SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ • साधुद्वेष भवभ्रमणवर्धनम् • १५९ 'बहुजणपवित्तिमिच्छं(मेत्तं) इच्छंतेण(हिं) इह लोइओ चेव । धम्मो न उज्झियवो जेण तहिं बहुजणपवित्ति ।। (उपदेशपद ९०९) ।।१३।। (वरा.३/२५) इति वराहोपनिषद्वचनमपि तेषां चित्ते न सम्यक् परिणमति । मात्सर्यादिनाऽसंविग्नकृता संविग्ननिन्दा तु तेषामसंविग्नानां तत्त्वपराङ्मुखतामेवाऽऽवेदयति। तदुक्तं योगसारे → तात्त्विका वयमेवान्ये भ्रान्ताः सर्वेऽप्यतात्त्विकाः । इति मत्सरिणो दूरोत्सारितास्तत्त्वसारतः ।। -- (यो.सा.२/१०) इति । तदुक्तं सूत्रकृताङ्गेऽपि → बाले पापेहिं मिज्जती - (सू.१/२/२/२१) इति । एतद्दोषपरिहाराय भवभीरुभिः प्रकृते → जैनधर्मोपदेष्ट्रणां सूरि-वाचक-साधूनां । अपमानं न कर्तव्यं जैनैः प्राणात्ययेऽपि वै ।। - (जै.गी.३३) इति जैनगीतावचनमपि स्मर्तव्यम् । → निन्दा कार्या कदाचिन्न जैनैर्देवस्य सद्गुरोः (कृ.गी.२१०) इति कृष्णगीतावचनमपि न विस्मर्तव्यम्। मिथ्यादृग्बहुत्वोपदर्शनाय उपदेशपदगाथामाह- 'बहुजण' इत्यादि । तद्वृत्तिश्चैवम् → बहुजनप्रवृत्तिमात्रं गतानुगतिकरूपं लोकरूढिमेव इच्छद्भिरिह धर्मचिन्तायां लौकिकश्चैव-लोकरूढ एव धर्मो हिमपथज्वलनप्रवेश-भृगुपातादिलक्षणो नोज्झितव्यः, येन तत्र धर्मे बहुजनप्रवृत्तिर्लक्षकोट्यादिसङ्ख्यलोकसमाचाररूपा दृश्यते ( (उप.प. ९०९ वृ.) इति । प्रकृते चान्योऽपि शिथिलोल्लापो निशीथभाष्ये → धीरपुरिसपरिहाणी नाऊणं मंदधम्मिया केई । हीलंति विहरमाणं संविग्गजणं अबुद्धीतो ।। केवल-मणोहि-चोद्दस-दस-णवपुव्वीहि विरहिए एण्हिं । सुद्धमसुद्धं चरणं को जाणति कस्स भावं च ।। बाहिरकरणेण समं, अभिंतरयं करेंति अमुणेता । णेगंता तं च भवे विवज्जओ विस्सते जेणं ।। जति वा णिरतीचारा हवेज्ज तव्वज्जिया य सुज्झेज्जा । ण य होंति णिरतिचारा संघयणधितीण दोब्बला ।। को वा तहा समत्थो जह तेहि कयं तु धीरपुरिसेहिं । जहसत्ती पुण कीरति जहा पइण्णा हवइ एवं ।। 6 (नि.भा.५४२३-५४२७) इत्येवमुपवर्णितः । तत्समाधानमपि निशीथभाष्ये → सव्वेसि एगचरणं सरणं, मोयावगं दुहसयाणं । मा राग-दोसवसगा अप्पणो सरणं पलीवेह ।। संतगुणणासणा खलु परपरिवाओ य होति अलियं च । धम्मे य अबहुमाणो, साहुपदोसे य संसारो।। खय-उवसम-मीसं पि य जिणकाले वि तिविहं भवे चरणं। मिस्सातो चिय पावति खय-उवसमं च णऽण्णत्तो ।। 6 (नि.भा.५४२८-३०) इत्यादिनोपदर्शितम् ।।३/१३ ।। માટે તો ઉપદેશપદમાં જણાવેલ છે કે “ઘણા લોકો જેમાં પ્રવૃત્તિ કરે તેને ઈચ્છતા લોકોએ ઈહલૌકિક = નાસ્તિકધર્મ = મિથ્યાત્વીધર્મ છોડવો ન જોઈએ. કારણ કે નાસ્તિક ધર્મમાં, મિથ્યાધર્મમાં ઘણા લોકોની प्रवृत्ति हेपाय छे.” (७/१२) હ શાસ્ત્રમતિ માટે લાલબત્તી છે વિશેષાર્થ :- “થોડા કરે તે અપ્રમાણ અને ઘણા કરે તે પ્રમાણ' આંવી માન્યતા રાખીને ઘણા લોકોએ આચરેલ શિથિલાચાર, મિથ્યા આચારને પકડીને શિથિલાચારીઓ થોડાક સંવિગ્ન સાધુની નિંદા કરે છે તે તેમનામાં રહેલ મિથ્યાત્વનું સૂચક છે. મિથ્યાત્વનો પક્ષપાત, મિથ્યાત્વીમાં ગુણ જોવા એ પણ મિથ્યાત્વનો જ વિલાસ છે. બહુમતિ માન્ય કરવામાં આવે તો કાયમ મિથ્યાત્વીઓની બહુમતી १. बहुजनप्रवृत्तिमात्रमिच्छद्भिरिह लौकिकश्चैव । धर्मो नोज्झितव्यो येन तत्र बहुजनप्रवृत्तिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy