________________
३९५
• सदानारम्भहेतुताविमर्शः • विधेति । व्यक्तः ।।९।। सदाऽनारम्भहेतुर्या सा भिक्षा प्रथमा स्मृता । एकबाले द्रव्यमुनौ सदाऽनारम्भिता 'तु न ॥१०॥
सदेति । सदाऽनारम्भस्य हेतुर्या भिक्षा सा प्रथमा = सर्वसम्पत्करी स्मृता, तहेतुत्वं च सदाऽऽरम्भपरिहारेण सदाऽनारम्भगुणाऽनुकीर्तनाऽभिव्यङ्ग्यपरिणामविशेषाऽऽहितयतनया वा । = श्रियः कर्तुं शीलं यस्याः सा सर्वसम्पत्करी मता । द्वितीया = अपरा पौरुषं = पुरुषकारं हन्ति = निष्फलीकरणेन विध्वंसयति सा पौरुषघ्नी स्यात् । तथा अन्तिमा वृत्तिः = वर्तनं = आजीविकेत्यर्थः, तदर्था भिक्षा = वृत्तिभिक्षा स्यात् । तदुक्तं अष्टकप्रकरणे → सर्वसम्पत्करी चैका पौरुषघ्नी तथाऽपरा । वृत्तिभिक्षेति च तत्त्वज्ञैरिति भिक्षा त्रिधोदिता ।। - (अ.प्र.५/१) इति ।।६/९।।
प्रथमभिक्षामाह- ‘सदे'ति । तद्धेतुत्वं च = सदाऽनारम्भकारणत्वं हि सदा आरम्भपरिहारेण = सर्वदैव सर्वत्रैव हनन-क्रयण-पचन-कृत-कारिताऽनुमतत्वलक्षणाऽऽरम्भपरित्यागेन सम्भवति । एवं ह्यागाढापवाददशायां पिण्डनियुक्ति-निशीथचूर्खादिदर्शितयतनया स्वल्पदोषोपेतपिण्डग्रहणे सदारम्भपरिहारबाधात् भिक्षायाः सर्वसम्पत्करत्वानापत्तिरित्यतः कल्पान्तरमाह सदानारम्भगुणानुकीर्तनाभिव्यङ्ग्यपरिणामविशेषाऽऽहितयतनया वेति 'अहो जिणेहिं असावज्जा' (द.वै.५/१/९२) इति दशवैकालिकसूत्रोच्चारणादिनाऽभिव्यङ्ग्यो यः सदाऽनारम्भरुचि-तत्पालनपरायणत्व-दोषपरिहारप्रतिबद्धत्वाद्यनुविद्धः परिणतिविशेषः तेन आहिता या सूत्रोक्तयतना तया सदानारम्भहेतुता गीतार्थसंविग्नसाधुगृहीतायां औत्सर्गिक्यामापवादिक्यां वा भिक्षायामक्षताऽवगन्तव्या । ____ सर्वसम्पत्करी भिक्षा पञ्चधा विनिर्दिष्टा तथाहि- (१) माधुकरीवृत्तिः, (२) कापोती वृत्तिः, (३) उञ्छा वृत्तिः. (४) गोचरवृत्तिः । (५) कापिञ्जली वृत्तिः । तत्र प्रथमा → जहा दुमस्स पुप्फेसु भमरो आवियइ रसं । न य पुष्पं किलामेइ सो य पीणेइ अप्पयं ।। - (द.वै.१/२) इत्यादिरूपेण दशवैकालिकसूत्रे प्रदर्शिता । बौद्धभिक्षूणामपि माधुकरी विहिता । तदुक्तं धम्मपदे → यथापि भमरो पुष्पं वण्णगन्धं अहेठयं । फलेति रसमादाय एवं गामे मुनी चरे ।। - (ध.प.६) इति । वैदिकदर्शने परमहंसाख्यः संन्यासी माधुकरी वृत्तिमुपजीवति । तदुक्तं सूतसंहितायां → माधुकरमथैकान्नं परमहंसः समाचरेत् - (सू.सं. ६/२२) इति । संन्यासोपनिषदि → मधुकरवृत्त्याऽऽहारमाहरन् ८ (सं.२/५९) इत्यादिना यतिभिक्षोक्ता । माधुकरीलक्षणं संन्यासोपनिषदि → मनःसङ्कल्परहितान् त्रीन् गृहान् पञ्च
ગાથાર્થ સ્પષ્ટ હોવાથી તેની સંસ્કૃત વ્યાખ્યા = ટીકા ગ્રન્થકારશ્રીએ કરેલ નથી.
ગાથાર્થ :- સદા અનારંભનો હેતુ હોય તે પ્રથમ સર્વસંપન્કરી ભિક્ષા કહેવાયેલ છે. એક બાલતાવાળા द्रव्यमुनिभi तो सहा मनाम होतो नथी. (६/१0)
ટીકાર્ય :- જે ભિક્ષા સદા અનારંભનો હેતુ હોય તે ભિક્ષા પ્રથમ = સર્વસંપન્કરી ભિક્ષા કહેવાયેલ છે.
સદા અમારંભહેતુના પ્રસ્તુતમાં સર્વદા હનન-પાચન-ક્રયણ વગેરે આરંભના પરિહાર દ્વારા જાણવી. અથવા સર્વદા અનારંભ ગુણના અનુકીર્તનથી વ્યક્ત થનારા વિશિષ્ટ પરિણામથી આવેલી યતના =
१. मुद्रितप्रतौ 'पुनः' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org