________________
१६४
• गीतार्थापेक्षत्वं गीतार्थसमर्पितपरिणामस्य •
द्वात्रिंशिका - ३/१७
यत्तु पञ्चाशके गुरुपारतंतं नाणं ← (पञ्चा. ११/७) इत्युक्तम्, तदप्यगीतार्थानां माषतुषादीनां स्वाश्रयपारतन्त्र्यसम्बन्धेन ज्ञानित्वोपदर्शकत्वाद् गौणज्ञानप्रदर्शनपरमेवावगन्तव्यम् । एतेन यो निरनुबन्धदोषात् श्राद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः सोऽपि ज्ञान्येव तत्फलतः । । चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मताऽनुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ।।
← ( षोड. १२/ ३-४ ) इति षोडशककारिकेऽपि व्याख्याते, यथा चैतत् तथा विस्तरतो भावयिष्यामो दीक्षाद्वात्रिंशिकायाम् (भा.७, पृ. १९०२ ) । प्रकृते गीतार्थनिश्रितानामगीतार्थानां मार्गानुसारिबोधमात्रानुषक्तरुचिजन्यनिर्जरासद्भावेऽपि नय-निक्षेपादिपरिच्छेदाधीनसकलसूत्रार्थपरिज्ञानसाध्यविशिष्टप्रवचनरुचिस्वभावभावसम्यक्त्वसाध्यनिर्जराविरहादुपचरितमेव तदिति बोध्यम् । 'अंधोऽणंधोव्व सदा तस्साणाए तहेव घे । भीमं पहु कंतारं भवकंतारं इय अगीतो' ।। ( पञ्चा. ११/११ ) इति पञ्चाशकेऽपि गीतार्थाऽऽज्ञाऽनुसरणे एवाऽगीतार्थस्य भवारण्योल्लङ्घनोक्तेस्तज्गौणमेवावगन्तव्यमगीतार्थानां ज्ञानम् ।
इदञ्चात्रावधेयम्-ज्ञान-दर्शन- चारित्राणां शिबिकावाहकपुरुषवद् मिलितानामेव मोक्षहेतुत्वाभिधानादगीतार्थे तदभावेन मोक्षानापत्तेरनेकान्तपरिच्छेदरूपस्य ज्ञानस्य गीतार्थे साक्षादगीतार्थे च स्वाश्रयपारतन्त्र्येण हेतुत्वम् । निश्चयतस्तद्गतफले तद्गताऽध्यवसायस्यैव हेतुत्वेऽपि गीतार्थापेक्ष एवागीतार्थस्य प्रतिक्षणविलक्षणस्तथाभूतपरिणामः नान्यथा । प्रकाशकमपेक्ष्यैव हि प्रकाश्यः प्रकाशस्वभावो न त्वन्धकारमाकाशादिकं वेति । अतो विना चक्षुष्मदाधारं गीतार्थं अन्धः = अन्धस्थानीयोऽगीतार्थः पथि मोक्षमार्गे कथं व्रजेत् ? नैवेत्यर्थः। यथोक्तं एकं हि चक्षुरमलं सहजो विवेकस्तद्वेदिभिरेव सह संवसतिर्द्वितीयम्। एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धः तस्यापमार्गचलने खलु कोऽपराध: ? ।। ← ( आचाराङ्गसूत्रे उद्धृतः ८२ श्लोक) इति आम्रसेक - पितृतर्पणन्यायेनाऽवगन्तव्यम् । आम्राश्च सिक्ताः पितरश्च प्रीणिता इतिवत् प्रकृतेऽर्थद्वयप्रतिपादनमेकेनैव पथाऽवगन्तव्यम् I
'न या लभिज्जा निउणं सहायं, गुणाहिअं वा गुणओ समं वा । इक्को वि पावाइं विवज्जयंतो विहरेज्ज कामेसु असज्जमाणो ।।' (द.वै.चू. २/१०) इत्यादिना दशवैकालिकप्रतिपादित आपवादिक एकाकिविहारविधिरपि गीतार्थमपेक्ष्यैव, न त्वगीतार्थम्, तस्य गीतार्थपरतन्त्रस्यैव कर्ममात्रेऽधिकारित्वादिति (शा.वा.स. स्त. ७/गा.२८ वृ.) व्यक्तमुक्तं स्याद्वादकल्पलतायाम् ।।३/१७।।
=
વિશેષાર્થ :- સૂર્યમાં મુખ્ય પ્રકાશ છે. અરીસામાં પ્રકાશ નથી. પરંતુ દર્પણ જો સૂર્યને અભિમુખ બને તો દર્પણ પણ સૂર્યની જેમ ઝળહળતો પ્રકાશ પાથરવા માંડે. દર્પણમાં જે ઝળહળતો પ્રકાશ દેખાય છે તે સૂર્યપ્રકાશને આભારી છે, ગૌણ છે, ઔપચારિક છે. તેમ મોક્ષમાર્ગનો ઝળહળતો મુખ્ય જ્ઞાનપ્રકાશ ભવભીરુ ગીતાર્થ સાધુઓના હૃદયમાં ધરબાયેલ છે. તેવા ગીતાર્થોને અભિમુખ-સન્મુખ-સમર્પિત થવામાં આવે તો અગીતાર્થમાં પણ જ્ઞાન પ્રગટે, આ જ્ઞાન દર્પણપ્રકાશની માફક અસ્વતંત્ર છે, પરતંત્ર છે, પરાવલંબી છે, ગૌણ છે, ઔપચારિક છે. આ જ્ઞાન ઔપચારિક હોવા છતાં અલ્પ પણ દોષના ભીરુ સંવિગ્ન એવા અગીતાર્થના હૃદયમાં જે અજ્ઞાન છવાયેલ છે તેને દૂર કરવા સમર્થ છે. તેથી અગીતાર્થ સંયમીએ જો મોક્ષમાર્ગે અસ્ખલિતપણે આગળ વધવું હોય તો ભવભીરુ સંવિગ્ન ગીતાર્થ સંયમીનો આધાર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org