________________
• जीतव्यवहारोदाहरणोपदर्शनम् •
१५१ 'कप्पाणं पावरणं अग्गोअरच्चाओ झोलिआभिक्खा ।
उवग्गहियकडाहयतुंवयमुहदाणदोराई२ ।। (धर्मरत्नप्रकरण-८१/८२) इत्यादि । → अन्यथा = प्रकारान्तरेण भणितमपि श्रुते = पारगतगदितागमे किञ्चिद् वस्तु कालादिकारणापेक्षं = दुःषमादिस्वरूपाऽऽलोचनपूर्वकं आचीर्णं = व्यवहृतं अन्यथैव 'चिय'शब्दस्यावधारणार्थत्वाद् दृश्यते = साक्षादुपलभ्यते संविग्नगीतार्थः उक्तस्वरूपैरिति । कल्पानां आत्मप्रमाणाऽऽयामसार्द्धद्विहस्तविस्तराणामागमप्रतीतानां प्रावरणं = परितो वेष्टनं प्रतीतमेव । ते हि किल कारणव्यतिरेकेण भिक्षाचर्यादौ गच्छता संवृताः स्कन्धत एवोढव्या इत्यागमाचारः, सम्प्रति प्राब्रियन्ते । ‘अग्गोयर'त्ति अग्रावतारः परिधानविशेषः, साधुजनप्रतीतः, तस्य त्यागः = कटीपट्टकस्याऽन्यथाकरणम् । तथा झोलिका ग्रन्थिद्वयनियन्त्रितपात्रबन्धरूपा, तया भिक्षा । आगमे हि पात्रबन्धाञ्चलद्वयं मुष्ट्या ध्रियते कूर्परसमीपगमेव बध्यत इति व्यवस्था। तथा औपग्रहिककटाह-तुम्बकमुखदान-दवरकादयः सुविदिता एव साधूनामाचरिताः सम्प्रतीति गम्यते 6 (ध.र.प्र.गा.८१/८२ वृ.) इति । ___'इत्यादि पदेन → सिक्किगनिक्खिवणाई पज्जोसवणाइतिहिपरावत्तो । भोयणविहिअन्नत्तं एमाइ विविहमन्नं पि।। -(ध.र.प्र.८३) इति धर्मरत्नप्रकरणगाथा-सूचिताचारा बोध्याः । तद्वृत्तिश्चैवम् → सिक्किको दवरकरचितो भाजनाऽऽधारविशेषः, तत्र निक्षेपणं = बन्धनं अर्थात् पात्राणामादिशब्दाधुक्तिलेपेन पात्रलेपनादि । तथा पर्युषणादितिथिपरावर्त्तः । पर्युषणा = सांवत्सरिकं, आदि शब्दाच्चतुर्मासकपरिग्रहः । तयोः तिथिपरावर्त्तः = तिथ्यन्तरकरणं सुप्रतीतमेतत् । तथा भोजनविधेरन्यत्वं यतिजनप्रसिद्धमेव । ‘एमाइत्ति' प्राकृतशैल्या ‘एवं'शब्दे वकारलोपः । तत एवमादिग्रहणेन षड्जीवनिकायायामप्यधीतायां शिष्य उत्थाप्य इत्यादि गीतार्थानुमतं विविधमन्यदप्याचरितं प्रमाणभूतमस्तीत्यवगन्तव्यम् । तथा च व्यवहारभाष्यं 'सत्थपरिन्ना छक्कायसंजमो पिंड उत्तरज्झाए । रुक्खे वसहे गोवो जोहे सोही य पुक्खरिणी ।।' (व्य.भा. ४/१६९) । अस्य अयमर्थलेशः “शस्त्रपरिज्ञाध्ययने सूत्रतोऽर्थतश्चावगते भिक्षुरुत्थापनीय इत्यप्रमेयप्रभावपारमेश्वरप्रवचनमुद्रा । जीतं पुनः षट्कायसंयमः = दशवैकालिकचतुर्थाध्ययने षड्जीवनिकायाख्ये ज्ञाते भिक्षुरुत्थाप्यत इति । तथा पिण्डैषणायां पठितायामुत्तराध्ययनान्यधीयन्ते स्म, सम्प्रति तान्यधीत्याचार उद्दिश्यते । पूर्वं कल्पपादपा लोकस्य शरीरस्थितिहेतवोऽभूवन, इदानीं सहकार-करीरादिभि
र्व्यवहारः । तथा वृषभाः पूर्वमतुलबला धवलवृषभा बभूवुः, सम्प्रति धूसरैरपि लोको व्यवहरति । तथा गोपाः = कर्षकाः चक्रवर्तिगृहपतिरत्नवत् तद्दिन एव धान्यनिष्पादका आसन्, सम्प्रति तादृगभावेऽपीतरकर्षकैर्लोको निर्वहति । तथा पूर्वं योधाः सहस्रयोधादयः समभवन् सम्प्रत्यल्पबल-पराक्रमैरपि જેમ કે ગોચરીમાં કપડાં ઓઢીને જવું, ચોલપટ્ટામાં આગળના ભાગમાં અગ્રાવતારનો ત્યાગ અને ચોલપટ્ટાને જુદી રીતે પહેરવો, ઝોળીમાં ગાંઠ મારીને ગોચરી લાવવી, ઔપગ્રહિક કડાઈ, પરાત, તુંબડુ = તરપણીચેતનો વગેરે, તરપણી પકડી શકાય એ માટે એને મોટું = કાંઠો લગાડવો, તેને દોરો લગાડવો ઈત્યાદિ પ્રવૃત્તિ સંવિજ્ઞાચરણ કહેવાય છે. १.कल्पानां प्रावरणमग्रावतारत्यागो झोलिकाभिक्षा । औपग्रहिककटाहकतुंबकमुखदानदवरकादि ।। २.मुद्रितप्रतौ 'दोरा' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org