________________
१५८
• निन्दकस्य मिथ्यादृष्टित्वनियमः • द्वात्रिंशिका-३/१३ तेषामिति । तेषां = असंविग्नानां अल्पसाधूनां = विरलानां यतीनां, बह्वाचरित(रण)मानिनां = 'बहुभिराचीर्णं खलु वयमाचरामः स्तोकाः पुनरेते संविग्नत्वाभिमानिनो दाम्भिका' इत्यभिमानवतां निन्दा, अङ्गीकृतस्य मिथ्याभूतस्यापि बह्वाचीर्णस्यात्यागे(अङ्गीकृताऽत्यागे) अभ्युपगम्यमाने मिथ्यादृशां गुणदर्शिनी (मिथ्यादृग्गुणदर्शिनी) प्रवृत्ता, 'सम्यग्दृगपेक्षया मिथ्यादृशामेव बहुत्वात् । तदाह
पण्डितश्रावकाणामेतेऽसंविग्नशठाऽगीतार्था उत्सर्गापवादपरिकलितमागमिकमैदम्पर्यार्थं तु न कथयन्ति प्रत्युत संविग्नाशठगीतार्थविरलयतीनां निन्दामेव कुर्वन्तीत्याह- 'तेषामिति एका तावत् स्वयमाचारभ्रष्टतया मूर्खता, द्वितीया तु संविग्ननिन्दया । तदुक्तं आचाराङ्गे → “सीलमंता उवसंता संखाए रीयमाणा 'असीला' अणुवयमाणस्स बितिया मंदस्स बालया” (आचा.श्रु.१/अ.६/उ.४/सू.१८६) ।
इत्थञ्चात्राऽभ्याख्यानादयोऽपि दोषा अव्याहतप्रसराः । तदुक्तं निशीथभाष्ये → अब्भक्खाणं णिस्संकया य अस्संजमंमि य थिरत्तं । अप्पा सो अवि चत्तो अवण्णवातो य तित्थस्स ।। 6 (नि.भा.५४४५) इति । प्रकृते → जो को वि धम्मसीलो संजम-तवणियम-जोय-गुणधारी । तस्स य दोस कहंता भग्गा भग्गत्तणं दिति ।। - (द.प्रा.९) इति च दर्शनप्राभृतवचनमपि स्मर्तव्यम् ।
वस्तुतः परनिन्दाकरणान्न स्वोत्कर्षसम्भवः । प्रकृते → किच्चा परस्स जिंदं जो अप्पाणं ठवेदुमिच्छेज्ज । सो इच्छदि आरोग्गं परम्मि कडुओसहे पीए ।। - (भ.आ.३७१) इति भगवती आराधना अपि साक्षिणी वर्तते । सुसंयतनिन्दाकरणात्तु पापोपचयः सौगतानामपि सम्मतः । तदुक्तं सुत्तनिपाते → यो निन्दियं पसंसति, तं वा निंदति यो पसंसियो । विचिनाति मुखेन कलिं, कलिना तेन सुखं न विन्दति ।। (सु.नि.३/३६/२) इति। कलिपदं पापपरमवसेयम् । इत्थं द्विविधबालतातो भूयोऽतितीव्रकर्मरजांसि शिथिलो बध्नाति । ____एतेन → सिथिलो हि परिब्बाजो भिय्यो आकिरते रजं - (सं.नि.१।१ ।२।८।८९ पृ.५९)इति सूत्रपिटकाऽन्तर्गते संयुक्तनिकाये देवपुत्रसंयुक्ते तायनसूत्रमपि व्याख्यातम् । → परिवादात् खरो भवति, श्वा वै भवति निन्दकः + (म.स्मृ.२/२०१) इति मनुस्मृतिवचनं, → यतीन् वै दूषमाणस्तु नरकं याति दारुणम् + (जा.उप. ) इति च जाबालोपनिषद्वचनमप्यत्र यथातन्त्रं योज्यम् । → यथा सुनिपुणः सम्यक् परदोषेक्षणे रतः । तथा चेद् निपुणः स्वेषु को न मुच्येत बन्धनात् ? ।। ४ गुराने लोनारी छ. (3/१३)
ટીકાર્થ:- “ઘણા બધા લોકોએ જે આચરેલ છે તેને અમે આચરીએ છીએ. પોતાની જાતને સંવિગ્ન માનનારા આચારયુક્ત આ થોડા સાધુઓ તો દંભી છે.” આ રીતે અભિમાની શિથિલાચારી સાધુઓ અલ્પ સંવિગ્ન સાધુઓની નિંદા કરે છે તેમ જ ઘણા લોકોએ આચરેલ બાબત ખોટી હોવા છતાં તેનો ત્યાગ કરતા નથી. શિથિલાચારીઓની આ પ્રવૃત્તિ મિથ્યાત્વીઓમાં ગુણ જોવા પ્રવૃત્ત થયેલી જાણવી. કારણ કે સમ્યગુ દષ્ટિની અપેક્ષાએ મિથ્યાત્વીઓની જ કાયમ બહુમતિ હોય છે. १. प्राचीनमुद्रितप्रतौ 'सम्यगृग...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org