________________
• कार्यस्वभावभेदस्य कारणस्वभावभेदव्याप्यता •
३९१ वस्तुतः कार्यस्वभावभेदे कारणस्वभावभेदः सर्वत्राप्यावश्यकः, अन्यथा हेत्वन्तरसमवधानस्या____एतेन निष्कम्पपापप्रवृत्तौ बोधसामान्यस्यैव हेतुत्वं, मिथ्यादृष्टौ तथैवावधारणात्, सति मिथ्यात्वविलयविशेषे पापप्रवृत्तिनिष्ठं निष्कम्पत्वं प्रतिबध्यते सति च चारित्रमोहविलयविशेष पापप्रवृत्तिसामान्यमेव प्रतिबध्यते इति बोधगतवैजात्यत्रयकल्पनं नार्हतीति प्रत्याख्यातम्, प्रवृत्तित्वापेक्षया निष्कम्पपापप्रवृत्तित्वस्य बोधकार्यतावच्छेदकत्वे गौरवात्, मिथ्यात्वह्रासविशेषेणाज्ञानत्वाऽविघटने पापप्रवृत्तिगतनिष्कम्पत्वप्रतिबन्धाऽसम्भवात, चारित्रमोहह्रासविशेषेण संज्ञानत्वाऽनाधाने पापप्रवृत्तिप्रतिरोधाऽसम्भवाच्च।
किञ्चाज्ञानावरण-ज्ञानावरण-सज्ज्ञानावरणक्षयोपशमलक्षणकारणभेदादपि कार्यभेदसिद्धौ कार्यतावच्छेदकविधयाऽज्ञानत्व-ज्ञानत्व-सज्ज्ञानत्वसिद्धिरप्यनाविलैव, तदुक्तं सम्मतितर्कवृत्तौ → अयमेव भेदो भेदहेतुर्वा यदुत कारणभेदो विरुद्धधर्माध्यासो वा 6 (सं.त.का. १/१ वृ.) इति ।
ननु कारणभेद एव तावदसिद्धः, एक एव ज्ञानावरणक्षयोपशमः मिथ्यात्वोदयसहचरितः सन् अज्ञानावरणक्षयोपशमो भण्यते, मिथ्यात्वक्षयोपशम-चारित्रमोहोदयाभ्यां सहचरितः सन् ज्ञानावरणक्षयोपशम उच्यते, मिथ्यात्व-चारित्रमोहक्षयोपशमाभ्यां सहचरितः सन् सज्ज्ञानावरणक्षयोपशमः कथ्यते, न तु ज्ञानावरणक्षयोपशमे कश्चिद् भेद आधीयते सहचरितेन । अथाभिधानभेदप्रयोजकः सहचारितयाऽभिमतः सहकारितया वा ? इति विकल्पयामलमत्रोपतिष्ठते । न तावदाद्योऽनवद्यः, तेन सहचारिणा ज्ञानावरणक्षयोपशमे कस्यचिदतिशयस्याधाने कारणभेदसिद्धिरनपलपनीया। तदनाधाने तु नामभेदो नामभेदमात्र एव स्यात्, न तु निष्कम्प-सकम्पसावद्याऽनवद्यप्रवृत्तिभेदसम्पादकः । न ह्युदासीनसमवधानाऽसमवधानयोः कार्यभेदो विदुषामभिमतः । द्वितीयोऽपि विकल्पोऽसन्, अज्ञानादिलक्षणकार्यजनने ज्ञानावरणक्षयोपशमतस्तदङ्गीकारे तैर्ज्ञानावरणक्षयोपशमे कस्यचिदतिशयस्याऽऽधाने सैव कारणभेदसिद्धिः । न च तैरज्ञानादिलक्षणकार्येष्वेवातिशय आधीयते न तु तत्कारणीभूते ज्ञानावरणक्षयोपशमे इति वाच्यम्, सहकारिणा प्रधानकारणेऽतिशयाऽनाधाने कार्यभेदाऽनापत्तेरिति चेत् ? अत्रोच्यते, कारणभेदमीमांसा तावन्मुच्यताम्, कार्याभिधानभेदमेव वयं मीमांसामहे । तथाहि - अविशेषितं ज्ञानमेव मिथ्यात्वसमवहितं सद् अज्ञानं भण्यते, सम्यग्दर्शनमात्रसमवहितं सत् ज्ञानमभिधीयते, सम्यक्चारित्रसमवहितं सच्च सज्ज्ञानं प्रोच्यते । एवमेवाविशेषिता मतिर्मिथ्यात्वसमन्विता मत्यज्ञानं भण्यते, सम्यक्त्वसमन्विता मतिज्ञानमुच्यते सच्चारित्रसमन्विता च सन्मतिज्ञानमभिधीयते । श्रुतज्ञानादावपीत्थमेवावसेयम् । न चेदं स्वमनीषिकामात्रविजृम्भितम्, → अविसेसिया मई च्चिय सम्मद्दिट्ठिस्स सा मइण्णाणं । मइअण्णाणं मिच्छद्दिट्ठिस्स, सुर्यपि एमेव ।। (वि.आ.भा.११४) इति विशेषावश्यकभाष्यानुसारेणास्माभिरुन्नयनात् । ततश्च ‘अज्ञानावरणापायं' (अ.९/३) 'ज्ञानावरणहासोत्थं' (अ.९/५), 'सज्ज्ञानावरणापायं' (अ.९/७) इत्यादीनि कारणभेदपराणि अष्टकवचनानि प्लवन्त इत्याशङ्कायामाह-वस्तुत इति । कार्यस्वभावभेदे सति कारणस्वभावभेदः सर्वत्रापि स्थलेऽङ्गीकर्तुं आवश्यकः, अन्यथा =
વાસ્તવમાં તો કાર્યનો સ્વભાવ બદલાય તો કારણનો સ્વભાવ જુદો માનવો સર્વત્ર જરૂરી છે. કારણ કે કારણસ્વભાવ ન બદલાય તો કાર્યભેદની સંગતિ થઈ શકતી નથી. બાકી તો અન્ય કારણની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org