________________
१७४
• इच्छायोगस्यापि निर्जराकारकत्वसमर्थनम् • द्वात्रिंशिका-३/२२ सम्यग्दर्शनस्यैवात्र सहकारित्वात्, शास्त्रयोग एव सम्यग्दर्शन-चारित्रयोईयोस्तुल्यवदपेक्षणात् ।
तदिदमुक्तम्- 'दसणपक्खो सावय चरित्तभट्टे य मंदधम्मे य । दसणचरित्तपक्खो समणे परलोगकंखिमि ।। (आ.नि.११६५) उत्तरसम्पदः = उत्कृष्टसम्पदश्च सुसाधूनां ग्लानेरपनायकं तस्य नेच्छायोगप्रत्ययिकनिर्जराव्याघातकता । न चेच्छायोगोऽपि तस्य कथं सम्भवतीति पुनर्वाच्यम्, सम्यग्दर्शनस्यैव अत्र = इच्छायोगे सहकारित्वात् = इच्छायोगकारणीभूतप्रमत्तेच्छादिभिन्नत्वे सतीच्छायोगलक्षणकार्यकारित्वात् । इच्छायोगसामग्रीसाम्राज्यात्तत्र सोऽनाविलः । सम्यग्ज्ञानस्य सम्यग्दर्शनाविनाभावित्वात्सम्यग्दर्शनपदेन तदप्याक्षिप्तमवगन्तव्यम् । शुद्धधर्मदेशनोपलम्भात् संविग्नपाक्षिके सम्यग्दर्शनमयत्नसिद्धम्, तस्याः तद्व्याप्यत्वात् । एवकारेण चारित्रव्यवच्छेदः कृतः । न च चारित्रस्यापि निर्जरां प्रति कारणत्वात्कथमत्र तद्विनैव निर्जरा स्यात् ? व्यतिरेकव्यभिचारेण कार्यकारणभावभङ्गप्रसङ्गादिति शङ्कनीयम्, यतो न ह्यस्माभिः चारित्रस्य निर्जराकारणताऽपलप्यते किन्तु इच्छायोगसाध्यनिर्जरां प्रत्येव तदनावश्यकतोच्यते ।
न चैवं सति ज्ञान-क्रियासमुच्चयवादोऽनेकान्तवाद्यभिमतो व्याहन्येतेति शङ्कनीयम्, → 'शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन वचसाऽविकलस्तथा ।।' (यो.दृ.४) इति योगदृष्टिसमुच्चयप्रदर्शिते वक्ष्यमाणे (भा.५,पृ.१२७३) शास्त्रयोगे एव सम्यग्दर्शन-चारित्रयोः द्वयोः तुल्यवदपेक्षणात्, न त्विच्छायोगे तत्साध्यनिर्जरायां वा । इत्थमनभ्युपगमे संविग्नपाक्षिकस्य शुद्ध्यनापत्तेः । न चेष्टापत्तिः कर्तव्या, → 'सुज्झइ जइ सुचरणो सुज्झइ सुसावगो वि गुणकलिओ। ओसन्नचरणकरणो सुज्झइ संविग्गपक्खरुई ।।' 6 (उप.मा.५१३) इत्यादिना उपदेशमालायां संविग्नपाक्षिकस्य शुद्धरभिधानात् । न च चारित्रोपघाते सम्यग्दर्शनस्यापि विलय इति शङ्कनीयम्, व्यवहारनयेन तादृशैकान्तानभ्युपगमात् । तदुक्तं उपदेशमालायां पिण्डनियुक्तौ च → निच्छयनयस्स चरणस्स वग्घाए नाण-दंसणवहो वि। ववहारस्स य चरणे हयंमि भयणा उ सेसाणं ।। 6 (उप.मा.५१२/पिं.नि. १०५) इति ।।
तेन संविग्नपाक्षिकस्य चारित्रवैकल्ये सम्यग्दर्शनसम्भवः कथम् ? इति शङ्काऽपि अनुत्थानहता द्रष्टव्या, आवश्यकनियुक्तौ तस्मिन् सम्यग्दर्शनप्रतिपादनात् । तत्संवादमेवाह- 'दंसणे'ति।
शुद्धदेशना संविग्नपाक्षिकाणां मूलसम्पदित्युक्त्वा साम्प्रतमुत्तरसम्पदुपदर्शनावसरः सुसाधूनां ग्लानेઈચ્છાયોગ સંભવે છે. તેથી ઈચ્છાયોગનિમિત્તક કર્મનિર્જરાસ્વરૂપ ફળ બાધિત નહિ બને. ઈચ્છાયોગમાં તો સમ્યગ્દર્શન જ સહકારી કારણ છે. સમ્યગ્દર્શન અને સમ્યફચારિત્ર આ બન્નેની સમકક્ષ એવી અપેક્ષા તો શાસ્ત્રયોગમાં જ રહે છે, ઈચ્છાયોગમાં નહિ.
આથી તો આવશ્યકનિયુક્તિ ગ્રન્થમાં જણાવેલ છે કે “શ્રાવક, ચારિત્રભ્રષ્ટ (સિદ્ધપુત્ર, સારૂપિક વગેરે) અને આચારશિથિલ ( મંદચારિત્રધર્મ) એવા જીવોમાં દર્શનપક્ષ = સમકિતપક્ષવર્તિતા હોય છે. તથા પરલોકકાંક્ષી (= પરલોકને સુધારવાની અને પરલોકને સમીપ બનાવવાની સક્રિય પ્રબળ ઈચ્છાવાળા) સુસાધુમાં સમ્યગ્દર્શન-ચારિત્રપક્ષ = સમકિત-ચારિત્રસંપન્નતા હોય છે.
સુસાધુઓની માંદગીને દૂર કરે એવી ઔષધિ-દવા તેઓને આપવી, તેમની સેવા-ભક્તિ કરવી. १. दर्शनपक्षः श्रावके चारित्रभ्रष्टे च मन्दधर्मे च । दर्शनचारित्रपक्षः श्रमणे परलोककाक्षिणि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org