________________
HTHE
५४२ • दुःसंज्ञाप्यजीववैविध्योपदर्शनम् •
द्वात्रिंशिका-८/२ पराऽनों लघुत्वं वा विजये' च पराजये। यत्रोक्तो सह दुष्टेन शुष्कवादः स कीर्तितः ॥२॥
परेति । यत्र दुष्टेन = अत्यन्तमान-क्रोधोपेतचित्तेन सहोक्तौ सत्यां विजये सति परस्य = प्रतिवादिनः परः = प्रकृष्टो वा अनर्थो' = मरण-चित्तनाश-वैरानुबन्ध-संसारपरिभ्रमणरूपः
'यथोद्देशं निर्देश' इति न्यायेनाऽऽदिमवादस्वरूपकर्तृफलमाह - ‘परेति । दुष्टेन = अत्यन्तमानक्रोधोपेतचित्तेन सहेति । अनेन शुष्कवादकर्तृस्वरूपमावेदितम् । तदुक्तं अष्टकप्रकरणे → 'अत्यन्तमानिना सार्धं क्रूरचित्तेन च दृढम् । धर्मद्विष्टेन मूढेन शुष्कवादस्तपस्विनः ।। - (अ.प्र.१२/२) तवृत्तिस्त्वेवम् → अत्यन्तमत्यर्थं मानी गर्वी = अत्यन्तमानी तेन, स हि जितोऽपि परगुणं न मन्यते, सार्धं = सह, क्रूरचित्तेन = संक्लिष्टाध्यवसायेन, स हि जितो वैरी स्यात्, चशब्दः समुच्चये, तथा, दृढम् = अत्यर्थम्, धर्मो जिनाख्यातः श्रुत-चारित्ररूपः, तस्यैव दुर्गतौ प्रपततां धरणसमर्थत्वात्, तस्य द्विष्टो द्वेषवान् = धर्मद्विष्टः तेन, स हि निराकृतोऽपि धर्मं न प्रतिपद्यतेऽतो व्यर्थप्रयासः स्यात् । मूढेन = युक्ताऽयुक्तविशेषाऽनभिज्ञेन, स हि वादेऽनधिकृत एव, प्रतिवादिना यो वादः स इति गम्यते, किमित्याह, शुष्कवादः = अनर्थवादो भवतीति गम्यम् । कस्येत्याह, तपस्विनः = साधोः, तपस्विग्रहणं चेह तस्य सदैवोचितप्रवृत्तिकतया योग्यत्वेन शास्त्रेऽधिकारित्वोपदर्शनार्थमितरस्य चान्यथात्वेन तत्रानधिकारित्वोपदर्शनार्थं च । अथवा हे तपस्विन इति + (अ.प्र.१२/२ वृ.)। शुष्कवादकारिणो दुष्टत्वादेव दुःसंज्ञाप्यत्वम् । तदुक्तं स्थानाङ्गे बृहत्कल्पसूत्रे च → तओ दुप्पसन्ना पन्नत्ता । तं जहा - दुढे मूढे वुग्गाहिते - (स्था.३/४/२०३, वृ.क.उद्दे.४/सू.१२) इति । परैरस्य प्रकृतिरासुरीत्यङ्गीक्रियते । तदुक्तं गणेशगीतायां → अतिवादोऽभिमानश्च दर्पोऽज्ञानं सकोपता। आसुर्या एवमाद्यानि चिह्नानि प्रकृतेर्नुप !।। 6 (ग.गी.१०/४-५) इति ।
जये पराजये वाऽनर्थवर्धनत्वादस्य शुष्कवादत्वमभिव्यनक्ति- उक्तौ सत्यां = कथायां प्रारब्धायां सत्यां विजये सतीति । तदुक्तं अष्टकप्रकरणे → विजयेऽस्याऽतिपातादि, लाघवं तत्पराजयात् । धर्मस्येति
. शुष्डवा . ગાથાર્થ :- દુષ્ટ પ્રતિવાદીની સાથે જે વાદ કરવામાં વાદીનો વિજય થાય તો પ્રતિવાદીને નુકશાન થાય તથા વાદીનો પરાજય થાય તો વાદીની લઘુતા થાય તે વાદ શુષ્કવાદ કહેવાયેલ છે. (૮(૨)
ટીકાર્ય :- જ્યાં અત્યન્ત અભિમાન-ક્રોધ વગેરે દોષથી ગ્રસ્ત અન્તઃકરણવાળા દુર્જન પ્રતિવાદી સાથે ચર્ચા કરવામાં જો વાદીનો વિજય થાય તો પ્રતિવાદી અત્યન્ત અભિમાની હોવાથી આપઘાત કરીને મરી જાય અથવા પાગલ થઈ જાય અથવા વાદી સાથે દઢ વૈર બાંધે અથવા દીર્ઘ કાળ સુધી પરાજયનિમિત્તે કરેલા સંકલેશથી સંસારમાં પરિભ્રમણ કરે. આ રીતે પ્રતિવાદીને નુકશાન થાય. અથવા તો પ્રતિવાદી તરફથી વાદીને ભયંકર નુકશાન થાય. જેમ કે અતિક્રોધી પ્રતિવાદી પરાભવના લીધે સાધુનું ખૂન કરે, કરાવે અથવા રાજસત્તા વગેરેના માધ્યમથી તે-તે રાજ્યમાંથી જિનશાસનનો ઉચ્છેદ વગેરે કરાવે. આ રીતે હારેલા દુષ્ટ પ્રતિવાદી તરફથી જૈનને = વાદીને ઘણું નુકશાન થવાની શક્યતા રહે. તેમ જ १. हस्तादर्श 'विजयेन' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'वा!' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org