________________
___५४१
५४१
• सप्तविधवादलक्षणप्रकाशनम् •
॥ अथ वादद्वात्रिंशिका ॥८॥ धर्मव्यवस्थातो वादः प्रादुर्भवतीति तत्स्वरूपमिहोच्यतेशुष्कवादो विवादश्च धर्मवादस्तथापरः । कीर्तितस्त्रिविधो वाद इत्येवं तत्त्वदर्शिभिः ॥१॥ शुष्केति । स्पष्टः ।।१।।
* नयनता सद्धर्मीयव्यवस्थायां सम्प्रतिपत्त्यभावतः । जायते वाद इत्येवं सङ्गतेयं हि साम्प्रतम् ।।१।।
भक्ष्याऽभक्ष्यादिधर्मव्यवस्थाऽनन्तरमुपदर्शिता । धर्मव्यवस्थातः = भक्ष्याभक्ष्य-पेयापेय-गम्यागम्योत्सर्गापवाद-निश्चयव्यवहारादिगोचरनिरुक्तधर्मव्यवस्थामवलम्ब्य नानाधर्मसंलग्नासु विविधासु धर्मव्यवस्थासु सत्याऽसत्यत्वनिर्णयार्थं वादः कथाविशेषः प्रादुर्भवतीति हेतोः तत्स्वरूपं = वादस्वरूपं उच्यते इह वादद्वात्रिंशिकायाम् । तत्राऽऽदिमः श्लोकः 'शुष्के'ति । शुष्क इव शुष्कः = नीरसः गलतालुशोषमात्रफल इत्यर्थः । स चासौ वादश्चेति शुष्कवादः । कमपि विप्रतिपत्तिविषयमाश्रित्य प्रतिवादिना सह वदनं वाद उच्यते। तथा विरूपो = जयप्राप्तावपि परलोकादिबाधको वादः = विवादः । 'च'शब्दः उक्तसमुच्चये। धर्मप्रधानो वादः = धर्मवादः । तथा = तेनात्यन्तमाध्यस्थ्यादिना धर्महेमकषादिपरीक्षालक्षणेन वा प्रकारेण, समुच्चयार्थो वा तथाशब्दः, परः = प्रधानः, अपरो वा उक्तवादाभ्यामन्यः, इतिः प्रकृतवादव्यवस्थासमाप्त्यर्थः, एवं = अनेन प्रकारेण तिस्रो विधाः = प्रकारा यस्य स त्रिविधः वादः तत्त्वदर्शिभिः = वादस्वरूपद्रष्टुभिः कीर्तितः = संशब्दितः ।
वादलक्षणन्तु श्रीहेमचन्द्रसूरिभिः प्रमाणमीमांसायां → तत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनदूषणवदनं वादः - (प्र.मी.२/१/३०) इति निष्टङ्कितम् । → शिष्याचार्ययोः पक्ष-प्रतिपक्षपरिग्रहेणाऽभ्यासख्यापनाय वादकथा (उप.प्रस्ता.४-षड्दर्शन. ) इति उपमितिभवप्रपञ्चायां कथायां सिद्धर्षिगणी। न्यायसूत्रे तु → प्रमाण-तर्क-साधनोपलम्भः सिद्धान्ताऽविरुद्धः पञ्चावयवोपपन्नः पक्ष-प्रतिपक्षपरिग्रहो वादः - (न्या.सू.१/२/१) इत्येवं वादलक्षणमुपदर्शितम् । 'तत्त्वनिर्णयफलः कथाविशेषो वाद' इत्येके । तत्त्वबुभुत्सुना सह कथा = वाद' इत्यन्ये । _ 'यथार्थबोधेच्छुवाक्यं = वाद' इत्यपरे । 'शास्त्रार्थो वाद' इतीतरे वदन्ति ।।८/१।।
. वाह द्वात्रिंशिन प्रश ભક્ષ્યાભઢ્ય, પેથાપેય, ગમ્યાગમ્ય, હિંસા-અહિંસા વગેરે સંબંધી ધર્મને = આત્મકલ્યાણને કેન્દ્રસ્થાને લક્ષમાં રાખીને વ્યવસ્થા સાતમી બત્રીસીમાં બતાવી. વિવિધ પ્રકારના ધર્મના અનુયાયીઓ વિવિધ પ્રકારની ધર્મવ્યવસ્થા સ્વીકારે છે. તેથી તેમાં કઈ વ્યવસ્થા સાચી અને કઈ ખોટી ? એ અંગે વાદ-વિવાદ ઉભા થવાની શક્યતા છે. તેથી આઠમી બત્રીસીમાં વાદનું સ્વરૂપ અને પ્રકાર વગેરે બતાવવામાં આવે છે.
ગાથાર્થ :- શુષ્કવાદ, વિવાદ અને ધર્મવાદ-આ પ્રમાણે ત્રણ પ્રકારનો વાદ તત્ત્વદ્રષ્ટાઓ વડે કહેવાયેલ छ. (८/१)
ટીકાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી પ્રસ્તુત ગાથાની ટીકા ઉપાધ્યાયજી મહારાજે કરેલ નથી.(૮/૧) શુષ્કવાદનું સ્વરૂપ બતાવતાં ગ્રન્થકારશ્રી જણાવે છે કે –
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org