________________
१५०
• अधुनाऽऽचरणातः परमार्थाऽवगमः • द्वात्रिंशिका-३/७ संविग्नाचरणं सम्यक् कल्पप्रावरणादिकम्। विपर्यस्तं पुनः श्राद्धममत्वप्रभृति स्मृतम् ।।७।।
संविग्नेति । संविग्नानामाचरणं (संविग्नाचरणं) सम्यक् = साधुनीत्या कल्पप्रावरणादिकम् । तदाहअन्नह भणियं पि सुए किंचि कालाइकारणाविक्खं। आइन्नमनहच्चिय दीसइ संविग्गगीएहिं ।। चैत्यवन्दनाऽऽवश्यकादिवत्, न च प्रतिषिद्धं प्राणातिपातादिवत्। अथ च जने = लोके चिररूढं अज्ञातादिभावं स्वमतिविकल्पितदोषात् = स्वाभिप्रायसङ्कल्पितदूषणात् तदपि, आस्तामाऽऽगमोक्तं, न दूषयन्ति = 'न युक्तमेतदिति परस्य नोपदिशन्ति संसारवृद्धिभीरवो गीतार्थाः = विदिताऽऽगमतत्त्वाः 6 (धर्मर. ९९ वृ.) इति । पूर्व-पूर्वतरोत्तमाचार्याऽऽशातनाभीरूणामनतिशयितज्ञानिनां तन्निषेधनस्याऽयुक्तत्वादेव धर्मरत्नप्रकरणे → संविग्गा गीयतमा विहिरसिया पुव्वसूरिणो आसि । तदऽदूसियमायरियं अणइसई को निवारेइ ? ।। - (धर्मर.१००) इति प्रोक्तम् ।
यथोक्तं चैत्यवन्दनमहाभाष्येऽपि → वोच्छिन्ने मूलसुए, बिंदुपमाणम्मि संपइ धरंते । आयरणाओ नज्जइ परमत्थो सव्वकज्जेसु ।। बहुसुयकमाणुपत्ता आयरणा धरइ सुत्तविरहे वि । विज्झाए वि पईवे नज्जइ दिटुं सुदिट्ठीहिं ।। जीवियपुव्वं जीवइ जीविस्सइ जेण धम्मियजणम्मि । जीयं ति तेण भन्नइ आयरणा समयकुसलेहिं ।। तम्हा अनायमूला हिंसारहिया सुझाणजणणी य । सूरिपरंपरापत्ता सुत्त व्व पमाणमायरणा ।। ता सुत्ताऽपडिसिद्धा पवयणसोहावहा चिरपवत्ता । सव्वा न दूसिअव्वा आयरणा मुत्तिकामेहिं ।।
6 (चैत्य.म.भा.२२-२३-२४-२५-३३) इति । इदमेवाभिप्रेत्य वैराग्यकल्पलतायां ग्रन्थकृताऽपि → उत्सर्गरुच्याऽप्यपवादरुच्या, विचित्रसाध्वाचरणापलापात् । स्वबुद्धिमात्रेण समाधिभाजो, न मार्गभेदं परिकल्पयन्ति ।। यन्नैव सूत्रे विहितं न चापि, निवारितं किन्तु चिररूढम् । समाहिता मार्गभिदाभियैव, तदप्यनालोच्य न दूषयन्ति ।।
6 (वै.क.स्त. १/१६७,१६८) इत्युक्तम् । अन्यथा → पंचविहो ववहारो दुग्गतिभयचूरगेहिं पन्नत्तो । आगम सुय आणा धारणा य जीए य पंचमए ।। 6 (व्य.भा.१०/३/२००) इति व्यवहारभाष्याऽपलापापत्तेः ।।३/६।।
ननु संविग्नाऽशठगीतार्थाऽऽचरिताऽसंविग्नाद्याचरितयोर्भेदः कथं ज्ञेयः ? इत्याशङ्कायामाह- 'संविग्नाऽऽचरणमिति । धर्मरत्नप्रकरणसंवादमाह कारिकायुगलेन 'अन्नह' इति । अत्र धर्मरत्नप्रकरणवृत्तिश्चैवम्
હ સંવિજ્ઞાચરણ અને શિથિલાચરણ છે ગાથાર્થ - સાધુની મર્યાદા મુજબ કપડા ઓઢવા વગેરે સંવિગ્ન આચરણ છે. શ્રાવકો પ્રત્યે મમત્વ १२. संवि०माय२९॥ ४डेवाये छ. (3/७)
ટીકાર્થ :- સાધુ મર્યાદા મુજબ ગોચરી જતી વખતે કપડાં ઓઢીને જવું. ઈત્યાદિ સંવિગ્નોનું આચરણ છે. ધર્મરત્નપ્રકરણમાં જણાવેલ છે કે “આગમમાં જુદી રીતે બતાવેલ હોવા છતાં દેશ-કાળ વગેરે કારણોની અપેક્ષાએ સંવિગ્ન ગીતાર્થોએ અમુક બાબતમાં અન્ય રીતે જ આચરેલું દેખાય છે. १.हस्तादर्श 'ममृत' इत्यशुद्धः पाठः । २.अन्यथा भणितमपि सूत्रे किंचित्कालादिकारणापेक्षम् । आचीर्णमन्यथैव दृश्यते संविग्नगीतैः ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org