________________
५७८ • साङ्ख्यसम्मतहिंसाविचारः •
द्वात्रिंशिका-८/१५ न हि बुद्धिगतदुःखोत्पादरूपा हिंसा साङ्ख्यानामात्मनि प्रतिबिम्बोदयेनाऽनुपचरिता सम्भवति। न वा नैयायिकानां स्वभिन्नदुःखरूपगुणरूपा सा आत्मनि समवायेन, प्रतिबिम्ब-समवाययोरेव स्थिरैकरूप एव, न पुनः कथञ्चिदनित्योऽपि, इति = अनेन प्रकारेण, येषां = नैयायिक-वैशेषिकसाङ्ख्यो(?ख्यौ)पनिषदिकादीनाम्, एकान्तेन = नित्याऽनित्योभयात्मके वस्तुनि नित्यत्वलक्षणेनैकविभागेनावलम्बनभूतेन दर्शनं = दृष्टिर्मतम् = एकान्तदर्शनं, तोषामस्ति, हिंसादयः = प्राणिवधादयः, आदिशब्दादसत्यादयो वधविरतिकर्तृत्वं भोक्तृत्वं जन्मादयश्च, कथं = केन प्रकारेण, युज्यन्ते = घटन्ते, न कथञ्चिदित्यर्थः। अथ नित्येऽप्यात्मनि युज्यन्त एव ते, यदाहुस्तद्वादिनः, "ज्ञानयत्नादिसम्बन्धः, कर्तृत्वं तस्य वर्ण्यते । सुखदुःखादिसंवित्ति-समवायस्तु भोक्तृता ।। निकायेन विशिष्टाभिरपूर्वाभिश्च सङ्गतिः । बुद्धिभिर्वेदनाभिस्तु, तस्य जन्माभिधीयते ।। प्रागात्ताभिर्वियोगस्तु, मरणं जीवनं पुनः । सदेहस्य मनोयोगो, धर्माधर्माभिसंस्कृतः ।। (तत्त्वसङ्ग्रह-१७३-१७५) एवं मरणादियोगेन, हिंसा युक्ताऽवसीयते। तत्प्रतिपक्षभूतापि(च), किमहिंसा न युज्यते ।। सत्यादीन्यपि तेनैव, घटन्ते न्यायसङ्गतेः । एवं हिंसादयो ज्ञेया, वैशेषिकविकल्पिताः ।।"
( ) साङ्ख्यानां चायं विशेषः, “प्रतिबिम्बोदयन्यायादेव तस्योपभोक्तृता । न जहाति स्वरूपं तु, पुरुषोऽयं कदाचन ।। ( )” इत्याशब्याह मुख्यवृत्तितः = अनुपचरितत्वेन न युज्यन्ते, उपचारतस्तु युज्यन्तेऽपि, केवलं नासौ तत्त्वचिन्तायां सम्मतः, औपचारिकत्वं चैषां हिंसादीनामेकान्तनित्यस्यात्मनः पूर्वोपात्तबुद्धिवेदनावियोगादीनामसम्भवात्तदसम्भवश्च नित्यस्यैकरूपत्वादिति + (अ.प्र.१४/१)। ततश्चात्मनो हिंसादिकं याचितकमण्डनन्यायमेवानुसरति नैयायिक-साङ्ख्यादिमते । एतेन → वास्तवं कर्तृत्व-भोक्तृत्व-बन्ध-मोक्षादिकमात्मनो नास्ति किन्तु स्वकामपरिकल्पितं शुकनलिकान्यायेन 6 (गोपा. ता.वृ.८/२१) इति गोपालोत्तरतापनीयोपनिषद्वृत्तिकृतो नारायणस्यैकान्तोक्तिरपि प्रतिक्षिप्ता, शिष्टलोकव्यवहारपथबहिर्भावापत्तेः । → नित्यैकान्ते न हिंसादि तत्पर्यायाऽपरिक्षयात् । मनःसंयोगनाशादौ व्यापाराऽनुपलम्भतः ।। (अ.उप.१/५४) इति अध्यात्मोपनिषद्वचनमप्यत्राऽनुसन्धेयम् ।
___ साङ्ख्या हि बुद्धौ दुःखोत्पादलक्षणा हिंसाऽविकृते पुरुषे प्रतिबिम्बोदयेनोपचरन्ति । नेयं तात्त्विकी आत्महिंसा, प्रतिबिम्बोदयेऽपि कूटस्थनित्यस्य पुरुषस्याऽविकृतत्वादित्याशयेनाह 'न हीति । नैयायिका ह्यात्मनि समवायेन स्वेतरदुःखोत्पादलक्षणां हिंसामाविर्भावयन्ति । तदपि न युक्तं, आत्मभिन्नदुःखोदयेऽप्यात्मनोऽविचलितत्वादित्याशयेनाह 'न वे'ति ।
તે આ રીતે - સાંખ્ય મતે સાંખ્ય મત મુજબ દુઃખની ઉત્પત્તિ તો બુદ્ધિમાં જ થાય છે અને બુદ્ધિમાં દુઃખોત્પત્તિ થવી એ જ સાંખ્યમતે હિંસા છે. એકાન્ત નિત્ય આત્મામાં તો સાંખ્યમતે કેવળ દુઃખનું પ્રતિબિંબ જ પડે છે. આ પ્રતિબિંબ કાલ્પનિક હોવાથી પ્રતિબિંબાત્મક હિંસા કાલ્પનિક બની જશે. તેથી સાંખ્યમાન્ય કૂટસ્થ નિત્ય આત્મામાં વાસ્તવિક = અનુપચરિત = મુખ્ય હિંસા સંભવતી નથી.
તથા નૈયાયિક મતે પણ આત્મા સર્વથા = સર્વ પ્રકારે નિત્ય જ મનાયેલ છે. તેથી તૈયાયિક મતે પણ હિંસા સંગત નહિ થાય. તે આ રીતે - નૈયાયિકમતે હિંસા એટલે આત્મામાં દુઃખરૂપ ગુણની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org