________________
५१९
• तपसो निर्जराकारकत्वसिद्धिः • त्मगुणत्वाच्च । क्वचिदार्तध्यानादिदोषसहचरितत्वदर्शनेन तपसस्त्याज्यत्वे च क्वचिदहङ्कारादिसहचरितत्वाज्ज्ञानमपि त्याज्यं स्यात् । विवेकिनां ज्ञानं न तथेति चेद् ? विवेकिनां तपोऽप्येवमिति समानमुत्पश्यामः ।।२६।। → ऋतं तपः सत्यं तपः श्रुतं तपः । शान्तं तपो दानं तपः ।। - (तै.आ.ना.१०/८) इति तैत्तिरीयारण्यकनारायणोपनिषद्वचनमप्यत्र न विस्मर्तव्यम् । → ब्राह्मणस्य तपो ज्ञानं, तपः क्षत्रस्य रक्षणम् - (मनु.११/२३६) इति मनुस्मृतिवचनमपि यथातन्त्रम् योज्यम् । ततश्चोग्रशुष्कतपश्चर्याभग्नहृदयतया पारमार्थिकविद्याशून्यचञ्चलचित्ततया च सुगतस्य → न खो पनाहं इमाय कटुकाय दुक्करकारिकाय अधिगच्छामि उत्तरि मनुस्सधम्मा अलमरिजाण-दस्सनविसेसं (म.नि.महासच्चकसुत्त- १/४/६/३८१, पृ.३१५) इत्येवं मज्झिमनिकायदर्शितोक्तिस्तु न नो बाधिका । भावशून्यो लङ्घनरूपो द्रव्योपवासस्त्वस्माकमपि न सकामनिर्जरासाधनतयेष्ट: । अत एव हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → द्रव्योपवासे नो यत्नो ह्यस्य शास्त्रबहिष्कृते । यत्नो भावोपवासे तु लोकद्वयहिताऽऽवहे ।। उपावृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो न तु देहस्य शोषणम् ।।
- (ब्र.सि.स.२४०-२४१) इत्युक्तम् । एतेन → उप समीपे यो वासो जीवात्म-परमात्मनोः । उपवासः स विज्ञेयो न तु कायस्य शोषणम् ।। 6 (वरा.२/३९) इति वराहोपनिषद्वचनं, → अहिंसा सत्यवचनमऽनृशंस्यं दमो घृणा । एतत् तपो विदुर्धीरा न शरीरस्य शोषणम् ।। (म.भा.शान्तिपर्व१८९/१८) इति महाभारतवचनं, → शरीर-चित्तयोः सर्वसौख्यं त्यक्त्वा शनैः शनैः । तयोर्निर्द्वन्द्वधर्मित्वाऽऽपादनं तप उच्यते ।। - (सं.गी.३/८८) इति च संन्यासगीतावचनमपि व्याख्यातम् । प्रकृते
→ ऋतं तपः, सत्यं तपः, श्रुतं तपः, शान्तं तपः, दानं तपः - (म.नारा.८/१) इति महानारायणोपनिषद्वचनमपि स्मर्तव्यम् । अत एव बाह्यतपोनिरूपणं तु रेखागवयन्यायेनाभ्यन्तरतपःपरिचायकमवसेयम् । तदुक्तं दशवकालिकचूर्णी जिनदासगणिभिरपि → तवो णाम तावयति अट्ठविहं कम्मगंठिं नासेति त्ति वृत्तं भवति (द.वै.१/१ चू.) इति। तदुक्तं उत्तराध्ययनबृहवृत्तौ अपि → तपति पुरोपात्तकर्माणि क्षपणेनेति तपः + (उत्त.बृ.वृ. पृष्ठ-५५६) इति । यथोक्तं पञ्चाशके अपि → जत्थ कसायणिरोहो बंभं जिणपूयणं अणसणं च । सो सव्वो चेव तवो - (पंचा.१९/२६) इति । ___ आराधनापताकायां वीरभद्रसूरिभिः → अणसणमूणोयरिया वित्तीसंखेवओ रसच्चाओ। कायकिलेसो सिज्जा य विवित्ता बाहिरो उ तवो ।। (आ.प. १३६) इत्येवं बाह्य तप उक्तम् । ततश्च विवेकदृष्ट्या यथाशक्ति यथासमाधानं स्वोचितनानाविधतपःकरणे दोषलवोऽपि नास्तीति दृढतरमवधेयम् ।
ક્યારેક તપની સાથે આર્તધ્યાન આદિ દોષ દેખાવાથી જો તપશ્ચર્યા ત્યાજ્ય હોય તો ક્યારેક જ્ઞાનની સાથે અહંકાર વગેરે દોષો જણાવાથી જ્ઞાન પણ ત્યાજ્ય બની જશે. જો “વિવેકી લોકોને જ્ઞાન અભિમાનજનક બનતું નથી એમ કહેશો તો વિવેકી લોકોને તપ પણ આર્તધ્યાન વગેરેનું કારણ બનતો નથી-આ વાત પણ અમે સમાન રીતે જોઈએ છીએ.(૨૬) १. हस्तादर्श 'सहरित...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org