________________
४३६
गुणवत्पारतन्त्र्यस्य मोहोच्छेदकता • द्वात्रिंशिका-६/२६ तथोत्कृष्टे च सत्यस्मिन्शुद्धिवै शब्दमात्रकम् । स्वबुद्धिकल्पनाशिल्पिनिर्मितं नाऽर्थवद् भवेत् ।।
(अष्टक-२२/१-२-३) ।।२६।। एतदुत्कर्षस्तत एतदुत्कर्षतो ज्ञेयो = ज्ञातव्यः, हन्त इति प्रत्यवधारणार्थः कोमलामन्त्रणार्थो वा, उत्कर्षः = उपचयः अस्य = भावमालिन्यस्य स्वाग्रहादिरूपस्य, तत्त्वतः = परमार्थवृत्त्येति । तथा = तेन प्रकारेण रागाद्युत्कर्षलक्षणेन उत्कृष्टे = उत्कटे चशब्दः पुनरर्थः सति = भवति अस्मिन् = रागादिहेतुके स्वाग्रहादिरूपे भावमालिन्ये शुद्धिः = शुद्धत्वम्, भावस्येति गम्यते, वैशब्दो वाक्यालङ्कारार्थः, शब्द एवाभिधानमेव शब्दमात्रं तदेव कुत्सितं शब्दमात्रकं = निरभिधेयमित्यर्थः, मालिन्योत्कर्षे सति नास्ति भावशुद्धिर्मालिन्यस्य तद्विरुद्धरूपत्वादग्निसद्भावे शीतवदिति भावना। अथ मालिन्ये सत्यपि शुद्धिरिष्यते ततः कथं शब्दमात्रत्वमस्या इत्यत्राह, स्वबुद्ध्या = प्रमाणापरतन्त्रया मत्या कल्पना = क्लृप्तिः सैव शिल्पं = चित्रादिकौशलं तेन निर्मितं विरचितं = स्वबुद्धिकल्पनाशिल्पनिर्मितं यच्छब्दरूपं तदिति गम्यम्, न = नैव अर्थवत् = साभिधेयं भवेत् = जायेत - (अष्टक-२२/१-२-३ वृत्ति) इति । अत एव गुर्वाद्याज्ञापारतन्त्र्यमनेकशः शास्त्रेषूपवर्ण्यते। एतेन → आणाइ तवो आणाइ संजमो तह य दाणमाणाए । आणारहिओ धम्मो, पलालपूल व्व पडिहाइ ।। (सं.स.३२) सम्बोधसप्ततिकावचनमपि व्याख्यातम् | युक्तञ्चैतत् । इत्थमेव रागादिदोषक्षयोपपत्तेः । एतेन → एसो हि भिक्खु ! परमो अरियो उपसमो, यदिदं राग-दोस-मोहानं उपसमो 6 (म.नि.३/४०/२) इति मज्झिमनिकायवचनमपि व्याख्यातम् । प्रकृते रागादिविगमानुविद्धा भावशुद्धिरेवाऽमृतकल्पाऽवसेया । एतेन → यो खो भिक्खु ! रागक्खयो, दोसक्खयो, मोहक्खयो वुच्चति अमतं - (सं.नि.५/४५/७) इति संयुत्तनिकायवचनमपि व्याख्यातम् ।
राग-द्वेषाद्युत्कर्षे सति तु बाह्योग्राऽऽचारवत्त्वेऽपि सतीघैरप्यपूज्यत्वं तदपकर्षे च बाह्याचारवैकल्येऽपि पूज्यत्वमिति तु बौद्धानामपि सम्मतम् । इदमेवाऽभिप्रेत्य मज्झिमनिकाये → यस्स कस्सचि, आवुसो, भिक्खुनो इमे पापका अकुसला इच्छावचरा अप्पहीना दिस्सन्ति चेव सूयन्ति च, किञ्चापि सो होति आरञिको पन्तसेनासनो पिण्डपातिको सपदानचारी पंसुकूलिको लूखचीवरधरो, अथ खो नं सब्रह्मचारी न चेव सक्करोन्ति न गरूं करोन्ति न मानेन्ति न पूजेन्ति। तं किस्स हेतु ? ते हि तस्स आयस्मतो पापका अकुसला इच्छावचरा अप्पहीना दिस्सन्ति चेव सूयन्ति च ।.... यस्स कस्सचि, आवुसो, भिक्खुनो इमे पापका अकुसला इच्छावचरा पहीना दिस्सन्ति चेव सूयन्ति च । किञ्चापि सो होति गामन्तविहारी नेमन्तनिको गहपतिचीवरधरो, अथ खो नं सब्रह्मचारी सक्करोन्ति गरूं करोन्ति मानेन्ति पूजेन्ति । तं किस्स हेतु ? ते हि तस्स आयस्मतो पापका अकुसला इच्छावचरा पहीना दिस्सन्ति चेव सूयन्ति च - (म.नि. अनङ्गणसुत्त-१/१/५/६१+६२) इत्युक्तं तदत्र भावनीयं स्वपरसमयाऽविरोधेन तात्पर्यप्रेक्षिविवेकिभिः । अप्पहीना = अप्रहीनाः, आरञिको = आरण्यिकः, पन्तसेनासनो = प्रान्तशयनाऽऽसनः, गामन्तविहारी = ग्रामान्तविहारी, नगरविहारीति यावत् । शिष्टं स्पष्टम् ।।६/२६।। પરમાર્થથી રાગાદિ વધવાથી ભાવમલિનતા વધે. રાગાદિ તીવ્ર હોય તો ભાવશુદ્ધિ તો નામમાત્ર રહે. કારણ કે પોતાની બુદ્ધિની કલ્પનારૂપ શિલ્પી દ્વારા રચાયેલ ચીજ સાર્થક બનતી નથી.(૯/૨૬) १. हस्तादर्श '...शल्य...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org