________________
• सुसाधुनिन्दकस्य बोधिदुर्लभता • गीतार्थपारतन्त्र्येण ज्ञानमज्ञानिनां मतम् । विना चक्षुष्मदाधारमन्धः पथि कथं व्रजेत् ।।१७।। गीतार्थेति। मुख्यं ज्ञानं गीतार्थानामेव, तत्पारतन्त्र्यलक्षणं गौणमेव तदगीतार्थानामिति भावः ।।१७।। पन्नवेमाणो । एसो उ अहाछंदो इच्छाच्छंदो य एगट्ठा ।। - (व्य.भा.उ.१/भाग-३/गा.२३४/पृ.११२) इति व्यवहारभाष्यव्यावर्णितरीत्या आत्मानं यथाच्छन्दतया ते न जानते ‘निन्दामि च पिबामि चेति न्यायेन । → सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्सन्ति संसारे ते विउस्सिया।। - (सू.कृ.१/१/२/२३) इति च सूत्रकृताङ्गवचनमपि न ते स्मरन्ति । स्वपूजार्थं अपरेषां संविग्नानां निन्दायां क्रियमाणायां स्वस्य बोधिदुर्लभत्वमेव प्रसज्येत । तदुक्तं निशीथभाष्ये → परियाय-पूयहेतुं ओसण्णाणं च आणुवत्तीए । चरण-करणं णिगृहति तं दुल्लभ-बोहियं जाणे ।। 6 (नि.भा.५४३७) इति । दर्शनशुद्धिप्रकरणे अपि → परिवार-पूअहेउं पासत्थाणं च आणुवित्तीए। जो न कहेइ विसुद्धं तं दुल्लहबोहियं जाण ।। (द.शु.९६) इत्युक्तम् । ततश्च स्वस्य वन्द्यतां परेषाञ्चाऽवन्द्यतां वदन्तः ते अहिभुक्कैवर्तन्यायेनोन्मत्ता एवावसेयाः । श्रूयते हि लोके कश्चिदहिभुग्नावमारुरोह । स च तत्र बहुजनसमुदायं दृष्ट्वा 'केनचिन्मे विनिमयो मा भूदिति धिया स्वपादे रज्जु बद्ध्वा तन्द्रां प्राप। कैवर्तश्चोपहासार्थं तत्पादात्तां मोचयित्वा स्वपादे बबन्ध । नावि पारं गतायामवरोहणसमयेऽहिभुक् स्वपादे रज्जुमदृष्ट्वा कैवर्तकपादे च तां दृष्ट्वा 'अयमहम्, अहमयमिति स्वहृदि निश्चित्य 'अरे ! कैवर्त ! त्वमहं, अहं च त्वं' इति तेन सह विवादं चकार । तथैवेमे वन्द्यावन्द्यविपर्यासभाक्तया विज्ञेयाः ।।३/१६।।
किञ्च गीतार्थ-तनिश्रिताऽन्यतरविहारस्यैवानुज्ञाऽस्ति, तदुक्तं ओघनियुक्ती, व्यवहारसूत्रभाष्ये, बृहत्कल्पभाष्ये, पञ्चाशके, पञ्चवस्तुके, प्रवचनसारोद्धारे च → 'गीयत्थो य विहारो बीयो गीयत्थनिस्सितो भणिओ। एत्तो तइयविहारो नाणुन्नाओ जिणवरेहिं ।।' (ओ.नि.१२१, व्य.सू.भा.२/२१, बृ.क.भा.६८८, पञ्चा. ११/३२-१४/२०, पं.व.११८०, प्र.सारो.७७०)) - इति । त्यक्तगुरुकुलवासानामगीतार्थानां स्वच्छन्दविहारिणां तु विहाराज्ञैव नास्तीत्यतोऽप्यसंविग्नत्वं तेषां स्फुटमेवेत्याशयेनाह- 'गीतार्थे'ति । मुख्यं ज्ञानं = मोक्षमार्गप्रवर्त्तकज्ञानं गीतार्थानामेव । तत्पारतन्त्र्यलक्षणं = गीतार्थाज्ञावशवर्त्तित्वलक्षणं गौणमेव = औपचारिकमेव तत् = मोक्षमार्गप्रवर्त्तकज्ञानं अगीतार्थानाम्, गीतार्थगुरुपारतन्त्र्यस्य ज्ञानफलसाधकत्वात् । અવંદનીય બનેલ છે એમ સ્વદોષને તેઓ જોતા નથી. આ તેમની મોટી વિડંબણા છે. (સ્વચ્છન્દ સાધુઓ સ્વમતિ મુજબ શાસ્ત્રોક્ત આચારોનું પાલન કરીને મોક્ષમાર્ગે આગળ વધી શકે તેવી શક્યતાને પણ व अन्य।२श्री ३२भावे छ ? →)
ગાથાર્થ :- અજ્ઞાનીઓમાં ગીતાર્થપરતંત્રતારૂપે જ જ્ઞાન મનાયેલું છે. કારણ કે દેખતા માણસના આલંબન વિના અંધ વ્યક્તિ માર્ગમાં કેવી રીતે આગળ વધી શકે ? (૩/૧૭)
હ જ્ઞાનના ગૌણ-મુખ્ય પ્રકાર છે ટીકાર્થ:- મુખ્ય જ્ઞાન = તાત્ત્વિક જ્ઞાન તો શાસ્ત્રોના રહસ્યાર્થીને પચાવનારા ગીતાર્થ સાધુ ભગવંતોમાં જ હોય છે. આવા ગીતાર્થ સાધુઓને પરતંત્ર = સમર્પિત બનવામાં આવે તો અગીતાર્થ સાધુઓમાં તેમની પરતંત્રતારૂપી ગૌણ જ્ઞાન આવે છે એવો ગાથાનો ભાવાર્થ છે. (૩/૧૭)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org