________________
३९६
• पञ्चविधभिक्षास्वरूपद्योतनम् • द्वात्रिंशिका-६/१० ____ सदाऽनारम्भिता त्वेकबाले द्रव्यमुनौ संविग्नपाक्षिकरूपे न सम्भवति । सप्त वा । मधुमक्षिकवत् कृत्वा माधुकरमिति स्मृतम् ।। - (सं.उप.२/६६) इत्युक्तम् ।
प्रकृते → यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः । तद्वदर्थान् मनुष्येभ्य आदद्यादविहिंसया।। ( (म.भा.उद्योगपर्व-३४/१७) इति महाभारतवचनमपि स्मर्तव्यम् । अत्रिमहर्षिमते माधुकरीलक्षणं तु → यथा मध्वाददानोऽपि भृङ्गः पुष्पं न बाधते । तद्वन्माधुकरी भिक्षामाददीत गृहाधिपात् ।। - (आ.स्मृ.) इत्येवमवगन्तव्यम् । अन्यत्र च तल्लक्षणं → मनःसङ्कल्परहितान् गृहान त्रीन् पञ्च सप्त वा । मधुवदाहरणं यत्तन्माधुकरमिति स्मृतम् ।। ( ) इत्येवमुपदर्शितम् ।
द्वितीया → कावोया जा इमा वित्ती 6 (उत्त. १९/३३) इति उत्तराध्ययनसूत्रे दर्शिता । तवृत्तौ शान्तिसूरयः → कपोताः पक्षिविशेषास्तेषामियं कापोती सेयं वृत्तिः = निर्बहणोपायः, यथा हि ते नित्यशङ्किताः कण-कीटकादिग्रहणे प्रवर्त्तन्ते । एवं भिक्षुरप्येषणादोषशक्येव भिक्षादौ प्रवर्तते 6 (उत्त.१९/३३ बृ.व.) इत्याहुः । __तृतीया तु → अन्नायउँछं चरइ विसुद्धं, जवणट्ठया समुयाणं च निच्चं । - (द.वै.९/३/४) इत्येवं दशवैकालिकसूत्रे दर्शिता । तदुक्तं दशवैकालिकचूर्णौ → उग्गमुप्पायणेसणासुद्धं अण्णायमण्णतेण समुप्पादितं भावुञ्छमण्णाउच्छं 6 (द.वै.९/३/४ चू.) इति ।। __ चतुर्थी → गौरिव चरणं = उच्चावचकुलेष्वविशेषेण पर्यटनं = गोचरः - (उत्त. पृष्ठ ६०७. बृ.वृ.) इत्येवं उत्तराध्ययनबृहद्वृत्तौ दर्शिता। तुरीयातीताभिधानं संन्यासिनमुद्दिश्य संन्यासोपनिषदि → तुरीयातीतो गोमुखवृत्त्या फलाहारी अन्नाहारी - (सं.१/१३) इत्युक्तं तदपीहानुसन्धेयं परतन्त्रानुसारेण | अन्त्याः तिस्रश्च → जथा कवोता व कविंजला य, गावो चरन्ती इध पागडाओ । एवं मुणी गोयरियं चरेज्जा, नो हीलइ नो विय संथवेज्जा ।। - (आव.चू.भा.२. पृ. ७४) इत्येवं सक्षेपतः आवश्यकसूत्रचूर्णो दर्शिता इत्यवधेयम् । उशनाभिप्रायेण संन्यासोपनिषदुक्ता पञ्चविधा भिक्षेत्थमवसेया → 'माधुकरमसङ्क्लृप्तं प्राक् प्रणीतमयाचितम् । तात्कालिकं चोपपन्नं भैक्ष्यं पञ्चविधं स्मृतम् । - (सं.उप.२/६५) । संन्यासोपनिपदि → सर्ववर्णेषु अजगरवृत्त्याऽऽहारपरः स्वरूपानुसन्धानपरः (सं.१/१३) इत्येवं अवधूतसंन्यासिनोऽजगरवृत्त्या भिक्षोपदर्शिता साऽपीह यथातन्त्रमनुयोज्या स्व-परतन्त्रानुयोगपरैः। मूले 'सदानारम्भिता' इत्यनेन संयमयात्रानिर्वाहाऽतिरिक्तहेतुप्रयुक्तायाः प्रमादादिनिमित्तभूताया हनन-क्रयण-पचनादिनवकोट्यशुद्धायाश्च भिक्षायाः सर्वसम्पत्करीबहिर्भावः सूचितः । प्रकृते → प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद् विनिर्गतः ८ (सं.गी.८/५४) इति संन्यासगीतावचनं, → आत्मसंमितमाहारमाहरेदात्मवान् यतिः - (सं.उप. २/५९) इति च संन्यासोपनिषद्वचनमपि यथागममनुयोज्यम् ।
सदानारम्भिता तु एकबाले = आचारहीनत्वप्रयुक्तप्रथमबालतोपेते सम्यक्प्ररूपणेन द्वितीयबालताशून्ये द्रव्यमुनौ = 'लब्भिहिसि तेण पहं' (उप.मा. /५२२) इत्युपदेशमालावचनात् प्रधानद्रव्यमुनित्वજયણા દ્વારા સદા અમારંભહેતુતા જાણવી. સદા અનારંભિતા એક બાલ દ્રવ્યમુનિમાં હોતી નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org