________________
• निश्चय-व्यवहाराभ्यां निर्जराकारणमीमांसा •
१७३ 'हीणस्स वि सुद्धपरूवगस्स संविग्गपक्खवाइस्स । जा जा हविज्ज जयणा सा सा से णिज्जरा होइ ।। (उपदेशमाला ५२६) इच्छायोगसम्भवाच्चात्र नेतराङ्गवैकल्येऽपि फलवैकल्यम् ।
उपदेशमालासंवादमाह- 'हीणस्स वि' इति । रामविजयगणिकृता तद्वृत्तिस्त्वेवम् → हीनस्यापि = किञ्चिदुत्तरगुणेन शिथिलस्यापि शुद्धप्ररूपकस्य = शुद्धभाषकस्य संविग्नानां = संवेगमार्गिणां पक्षपातो यस्यैतादृशस्य या या यतना बहुदोषवस्तुवर्जनाल्पदोषवस्तुग्रहणरूपा भवेत् सा सा यतना तस्य पुरुषस्य निर्जरा = कर्मक्षयकारिणी भवति 6 (उप.मा. ५२६ वृ.) ।
वस्तुतो निश्चयेन सा निर्जराहेतुता शुद्धदेशनाप्ररूपणायामेव पर्यवस्यति; तदीयविकलयतनादौ तु 'आयुघृतमिति न्यायेनोपचारादेव । अत एव पूर्वोक्तरीत्या(पृ.४२) → संविग्गपक्खियाणं लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणावि जेण कम्मं विसोहंति ।। सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ होइ य सव्वोमरायणीओ ।।
6 (उप.मा.५१४/५१५) इत्यादिना संविग्नपाक्षिकलक्षणप्रदर्शनावसरे उपदेशमालायां प्रथममेव शुद्धसाधुधर्मदेशकत्वमुपदर्शितम् । शक्ययतनापालनं तु तद्देशनाप्राप्तशुद्धिप्रयुक्तम्; शक्यकरण एव देशना-शुद्धिसम्यक्त्वादिनिर्वाहात् । तदुक्तं सम्बोधप्रकरणे 'जं सक्कइ तं कीरइ जं च न सक्कइ तयं च सद्दहणा । सद्दहमाणो जीवो वच्चइ अयरामरं ठाणं ।।' (सं.प्र.४/३६) । तदुक्तं दर्शनप्राभृते कुन्दकुन्दस्वामिनाऽपि → जं सक्कं तं कीरइ जं च न सक्केइ तं सद्दहणं । केवलिजिणेहिं भणियं सदहमाणस्स सम्मत्तं ।। - (द.प्रा.२२) इति । युक्तञ्चैतत्, अन्यथा नटवैराग्यमेव तत्कथनं स्यात् । तदुक्तं उपदेशमालायामेव → 'पढइ नडो वेरग्गं निविज्जिज्जा य बहु जणो जेण । पढिऊण तं तह सढो जालेण जलं समोअरइ ।।' 6 (उप.मा.४७४) इति भावनीयम् ।
ननु संविग्नपाक्षिकस्य शुद्धाचारवैकल्यात्कथं तदीयशुद्धदेशनाया निर्जराहेतुत्वं स्यात् ? न ह्यङ्गवैकल्ये कार्यमुत्पत्तुमर्हतीति चेत् ? मैवम्, न हि संविग्नपाक्षिकेऽस्माभिः शास्त्रयोगसाध्या निर्जरा प्रतिपाद्यते किन्त्विच्छायोगसाध्यैव सा । → 'कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादतः । विकलो धर्मयोगो यः स इच्छायोग उच्यते' ।। - (यो.दृ.३) इति योगदृष्टिसमुच्चयदर्शितो वक्ष्यमाणः (भाग-५ पृ.११०२) इच्छायोगस्तु संविग्नपाक्षिकेषु सम्भवत्येव, तेषां शुद्धमार्गरुचिशालितया शुद्धधर्मचिकीर्षानपायात् ।
इत्थं इच्छायोगसम्भवात् अत्र = संविग्नपाक्षिके इतराङ्गवैकल्येऽपि = शुद्धचारित्रपालनक्षतौ अपि न फलवैकल्यं = नैवेच्छायोगसाध्यकर्मनिर्जरादिलक्षणफलविरहः । प्रमादसत्त्वेऽपि उत्खातदंष्ट्रोरगन्यायेन થતી કર્મનિર્જરામાં કારણ બને છે. માટે તો ઉપદેશમાલામાં જણાવેલ છે કે “ચારિત્રાચારમાં હીન હોવા છતાં પણ શુદ્ધ માર્ગપ્રરૂપણા કરવાના લીધે સંવિગ્નપાક્ષિક જેટલી જેટલી જયણા પાળે છે, તેટલી તેટલી તેને કર્મનિર્જરા થાય છે.”
છે સંવિગ્નપાક્ષિક્ત ઈચ્છાયોગનિમિત્તક નિર્જરા જ જો કે સમ્યગ્દર્શન-જ્ઞાન-ચારિત્ર ત્રણેય ભેગા થાય ત્યારે તાત્ત્વિક મોક્ષમાર્ગ સંપન્ન થવાથી વિશિષ્ટ કર્મનિર્જરા થાય છે. સંવિગ્નપાક્ષિકમાં સમ્મચારિત્ર = શાસ્ત્રયોગ નથી. તેમ છતાં પણ સંવિગ્નપાક્ષિકમાં १. हीनस्यापि शुद्धप्रख्पकस्य संविग्नपक्षपातिनः । या या भवेद्यतना सा सा तस्य निर्जरा भवति ।। २. 'जो जो' इत्यशुद्धः पाठो हस्तप्रतौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org