SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ • प्रमाणलक्षणप्रणयनवैफल्यम् • द्वात्रिंशिका-८/११ प्रमाणेति । प्रमाणं प्रत्यक्षादि, तस्य लक्षणं स्व-पराऽऽभासिज्ञानत्वादि तदादेः, आदिना प्रमेयलक्षणादिग्रहः, तस्य (=प्रमाणलक्षणादेः) तु 'अत्र = धर्मसाधनविषये कश्चनोपयोगो न अस्ति । अयमभिप्रायः- प्रमाणलक्षणेन निश्चितमेव प्रमाणमर्थग्राहकमिति तदुपयोग इति। न चायं युक्तः, यतस्तल्लक्षणं निश्चितमनिश्चितं वा स्यात् ? आद्ये किमधिकृतप्रमाणेन प्रमाणान्तरेण वा? यदि तेनैव तदेतरेतराश्रयः, अधिकृतप्रमाणाल्लक्षणनिश्चयः, तन्निश्चयाच्चाऽधिकृतप्रमाणनिश्चय प्रत्यक्षादि, आदिपदेनाऽनुमानाऽऽगमादिग्रहणम् । प्रमाणसङ्ख्यासङ्ग्रहाय → चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं, तद्वैतं पारमर्षः सहितमुपमया तत्त्रयञ्चाक्षपादः । अर्थापत्त्या प्रभाकृद् वदति स निखिलं मन्यते भट्ट एतत् साऽभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ।। - (न्या.टी.पृ.९) अयं श्लोको देवभद्रसूरिकृते न्यायावतारवृत्तिटिप्पनके दर्शितोऽनुस्मर्तव्यः । स्वपराऽऽभासिज्ञानत्वादि, स्वपदेन ज्ञानग्रहणं, परपदेन तद्विषयग्रहणम्, तदुक्तं न्यायावतारे → प्रमाणं स्व-पराऽऽभासिज्ञानं 6 (न्याया.१) इति । आदिपदेनार्थप्रतिभासत्व-पदार्थपरिच्छेदकत्व-स्वपरव्यवसायत्वस्वाऽपूर्वार्थव्यवसायत्वाऽविसंवादिज्ञानत्वाऽनधिगतार्थाधिगन्तृत्वार्थोपलब्धिहेतुत्व-तद्वद्विशेष्यकतत्प्रकारकज्ञानत्वादिग्रहणम् । तस्य = प्रमाणलक्षण-प्रमेयलक्षणादेः तु धर्मसाधनविषये = मोक्षप्रयोजकाऽहिंसासत्यादिविचारणे कश्चनोपयोग आवश्यकतादिलक्षणः नास्ति । तदुक्तं अष्टकप्रकरणे → धर्मार्थिभिः प्रमाणादेर्लक्षणं न तु युक्तिमत् । प्रयोजनाद्यभावेन (अ.प्र. १३/४) इति । तद्वृत्तिस्त्वेवम् → धर्मार्थिभिः = धार्मिकैः । उक्तविपर्ययमाह- प्रमाणस्य = प्रत्यक्षादेः, आदिशब्दात् प्रमेयस्य आत्मादेः, लक्षणं = तदन्यव्यवच्छेदकं स्वरूपम्, यथा “स्व-पराऽवभासिज्ञानं प्रमाणमित्यादि” । तुशब्द: पुनरर्थः, न = नैव, युक्तिमत् = उपपत्त्युपेतम्, विचार्यमाणमिति शेषः । केन हेतुना ? इत्याह - प्रयोजनं = फलं तदादिर्यस्योपायादेस्तत्प्रयोजनादिस्तस्याभावोऽसत्ता प्रयोजनाद्यभावस्तेन प्रमाणलक्षणविचारणस्य ‘प्रयोजनाद्यभावेन' हेतुना इत्यर्थः । प्रयोगश्चात्रैवम्, प्रमाणादिलक्षणविचारणं न युक्तिमत्, प्रयोजनाद्यभावात्, यद्यत्प्रयोजनादिरहितं तत्तन्न युक्तिमत्, यथा कण्टकशाखामर्दनम् । प्रयोजनादिरहितं च प्रमाणादिलक्षणविचारणम् इति तन्न युक्तिमत् + (अ.१३/४ वृ.) इति । एतदेव स्पष्टयति - अयमभिप्राय इति । सुगमम् । ટીકાર્થ :- પ્રત્યક્ષ, અનુમાન વગેરે પ્રમાણ કહેવાય છે. પ્રમાણનું લક્ષણ સ્વપર પ્રકાશક જ્ઞાનત્વ વગેરે છે. પ્રમાણલક્ષણ આદિનો પ્રસ્તુત ધર્મસાધન વિષયક ધર્મવાદમાં કોઈ ઉપયોગ નથી. આદિ શબ્દથી પ્રમેયલક્ષણ વગેરે પણ પ્રસ્તુતમાં ઉપયોગી નથી એમ સમજી લેવું. અહીં અભિપ્રાય એ છે કે – પ્રમાણના લક્ષણ દ્વારા “આ પ્રમાણ છે. એવું નિશ્ચિત થયેલ જ પ્રમાણ અર્થનો નિશ્ચાયક બને છે. આ પ્રમાણલક્ષણનો ઉપયોગ છે. ૯ એમ જો પૂર્વપક્ષી કહે તો તે વ્યાજબી નથી. કારણ કે “પ્રમાણલક્ષણ દ્વારા પ્રમાણરૂપે નિશ્ચિત થયેલ પ્રમાણ અર્થનિશ્ચાયક બને” એવું માનવામાં અહીં બે પ્રશ્ન ઊભા થાય છે કે (A) પ્રમાણનું લક્ષણ નિશ્ચિત હોય તો તેના દ્વારા નિશ્ચિત થયેલ પ્રમાણ અર્થનિશ્ચાયક બને કે (B) અનિશ્ચિત એવા પ્રમાણલક્ષણ દ્વારા પ્રમાણરૂપે નિશ્ચિત થયેલ પ્રમાણ અર્થનિર્ણાયક બની શકે ? મતલબ કે પ્રમાણની १. 'अत्र इति' पदं मुद्रितप्रतौ नास्ति । २. हस्तादर्श 'स्यात्' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy