽऽत्मनः । तदुक्तं शिवगीतायां एव नित्योऽनित्योऽहमनघः ← (शि.गी. ६ / ११) इति । एतेन निर्लेपः परिपूर्णश्च सच्चिदाऽऽनन्दविग्रहः । आत्मा न जायते नैव म्रियते न च दुःखभाक् ।। ← (शि.गी. २ / ६) इति शिवगीतावचनमपि व्याख्यातम् । द्रव्यार्थाऽऽदेशेन तदुपपत्तेः । द्रव्य - पर्यायोभयाऽऽदेशेन त्वात्मादेः नित्यानित्य- सदसदाद्यात्मकत्वमेव । अत एवोक्तं द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिरपि सदसदात्मकैकं वस्तुतत्त्वं द्रव्यार्थ पर्यायार्थोभयलक्षणं जैना उपवर्णयन्ति खपुष्पवदन्यथाऽसम्भवात्, द्रव्यशब्दमपि मृदादिरूपाद्यतीताऽनागतवर्तमानभेदाभेदार्थं पर्यायशब्दं सर्वाभेदभेदार्थं तेष्वेव, तस्मादुभयोरुभयार्थत्वम् ← ( द्वा.न. अर- ७, पृ. ६७७ ) इति । न चेत् एवं = शरीरात्मनोर्भिन्नाभिन्नत्वं; 'ब्राह्मणो नष्टः', 'ब्राह्मणो जानातीत्यादिव्यवहारानुपपत्तिः ब्राह्मणपदस्य ब्राह्मणशरीरपरत्वे 'ब्राह्मणो नष्ट' इति प्रयोगसमर्थनेऽपि 'ब्राह्मणो जानातीति प्रयोगाऽसङ्गतिः, ज्ञानस्य शरीरसमवेतत्वविरहात् । ब्राह्मणपदस्य ब्राह्मणात्मपरत्वे तु 'ब्राह्मणो जानातीति व्यवहारसमर्थनेऽपि 'ब्राह्मणो नष्ट' इतिप्रयोगस्याऽनुपपत्तिः; नैयायिकनये केनाऽपि रूपेणाऽऽत्मनो ध्वंसाऽप्रतियोगित्वात् । इत्थञ्च ब्राह्मण्यस्य ब्राह्मणपदप्रवृत्तिनिमित्तस्य ब्राह्मणदेहमात्रवृत्तित्वे ‘ब्राह्मणो जानाती’तिप्रयोगानुपपत्तिः, ब्राह्मणात्ममात्रवृत्तित्वे 'ब्राह्मणो नष्ट' इतिप्रयोगाऽसङ्गतिः । ब्राह्मण्यस्य व्यासज्यवृत्तित्वं पर्याप्तिसम्बन्धेन ब्राह्मणदेहात्मवृत्तित्वं विना उपदर्शितव्यवहाराऽनुपपत्तिः नैयायिकस्याSपरिहार्यैवेति द्वित्वादिवत् ब्राह्मण्यस्यापि व्यासज्यवृत्तित्वं स्वीकर्तव्यम् । तथा च सति प्राणावियोगदशायां = જો શરીર અને આત્માનો ભેદાભેદ માનવામાં ન આવે તો ‘બ્રાહ્મણ મરી ગયો’ અને ‘બ્રાહ્મણ જાણે છે' આવી પ્રતીતિ અને વ્યવહારનું સમર્થન ક્યારેય થઈ ન શકે. શરીર અને બ્રાહ્મણનો કચિત્ ભેદ હોવાથી આત્માનો નાશ થતો ન હોવા છતાં શરીરનો નાશ થતાં ‘બ્રાહ્મણ મરી ગયો' એમ બોલી શકાય છે. તેમ જ શરીર અને આત્માનો કથંચિત્ અભેદ હોવાથી ‘બ્રાહ્મણ જાણે છે' આમ વ્યવહાર થઈ શકે છે. જો બ્રાહ્મણપદનો અર્થ કેવલ આત્મા માનવામાં આવે તો પ્રથમ પ્રતીતિ અને વ્યવહાર અસંગત ઠરે. કારણ કે આત્મા નૈયાયિક મતે નિત્ય છે. તથા જો બ્રાહ્મણ પદનો અર્થ કેવલ બ્રાહ્મણશરીર કરવામાં આવે તો બીજી પ્રતીતિ અને વ્યવહાર અસંગત બની જાય. કારણ કે શરીર જડ હોવાથી १. मुद्रितप्रतौ 'ब्राह्मणस्य' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy