________________
• लोक - देह - शास्त्रवासनात्यागोपदेशः •
५३७
विदित्वा लोकमुत्क्षिप्य लोकसंज्ञां च लभ्यते । इत्थं व्यवस्थितो धर्मः परमानन्दकन्दभूः ।।३२।। ज्ञात्वा लोकं = स्वेच्छाकल्पिताऽऽचारसक्तं जनं उत्क्षिप्य = निराकृत्य लोकसंज्ञां 'बहुभिर्लोकैराचीर्णमेवाऽस्माकमाचरणीयमित्येवंरूपां च लभ्यते प्राप्यते इत्थं
विदित्वेति । विदित्वा
=
आज्ञानिरपेक्षः स्वेच्छामात्रप्रवृत्तस्तु शुभोऽपि भावोऽशुभ एव परमार्थतः । तदुक्तं उपदेशपदे → तन्निरवेक्खो नियमा परिणामो वि हु असुद्धओ चेव । तित्थगरेऽबहुमाणाऽसग्गहरूवो मुणेयव्वो ।। ← (उप.पद.१८७)। तदुक्तं व्यवहारसूत्रभाष्ये अपि एगंतेण पमाणं परिणामो वि न खलु अम्हं ← (व्य.सू.भा.२/२७५) इति । श्री मलयगिरिसूरिकृता तद्वृत्तिस्त्वेवम् न खल्वस्माकं स्वशक्तिनिगूहनेन यथाशक्ति प्रवृत्तिविरहितः केवलः परिणाम एकान्तेन प्रमाणम्, तस्य प्रमाणाऽऽभासत्वात् किन्तु सूत्रं प्रमाणीकुर्वतो यथाशक्ति प्रवृत्तिसमन्वितः ← (व्य.सू.वृ.२/२७५, पृष्ठ. २२८) इति विभावनीयं निश्चयव्यवहारसन्तुलनपरायणैः ।
धर्मव्यवस्थाद्वात्रिंशिकामुपसंहरति
‘विदित्वे’ति । ‘बहुभिर्लोकैराचीर्णमेवास्माकमाचरणीयमित्येवं रूपां लोकसंज्ञां निराकृत्येति । प्रकृते लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासाऽपनयं कुरु ।। ← ( अक्षि . ४३) इति अक्ष्युपनिषद्वचनं, लोकसंज्ञा जिता येन नामरूपादिवासना । मुक्तिस्तेन कृता हस्ते जितं सर्वं च तेन हि ।। ← ( अध्या. गी. ४७८) इति अध्यात्मगीतावचनं स्मर्तव्यम् । लोकवासनया जन्तोश्शास्त्रवासनयाऽपि च । देहवासनया ज्ञानं यथावन्नैव जायते ।। ← (मुक्ति. २ /२, रा.गी. ६ / २७, वि. चू. २७२ ) इति मुक्तिकोपनिषद् - रामगीताविवेकचूडामणिवचनमप्यत्र न विस्मर्तव्यम् । तदुक्तं योगविंशिकायामपिमुत्तूण लोगसन्नं उड़्ढूण य साहुसमयसब्भावं । सम्मं पयट्टियव्वं बुहेणमइनिउणबुद्धीए ।। ← (यो. विं.१६) इत्युक्तम् । न च बहुजनपरिग्रहात् स्वेच्छाकल्पिताऽऽचारत्यजनमनुचितमिति वाच्यम्, एवं सति मिथ्यादृशामपि धर्मः त्याज्यो न स्यात् । तदुक्तं ज्ञानसारे लोकमालम्ब्य कर्तव्यं कृतं बहुभिरेव चेत् ? । तदा मिथ्यादृशां धर्मो न त्याज्यः स्यात्कदाचन ।। श्रेयोऽर्थिनो हि भूयांसो लोके लोकोत्तरे च न । स्तोका ह रत्नवणिजः स्तोकाश्च स्वात्मसाधकाः ।। ← (ज्ञा.सा. २३/४-५) इति । तस्मात् स्वभूमिकौचित्येन निर्व्याजं जिनाज्ञैवाऽऽदरतोऽनुसर्तव्या । तदुक्तं उपदेशपदेऽपि
ता आणाणुगयं जं तं चेव बुहेण सेवियव्वं तु । किमिह बहुणा जणेणं हंदि ण सेयत्थिणो बहुया । । रयणत्थिणोऽतिथोवा तद्दायारोऽवि जह उ लोयम्मि । इय सुद्धधम्मरयणत्थिदायगा दढयरं णेया ।। પ્રસ્તુત બત્રીસીનો ઉપસંહાર કરતા ગ્રન્થકારશ્રી જણાવે છે કે -
♦ લોક્સંજ્ઞાત્યાગમાં ક્લ્યાણ
ગાથાર્થ :- લોકને જાણી, લોકસંજ્ઞાને છોડીને ઉપરોક્ત વ્યવસ્થાવાળો ધર્મ પ્રાપ્ત થાય છે કે જે પરમાનંદરૂપી કંદનું ઉત્પત્તિસ્થાન છે. (૭/૩૨)
ટીકાર્થ :- સ્વચ્છન્દતાથી કલ્પેલા આચારમાં કલિકાળના મોટા ભાગના લોકો આસક્ત હોય છે. આવું જાણીને ‘જે બહુ લોકો આચરે તે જ અમારે આચરવું' આવી લોકસંજ્ઞાને છોડીને ઉપરોક્ત પદ્ધતિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org