SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ • तपसः कर्मविपाकरूपताविमर्शः • द्वात्रिंशिका-७/२५ दुःखरूपत्वं चोपवासादिरूपस्य तपसः कायपीडारूपस्य आर्तध्यानादिहेतुत्वात् । तदाहआहारवर्जिते देहे धातुक्षोभः प्रजायते । तत्र चाऽधिकसत्त्वोऽपि चित्तभ्रंशं समश्नुते ।। ( अष्टक ११ / ४) तथा कर्मोदयात् = असातवेदनीयोदयात् समुद्भवाद् उत्पत्तेः (=कर्मोदयसमुद्भवात्) ज्वरादिवत् । ततश्चाऽनर्थहेतुत्वात् त्याज्यमेव, न तु लोकरूढ्या कर्तव्यमिति भावः ।। २५ ।। मुणिव भट्टरागमयमोहो । जं पावइ मुत्तिसुहं, कत्तो तं चक्कवट्टी वि ।।" (संस्तारकप्रकीर्णक-४८) शमसौख्यं प्रधानं येषां तेन वा प्रधाना ये ते तथा तद्भावस्तत्त्वं तस्मात् शमसौख्यप्रधानत्वात् अदुःखितत्वादित्यर्थः । योगिनः समाधिमन्तः, तुशब्दः पुनरर्थः, अतपस्विनः = अतपोधनाः, दुःखात्मकतपसोऽभावादिति भावना, त्वन्नीत्या प्रसज्यन्त इति प्रकृतमेवेति ← (अ.प्र. ११/३ वृ.) । न च दुःखरूपताऽस्य कथं सिद्धेति शङ्कनीयम्, दुःखरूपत्वञ्च उपवासादिरूपस्य तपस आर्त्तध्यानादिहेतुत्वात् सिध्यति । न च हेतोस्स्वरूपमसिद्धम्, उपवासादेरार्त्तध्यानादिहेतुत्वं कायपीडारूपत्वादेव सिध्यति। प्रयोगान्तरश्चैवम् - तपो नादरणीयं असातवेदनीयोदयादुत्पत्तेः, ज्वरादिवत् । असातवेदनीयञ्चोपलक्षणं भोगान्तरायादेः । न च हेतुरसिद्ध:, क्षुत्पिपासादीनां परिषहाणामसातवेदनीयोदयसम्पाद्यत्वेन भोजनाद्यभावस्य च भोगान्तरायादिप्रयुक्तत्वेनागमोक्तत्वात् । अत एव तन्न मोक्षाङ्गम् । तदुक्तं पञ्चवस्तुकेणाऽणसणाइ दुहं ति मोक्खंगं कम्मविवागत्तणओ ← (पं.व. ५४० ) इति । इत्थञ्च अनर्थहेतुत्वात् धातुक्षोभ - चित्तभ्रंशाऽऽर्त्तध्यानाद्यनर्थकारणत्वात् त्याज्यमेव तपः । उपलक्षणात् युक्त्यागमबहिर्भूतत्वादपि तत्त्याज्यताऽवगन्तव्या । तदुक्तं अष्टकप्रकरणे युक्त्यागमबहिर्भूतमतस्त्याज्यमिदं बुधैः । अशस्तध्यानजननात् प्राय आत्मापकारकम् ।। ← (अ.प्र.११/४ ) इति । तद्वृत्तिस्त्वेवम् “युक्तिश्चोपपत्तिरागमश्चाप्तवचनं, ताभ्यां बहिर्भूतं तदननुपाति तद्बाधितं युक्त्यागमबहिर्भूतम्। तत्र युक्तिबहिर्भूतता प्रागुपदर्शिता, आगमबहिर्भूतता चैवमवगन्तव्या । “ भावियजिणवयणाणं, ममत्तरहियाण नत्थि उ विसेसो । अप्पाणम्मि परम्मि य, तो वज्जे पीडमुभओ वि ।। " ( पञ्चवस्तुक५३९) अनशनादौ तु स्वकायपीडा प्रतीतैवेति । अतः = इति यस्मादनेकानन्तरोदितदूषणोपेतं, अतः एतस्माद्धेतोः, त्याज्यं = त्यागार्हं इदं अनशनादिदुः खात्मकं तपः । कैरित्याह बुधैः = युक्त्यागमहृदयज्ञैः, न तैर्लोकरूढ्या प्रवर्तितव्यं भवति, बुधत्वाभावप्रसङ्गादिति हृदयम् । तथा आत्मापकारकं = स्वस्या = ५१० = Jain Education International = For Private & Personal Use Only = ‘તપ દુઃખરૂપ કેમ છે ?’ એવી શંકા ન કરવી. કારણ કે ઉપવાસાદિરૂપ તપ કાયાને પીડાકારી હોવાથી આર્તધ્યાનનો હેતુ છે. માટે ઉપવાસાદિસ્વરૂપ કાયક્લેશકારક તપ દુઃખરૂપ જ છે. કહેલ છે કે “આહાર વિના શરીરમાં ધાતુક્ષોભ થાય છે. ત્યારે અધિક સત્ત્વવાળા પણ જીવનું મન ભ્રષ્ટ થાય છે.’’ તથા અશાતાવેદનીય કર્મના ઉદયથી ઉત્પન્ન થતા હોવાથી જેમ તાવ વગેરે દુઃખરૂપ છે તેમ ઉપવાસ વગેરેમાં ભૂખ્યા રહેવું એ પણ ભોગાંતરાય કર્મ વગેરેના ઉદયનું કાર્ય હોવાથી દુઃખાત્મક જ છે. તેથી અનર્થનો હેતુ હોવાના લીધે ઉપવાસાદિ સ્વરૂપ તપ ત્યાજ્ય જ છે. લોકરુઢિથી તપ કર્તવ્ય નથી. એવો सहीं खाशय छे. (७/२५) = www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy