________________
६०४
• क्षणिकवादे सर्वेषामात्मघातकत्वापत्तिः ।
द्वात्रिंशिका-८/२२ द्वितीये त्वाहनरादिक्षणहेतुश्च शूकरादेर्न हिंसकः । शूकराऽन्त्यक्षणेनैव व्यभिचारप्रसङ्गतः ।।२२।।
नरादीति । नरादिक्षणहेतुश्च लुब्धकादिः शूकरादेहिंसको न भवति, 'शूकराऽन्त्यक्षणेनैव व्यभिचारस्य हिंसकत्वाऽतिव्याप्तिलक्षणस्य प्रसङ्गतः (=व्यभिचारप्रसङ्गतः) । नियमाणशूकराऽन्त्यक्षणोऽपि ह्युपादानभावेन नरादिक्षणहेतुरिति लुब्धकवत् सोऽपि स्वहिंसकः स्यादिति भावः ।।२२।।
द्वितीये = 'नरक्षणस्य जनको व्याधः शूकरस्य हिंसको मत' इति विकल्पे त्वाह 'नरादी'ति । इयमपि कारिका अध्यात्मसारे (अ.सा.१२/३५) ग्रन्थकृतोपदर्शिता । स्पष्ट एव टीकार्थः। नवरं बौद्धाभिमते प्रतीत्यसमुत्पादे शूकरादिविज्ञानक्षणलक्षणप्रत्ययं विना नरादिविज्ञानक्षणोत्पादस्याऽसम्भवेन नरादिविज्ञानक्षणोत्पादकत्वं शूकरादिविज्ञानक्षणानामनपलपनीयमेव, → अनेकपरियायेन पटिच्चसमुप्पनं विजाणं वुत्तं अञत्र पच्चया नत्थि विज्ञाणस्स सम्भवो - (म.नि.महातृष्णासङ्क्षयसूत्र १/४/८/३९८/ पृष्ठ-३२७) इति मज्झिमनिकायवचनात् । अक्षरसङ्घटना त्वेवम्- ‘अनेकपर्यायेन विज्ञानं प्रतीत्यसमुत्पन्नमुक्तम्, अन्यत्र प्रत्ययात् निमित्तं विना नास्ति विज्ञानस्य सम्भव' इति । एवमग्रेऽपि स्वयमेवाक्षरसङ्घटना पाठकैः कार्या । अतिविस्तरभयान्नेह सर्वत्राक्षरयोजनां करिष्याम इत्यवधेयम् ।।
किञ्च विलक्षणक्षणजनकस्य हिंसकत्वाऽभ्युपगमे पुत्रजनकतया पितुरपि पुत्रहिंसकताऽऽपद्येत । तदुक्तं श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां → पाणाइवायविरई-सिक्खावतदेसणा मुहा एवं । निव्विसयत्ता जणगो हिंसागारि त्ति पंडिच्चं ! ।। ण हि सुयजम्मे पिउणो सिद्धं लोगम्मि हिंसगो एस । समएवि णवि सिक्खा-वयभंगो तस्स जम्मम्मि ।।
6 (धर्मसं.४७०-४७१) इति ।
तदुक्तं अष्टकप्रकरणेऽपि → न च क्षणविशेषस्य, तेनैव व्यभिचारतः । तथा च सोऽप्युपादानभावेन जनको मतः ।। - (अ.प्र.१५/५) इति । तद्वृत्तिस्त्वेवम् → न च = नापि क्षणविशेषस्य = म्रियमाणशूकरादिक्षणाऽनन्तरमुत्पित्सोर्मनुष्यादिक्षणस्य जनको हिंसकः भवेदिति वर्तते। कुत एतदित्याह- तेनैव = म्रियमाणहरिणादेरन्त्यक्षणेन व्यभिचारतो = विसंवादात् । तथा च इति व्यभिचारस्यैवोपदर्शनार्थः। सोऽपि = यो म्रियमाणहरिणादेरन्त्यः क्षणः सोऽपि, न केवलं लुब्धकक्षण
‘ઉત્તર ક્ષણનો જનક છે તે પૂર્વેક્ષણનો હિંસક છે' આ પ્રકારના બીજા વિકલ્પને ઉદેશીને ગ્રન્થકારશ્રી 53 छ :
ગાથાર્થ - “નર વગેરે ક્ષણનો હેતુ છે તે ભૂંડ વગેરેની હિંસા કરનારા છે' એમ પણ કહી ન શકાય. કારણ કે ભૂંડની અંત્યક્ષણ દ્વારા જ વ્યભિચારની આપત્તિ આવે છે. (૮૨૨)
ટીકાર્થ :- નર વગેરે ક્ષણના હેતુભૂત એવા શિકારી વગેરે ભૂંડ વગેરેના હિંસક બની ન શકે. કારણ કે ભૂંડની અંતિમ ક્ષણ દ્વારા વ્યભિચારની આપત્તિ આવે છે. ભૂંડ મરીને મનુષ્ય થાય ત્યારે બૌદ્ધસિદ્ધાન્ત મુજબ ભૂંડની ચરમ ક્ષણ ઉપાદાનરૂપે મનુષ્યક્ષણનું કારણ છે. તેથી શિકારીની જેમ તે ભૂંડક્ષણને પણ પોતાની હિંસક માનવાની આપત્તિ આવશે. એવો અહીં આશય છે. (૮/૨૨) १. हस्तादर्श 'शूकार...' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org