________________
• उदयनाचार्याऽऽक्षेपोपदर्शनम्
द्वात्रिंशिका - ८/१२ यस्त्वत्रायं उदयनस्योपालम्भः “ ये तु प्रमाणमेव सर्वस्य व्यवस्थापकं, न तु लक्षणं तदपेक्षायामनवस्थेत्याहुस्तेषां ' निन्दामि च पिबामि चे 'ति न्यायापातः । यतोऽव्याप्त्यतिव्याप्तिपरिSपिशब्दार्थः । तेनायमर्थः यदर्थं प्रमाणपरीक्षणमसावपि जलपान-शीतत्राणादिर्व्यवहारोऽनादिरूढः, तन्निरर्थकं प्रमाणलक्षणाभिधानमित्यभिप्रायवानपि परः प्ररूपणापरिजिहीर्षयात्मनोऽन्यथा प्राह प्रमाणलक्षणस्योक्ती पररूपव्यावर्तनक्षमाऽसाधारणप्रमाणधर्मकथनरूपायां ज्ञायते निर्णीयतेऽस्माभिः न प्रयोजनं तत्फलम्, अतिसूक्ष्मत्वात्तावकाभिसन्धेरिति काक्वा, प्रश्नयत्युल्लुण्ठयति चेति । किं च प्रमाणलक्षणमनिश्चितं वाभिधीयते, निश्चितं वा स्वरूपेणेति पक्षद्वयम् । न तावदनिश्चितम् अनिश्चितस्य लक्षणत्वाऽयोगात्, उन्मत्तकविरुतवत् । अथ निश्चितम् तत्किमप्रमाणात्प्रमाणाद्वा । न तावदप्रमाणात्, अप्रमाणस्य निश्चायकत्वाऽयोगात् । यदि पुनरप्रमाणमपि निश्चायकमिति सङ्गीर्येत, तदा प्रमाणपर्येषणं विशीर्येत, नैरर्थक्याऽऽपत्तेः, अप्रमाणादपि निश्चायकत्वाऽभ्युपगमात् । अथ प्रमाणात्, तत्किमलक्षणम्, लक्षणोपेतं वा। अलक्षणं चेन्निश्चायकं प्रमाणम्, तर्हि सर्वप्रमाणानां लक्षणाऽभिधानमनर्थकम्, तद्व्यतिरेकेणाऽप्यर्थनिश्चयसिद्धेः, भवदभिप्रेतलक्षणनिश्चायकप्रमाणवत् । अथ लक्षणोपेतम्, तत्रापि विकल्पयुगलमनिवारितप्रसरमनुधावति, तल्लक्षणं निश्चितमनिश्चितं वा । न तावदनिश्चितं लक्षणं लक्ष्यं लक्षयति । निश्चयोऽपि प्रमाणादप्रमाणाद्वा ? अप्रमाणान्निश्चयाऽसिद्धेः प्रमाणादिति वक्तव्यम् । तदप्यलक्षणं सलक्षणं वा ? अलक्षणत्वे पूर्वस्याऽर्थग्रहणे किं क्षुण्णम् ? सलक्षणत्वे त्वेतल्लक्षणं निर्णीतमनिर्णीतं चेति तदेवावर्तते । तन्न प्रमाणलक्षणाभिधानोपायोऽस्ति । तस्मात्प्रसिद्धानि प्रमाणानि इत्यङ्गीकर्तव्यम् ← ( न्या. अ. २ वृ.) इति । एतेन मानाधीना मेयसिद्धिः मानसिद्धिश्च लक्षणात् ← (त. प्र. १ / ४८७) इति तत्त्वप्रदीपिकाकृदभिमतैकान्तोऽपि निराकृतः ।
५६६
•
=
=
'यस्तु' इत्यस्यान्वयोऽग्रे ' स त्वत्र न शोभत' इत्यत्र कर्तव्यः उदयनस्य किरणावल्यां पृथिवीवैधर्म्यनिरूपेण उपालम्भः । तदपेक्षायां लक्षणेऽपि लक्षणापेक्षायामिति किरणावलीप्रकाशे वर्धमानोपाध्यायः । यद्वा किरणावलीरहस्यानुसारेण लक्षणस्याऽपि साधने लक्षणान्तरापेक्षायां सत्यां ' तदलक्षणं सलक्षणं वा ? तदपि प्रमाणान्निश्चितमनिश्चितं वा ?' इति विकल्पोपनिपातेन अनवस्था = प्रमाणलक्षणगवेषणाऽविरामापत्तिः इत्याहुः तेषां वादिनां मते 'निन्दामि च पिबामि चे 'ति न्यायापातः । 'मद्यादिकमहं निन्दामि' इत्युक्ते तत्पानमन्याय्यं तथापि स एव जन 'मद्यादिकं पिबामी' त्यपि वदति । एतद्वचनं यथा व्याघाताऽऽपन्नं तथैव 'प्रमाणमेव सर्वव्यवस्थापकं न तु तल्लक्षणमिति वादिनां वचनमपि * ઉદયનાચાર્યનો આક્ષેપ
यस्त्वत्र विसी ग्रंथमां अध्यनायार्य नामना प्राचीन नैयायिक खेम उहे छे } વિદ્વાનો એમ કહે છે કે ‘પ્રમાણ જ સર્વ પદાર્થની વ્યવસ્થા-નિશ્ચય કરાવી શકે તેમ છે, નહિ કે પ્રમાણનું લક્ષણ. કારણ કે પ્રમાણના લક્ષણની સિદ્ધિમાં અન્ય લક્ષણની અપેક્ષા રાખવામાં અનવસ્થા દોષ આવે છે.’ તે વિદ્વાનોને તો ‘હું દારૂની નિંદા કરું છું અને દારૂને પીઉં છું.' એવી ઉક્તિ લાગુ પડે છે. આનું કારણ એ છે કે તે વિદ્વાનો અવ્યાપ્તિ - અતિવ્યાપ્તિનો પરિહાર કરીને તે તે પદાર્થની અને તે તે વ્યવહારની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org