________________
४५८ • पलपरिभोगमीमांसा •
द्वात्रिंशिका-७/७ शमनार्थं सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवदृष्टं, भुजिश्चाऽत्र बहिः परिभोगार्थ' इति व्याख्यया न विरुद्धम् । ताद्युपशमनार्थं सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात् = रत्नत्रयोपष्टम्भकत्वात् फलवत् = सार्थक दृष्टम्" । (आचा. २/१/१/१०/५८ वृत्ति) इत्युक्तं तवृत्तौ ।
__ अयमत्राशयो ज्ञानादिरत्नत्रययोग-क्षेम-वृद्ध्याधुद्देशेनोत्सर्गतो मांसभक्षणादिकं निषिद्धं सत् गाढग्लानादिकारणतः तेनैवोद्देशेनाऽपवादतो बाह्यपरिभोगार्थं मांसग्रहणादिकं विधीयते । स्वेदकर्मणि मांसादेः बाह्यपरिभोगः चरकसंहितायां → ग्राम्यानूपौदकं मांसं पयो बस्तशिरस्तथा । वराहमध्यपित्ताऽसृक् स्नेहवत्तिल-तण्डुलाः ।। इत्येतानि समुत्क्वाथ्य नाडीस्वेदे प्रयोजयेत् । देश-कालविभागज्ञो युक्त्यपेक्षो भिषक्तमः ।। 6 (च.सं.१४/११-१२) इत्थमुक्तः। → औदकानूपमांसानि सलिलं पाञ्चमूलिकम् । सस्नेहमारनालं वा नाडीस्वेदे प्रयोजयेत् ।। (च.स.८/८८) इति तु चरकसमज्ञाकृत् । सुश्रुतायुर्वेद अपि उष्णस्वेदकर्मणि मांसादेः बाह्यपरिभोगो रोगविशेषोपचाररूपेण दर्शितः (सु.अध्य.३२/भाग-२) । शास्त्रार्थानां तु सर्वज्ञकथितत्वाद् नानादेश-कालादिव्यापकत्वाच्चोत्सर्गापवादगर्भनिरूपणस्य न्याय्यत्वमेव । परं प्रकृते सवैद्य-गीतार्थगुरूपदेशानुसारेणैवाऽयमात्यन्तिकापवादविधिरागाढकारणे प्रयोक्तव्यः, न तु यथाकथञ्चित् । एतेन → न शास्त्रमस्तीत्येतेन प्रयोगो हि समीक्ष्यते । शास्त्रार्थान् व्यापिनो विद्यात् प्रयोगांस्त्वैकदेशिकान् ।। - (का.सू.७/२/५५) इति कामसूत्रकारिकाऽपि व्याख्याता । अतो नात्र 'नोत्सृष्टमन्यार्थमपोद्यते च' (अन्ययो.द्वा.११) इत्येवं कलिकालसर्वज्ञेनाऽन्ययोगव्यवच्छेदद्वात्रिंशिकायामुपदर्शिताया उत्सर्गापवादमर्यादाया भङ्गः, येन मांसस्याऽभक्ष्यता विरुध्येत ।
वस्तुतस्तूत्सर्गापवादविभागविनिर्मोकेणाऽप्येतानि सूत्राणि विमृश्यन्ते तथापि नास्त्यत्र विरोधलेशोऽपि, विरोधितावच्छेदकस्यैवाभावात् । तथाहि निषेध्यतावच्छेदकं मांसप्रतियोगिकभक्षणत्वं, विधेयतावच्छेदकञ्च मांसप्रतियोगिकग्रहणत्वादिकमिति नास्ति विरोधः कश्चित्। न च प्रकृतसूत्रे ‘मंसगं मच्छगं भोच्चा' इत्येवमुक्त्या मांसप्रतियोगिकभक्षणत्वमेव विधेयतावच्छेदकमिति वाच्यम्, यतो 'भुजिश्चात्र बहिःपरिभोगार्थे, नाऽभ्यवहाराऽर्थे पदातिभोगवदिति (आचा.२/१/१/१०/५८ वृ.) तद्वृत्तावुक्तम् । निषेधकोटौ भुजिरभ्यवहारार्थे गृह्यते विधेयकोटौ च नाभ्यवहारार्थे किन्तु स्वेदादिलक्षणबाह्यपरिभोगार्थे इति शब्दाऽभेदेऽप्यर्थभेदानास्त्यत्र विरोधगन्धोऽपीति सूक्ष्मदृष्ट्येक्षणीयं गम्भीरं तत्त्वमेतत् । “एवं गृहस्थाऽऽमन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति । तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम” इति व्याख्यया = श्रीशीलाङ्काचार्यकृतव्याख्यया न विरुद्धं अस्मदुक्तं मांसादेरभक्ष्यत्वम् ।
पूज्यास्तु- “अत्र बहुअद्वियं मंसं = बह्वस्थि-कवचादिव्याप्तं बादाम-खर्जूरकाऽखरोटादिकमिति भाषायां प्रसिद्धं बोध्यम्, बहुकंटयं मच्छं = नानातीक्ष्णसूक्ष्मलोमोपेतं मत्स्याभिधानं वनस्पतिफलं बोध्यमि"ति प्राहुः । વગેરે દ્વારા લૂતા વગેરેનું શમન થવાથી જ્ઞાનાદિ રત્નત્રયની આરાધનામાં તે માંસગ્રહણ ઉપકારક થવાથી સાર્થક જોવાયેલ છે. અત્યંત અપવાદપદે ગ્રહણ કરેલા માંસાદિનો ભોગવટો ખાવા દ્વારા નહિ પણ બાહ્ય પરિભોગ વૈદ્યશાસ્ત્રોક્ત સ્વેદકર્મ વગેરે દ્વારા કરવો.” આવું આચારાંગવિવરણમાં લખેલ હોવાથી “માંસ અભક્ષ્ય છે, માંસભક્ષણ દુષ્ટ છે. માંસભક્ષણ પાપજનક છે.” આ વાતનો કોઈ વિરોધ આવતો નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org