________________
१५२ • शिथिलाचारनिदर्शनोपदर्शनम् •
द्वात्रिंशिका-३/७ विपर्यस्तं = असंविग्नाचरणं पुनः श्राद्धममत्वप्रभृति स्मृतम् । तदाह'जह सड्ढेसु ममत्तं रेराढाइ असुद्धउवहिभत्ताई ।
णिद्दिट्ट(णिद्देज्ज) वसहि-तूली-मसूरगाईण परिभोगोत्ति ।। (धर्मरत्नप्रकरण.८७) ।।७।। राजानः शत्रूनाक्रम्य राज्यमनुपालयन्ति । तद्वत् साधवोऽपि जीतव्यवहारेणाऽपि संयममाराधयन्तीत्युपनयः । तथा शोधिः = प्रायश्चित्तं, षाण्मासिक्यामप्यापत्तौ जीतव्यवहारे द्वादशकेन निरूपितमिति । पुष्करिण्योऽपि प्राक्तनीभ्यो हीना अपि लोकोपकारिण्य एवेति । दार्टान्तिकयोजना पूर्ववत् - (ध. र.प्र.गा.८३ वृ.) इति ।
असंविग्नाऽऽचरणं दृष्ट्वाऽऽदौ तत्त्वार्थान्वेषणं कर्तव्यं यत् 'इदमपुष्टालम्बनं न वा ?' इति । तदुक्तं आवश्यकनियुक्ती → आलंबणेण केणइ जे मन्ने संजमं पमायंति । न हु तं होइ पमाणं भूयत्थगवेसणं कुज्जा ।। 6 (आ.नि.११७१) इति । तल्लिङ्गनिश्चितं असंविग्नाचरणं पुनः प्रमादरूपत्वात् गुरुलाघवाऽज्ञानप्रयुक्तत्वात् सावद्यत्वाच्च न सेवनीयम् । तदुक्तं धर्मरत्नप्रकरणे → जं पुण पमायरूवं गुरुलाघवचिंताविरहियं सवहं । सुहसीलसढाइन्नं चरित्तिणो तं न सेवंति।। - (धर्मर.८६) इति । तदुक्तं सम्यक्त्वकुलके अपि → सो धन्नो सो पुण्णो स माणणिज्जो य वंदणिज्जो य । गड्डरिगाइपवाहं मुत्तुं जो मन्नए आणं ।। 6 (स.कु.२४) इति ।
अत एवोक्तं व्यवहारसूत्रभाष्येऽपि → जं जीतं सावज्जं न तेण जीतेण होइ ववहारो। जं जीयमसावज्जं तेण उ जीएण ववहारो ।। जं जीयमसोहिकरं ण तेण जीएण होइ ववहारो । जं जीयं सोहिकरं तेण उ जीएण ववहारो ।। जं जीयमसोहिकरं पासत्थ-पमत्तसंजयाऽऽईण्णं। जइवि महाजणाइन्नं न तेन जीएण ववहारो ।। जं जीयं सोहिकरं संवेगपरायणेन दंतेण । एगेण वि आइन्नं तेण उ जीएण ववहारो ।।
८ (व्य.सू.भा. १०/७१५,७१९-७२१) इत्यादि ।।
एतदनुसारेण दर्शनशुद्धिप्रकरणे अपि → पासत्थो ओसन्नो कुसील-संसत्ती-नीय-अहच्छंदो । एएहिं आइन्नं न आयरिज्जा न संसिज्जा ।। जं जीयमसोहिकरं पासत्थपमत्तसंजयाईहिं । बहुएहिं वि आइन्नं न तेण जीएण ववहारो ।। जं जीयं सोहिकरं संवेगपरायणेण दंतेण । इक्केण वि आईन्नं तेण उ जीएण ववहारो ।।
6 (द.शु.प्र.१९२-३-४) इत्युक्तं चन्द्रप्रभसूरिभिः । एतदुदाहरणेनोपदर्शयति 'श्राद्धममत्वप्रभृति' । धर्मरत्नप्रकरणसंवादमाह 'जह' इति। तद्वृत्तिश्चैवम् → यथेत्युपदर्शने, श्राद्धेषु = श्रावकेषु ममत्वं =
શ્રાવકો ઉપર મમત્વ કરવું વગેરે આચરણો અસંવિગ્નઆચરણ તરીકે પ્રસિદ્ધ છે. ધર્મરત્નપ્રકરણમાં જણાવેલ છે કે “પ્રમાદાચરણ આ મુજબ જાણવું, જેમ કે શ્રાવકો ઉપર મમત્વ કરવું, વિભૂષાની ઈચ્છાથી અશુદ્ધ = દોષિત ઉપધિ-ગોચરી વગેરે વહોરવા, સાધુની માલિકીમાં કાયમી આપેલ મકાન, પથારી, तीय वगैरेनी १५२२२.” (उ/७) १.यथा श्राद्धेषु ममत्वं राढ्याऽशुद्धोपधिभक्तादीनि । प्रदत्तवसतितूलीमसूरकादीनां परिभोगः ।। २. हस्तादर्श 'गाढाइ' इत्यशुद्धः पाठः । ३.मुद्रितप्रतौ 'भागे' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org