SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ • आकर्षविचारः . ३९३ अन्यथा = तत्त्वज्ञानसंस्काराऽभावे 'पुनर्योगशक्त्यनुवृत्तौ शङ्काकाङ्क्षादिना आकर्षगामी वा स्यात्, तदननुवृत्तौ च पतितो वा, न संशयोऽत्र कश्चित्, बाह्यलिङ्गस्याऽकारणत्वात् ।।८।। कार्य आगमतत्परैः ।। (अ.प्र. ९/८) इति । विपक्षदोषमाह- तत्त्वज्ञानसंस्काराभावे = तत्त्वसंवेदनाभिधानज्ञानजन्यसंस्कारविरहे सति पुनर्योगशक्त्यनुवृत्तौ = पौनःपुन्येन संयमयोग्यषष्ठादिगुणस्थानकसम्बन्धयोग्यताऽऽकृष्टौ सत्यां शङ्का-काङ्क्षादिना = सम्यग्दर्शनशैथिल्यापादकेन जिनवचनसंशय-परदर्शनाकाङ्क्षा-विचिकित्सादिना आकर्षगामी = षष्ठादिगुणस्थानकगमनाऽऽगमनवान् स्यात् । उत्कृष्टत एकस्मिन् भवे शतपृथक्त्वं यावत् पञ्चमादिगुणस्थानकात् षष्ठादिगुणस्थानकप्राप्तिः सम्भवति । शतपृथक्त्वसङ्ख्यापरिपूर्ति यावत् पुनः षष्ठादिगुणस्थानकप्रापकयोगशक्तिरनुवर्तते । तत्परिपूर्ती सत्यां सा नाऽनुवर्तते तज्जीवं प्रति यावज्जीवम् । तत्त्वसंवेद-नजन्यसंस्कारविरहे तदननुवृत्तौ च = पुनः षष्ठादिगुणस्थानकप्रापकयोगशक्त्यननुवृत्तौ सत्यां हि साधुः सदैव पतितः = षष्ठादिगुणस्थानकात् अधस्तनगुणस्थानकवर्ती एव स्यात् । नैव जातु पुनः षष्ठादिगुण-स्थानकमारोहति तस्मिन् भवे । न = नैव कश्चित् संशयः कर्तव्यः अत्र = पुनः षष्ठगुणस्थानकप्रा-प्तिविषये, तद्योगशक्तिप्रच्यवात् । तदुक्तं प्रवचनसारोद्धारे आवश्यकनियुक्तौ च → सामाइयं चउद्धा सुय-दंसण-देस-सव्व भेएहिं । ताण इमे आगरिसा एगभवं पप्प भणियव्वा ।। तिण्ह सहस्स-पुहुत्तं च सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइया हुंति नायव्वा ।। 6 (प्र.सा.८३६/८३७, आ.नि.८५७) इति । 'आकर्षणं = आकर्षः, प्रथमतया मुक्तस्य वा ग्रहणमिति व्याख्यातं प्रवचनसारोद्धारवृत्तौ श्रीसिद्धसेनसूरिभिः आवश्यकनियुक्तिवृत्तौ च श्रीहरिभद्रसूरिभिः मलयगिरिसूरिभिश्च । → आकर्षणमाकर्षः = एकस्मिन् नानाभवेषु वा पुनः सामायिकस्य ग्रहणं = प्रतिपत्तिः - (वि.आ.भा.१४८५ वृत्ति) इति विशेषावश्यकभाष्यवृत्तौ श्रीहेमचन्द्रसूरयः । “एकभवे ग्रहणमोक्षलक्षण आकर्ष' (ध.सं.गा.१०८-पृ.२९५) इति धर्मसङ्ग्रहवृत्तौ दर्शितम् । ‘आकर्षाः = ग्रहणमोक्षलक्षणाः' (पं.व.६२९ वृतिः) इति पञ्चवस्तुकवृत्तौ श्रीहरिभद्रसूरयः । न च तथापि साधुलिङ्गसद्भावात् पुनः षष्ठादिगुणस्थानकलाभो नाऽसम्भवी, पुनर्योगशक्त्यननुवृत्तौ सत्यामपीति शङ्कनीयम्, बाह्यलिङ्गस्य साधुवेशस्य षष्ठादिगुणस्थानकप्राप्तिं प्रति अकारणत्वात् = अहेतुत्वात् । तदुक्तं षोडशके → बाह्यं लिङ्गमसारं तत्प्रतिबद्धा न धर्मनिष्पत्तिः। धारयति कार्यवशतो यस्माच्च विडम्बकोऽप्येतत् ।। તત્ત્વસંવેદનના સંસ્કારની ગેરહાજરીમાં જો સાધુ પાસે ફરીથી છઠ્ઠા ગુણસ્થાનકનો સંબંધ થવાની યોગ્યતા રહેલી હોય તો શંકા, કાંક્ષા વગેરે દ્વારા છઠ્ઠા ગુણસ્થાનકથી ચોથ, પાંચમે ગુણસ્થાનકે આવજાવ કરે એવું થાય. એટલે કે ૬ કેથી પાંચમે જાય, પાંચમેથી ફરીથી છટ્ટ ગુણઠાણે આવે. આ રીતે ૬ હું ગુણઠાણું પામે-ગુમાવે આમ થયા કરે. પરંતુ જો ફરી ૬ઠ્ઠા ગુણસ્થાનકને પામવાની યોગ્યતા રહેલી ન હોય તો તત્ત્વસંવેદનસંસ્કારથી શૂન્ય એવા સાધુ પતિત જ થાય. અર્થાત્ છઠ્ઠા ગુણઠાણેથી નીચે ઉતર્યા બાદ ફરી ક્યારેય તે ભવમાં છઠ્ઠા ગુણઠાણે તે સાધુ આવી શકતા નથી. ભલે તેની પાસે સાધુવેશ રહેલો હોય. કારણ કે સાધુવેશ છઠ્ઠા ગુણઠાણાની પ્રાપ્તિનું કારણ નથી. (૬૮) १. हस्तादर्श 'पुनः' पदं नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy