________________
• जीतव्यवहारव्याख्योपदर्शनम् •
१४१
अनुमाय सतामुक्ताचारेणागममूलताम् । पथि प्रवर्तमानानां शक्या नान्धपरम्परा ||३|| विचिन्त्य संहननादीनां हानिमासाद्य समुचितेन केनचित् तपःप्रकारेण यां गीतार्थाः शुद्धिं निर्दिशन्ति तत्समयपरिभाषया जीतमुच्यते । अथवा यद्यत्र गच्छे सूत्रातिरिक्तं कारणतः प्रायश्चित्तं वर्तितमन्यैश्च बहुभिरनुवर्तितं तत्तत्र रूढं जीतमुच्यते” (जी.क. चू. ४/१५ पृ.३८) इति जीतकल्पचूर्णिविषमपदव्याख्यायां श्रीचन्द्रसूरिः । तदुक्तं श्रीसिद्धसेनसूरिभिरपि जीतकल्पचूर्णो जीयववहारो सो पुण दव्व-खेत्त-कालभाव-पुरिस-पडिसेवणाणुवत्ति सरीर-संघयण - धी- बलपरिहाणि वाऽवेक्खिऊण तहापायच्छित्तदाणं जीयं; जो वा जम्मि गच्छे केणइ कारणेण सुयाइरित्तो पायच्छित्तविसेसो पवत्तिओ अन्नेहिं य बहूहिं अणुवत्तिओ न य पडिसिद्धो । भणियं च ' वत्तऽणुवत्तपवत्तो बहुसो आसेविओ महाणेण । एसो उ जीयकप्पो पंचमओ होइ ववहारो' ।। ( व्यवहारभाष्य - १०/३/६९३) ← (जी.क.चू. पृष्ठ - ४ ) इति । वृत्तः = एकदा नवो जातो वक्ष्यमाणपात्रबन्धग्रन्थिदानादिकः ( द्वा. द्वा. ३ / ७ पृ. १५१ ) ततोऽनुवृत्तः एकपुरुषं यावत् । ततः प्रवृत्तः पुरुषप्रवाहेण । अत एव बहुश आसेवितो महाजनेन । तदुक्तं व्यवहारभाष्यकृता वत्तो नाम एक्कस्सिं, अणुवत्तो जो पुणो बिइयवारे । तईयवारं पवत्तो परिग्गहिओ महाणेणं ति ।। बहुसो बहुस्सुएहिं जो वत्तो न य निवारिओ होइ । वत्तणुवत्तपमाणं जीएण कयं हवइ एयं ।।
← ( व्यवहारभाष्य १०/३/६९४,७१४ ) इति । एतेन देश - कालानुसारेण धर्ममार्गप्रवर्तकाः । अनेकोपाययोगेन जैनशासनरक्षकाः । कलौ श्रीसूरयोऽनेके वर्त्स्यन्ति धर्मरक्षकाः ।। ← ( म.गी. ३ / ११८) इति महावीरगीतावचनमपि व्याख्यातम् । प्रकृते च
जो आगमे य सुत्ते य सुन्नतो आणधारणाए य । सो ववहारं जीएण कुणइ वत्ताणुवत्तेण ।। अमुगो अमुत्थ कउ जह अमुयस्स अमुएण ववहारो । अमुगस्सवि य तह कतो अमुगो अमुगेण ववहारो ।। तं चेवणुमज्जंतो ववहारविहिं पउंजति जहुत्तं । जीएण एस भणितो ववहारो धीरपुरिसेहिं ।। धीरपुरिसपण्णत्तो पंचमगो आगमो वि उ पसत्थो । पियधम्मवज्जभीरु पुरिसज्जायाणुचिन्नो य ।।
← (व्य.सू.भा.१०/३/७०५-७०८) इति व्यवहारसूत्रभाष्यगाथा अनुसन्धेयाः ।
यद्यपि अन्यत्र एकोऽपि शास्त्रनीत्या यो वर्तते स महाजनः । किमज्ञसार्थैः ? शतमप्यन्धानां नैव पश्यति ।। यत्संविग्नजनाचीर्णं श्रुतवाक्यैरबाधितम् । तज्जीतं व्यवहाराख्यं पारम्पर्यविशुद्धिमत्।। ← (योगविंशिका गा.१६ वृ. उद्धृत) इत्युक्तम् । तदुक्तं सम्बोधसप्ततिकायामपि एगो साहू एगा च साहूणी सावओ य सड्ढी य । आणाजुत्तो संघो, सेसो पुण अट्ठिसंघाओ ।। ← (सं.स. २९) इति तथापि प्रकृते → जीतं नाम प्रभूतानेकगीतार्थकृतमर्यादा ← (व्य. सू. भा. ५ मलय.) इति व्यवहारसूत्रटीकायां श्रीमलयगिरिसूरिदर्शितो जीतव्यवहारो बाहुल्येन ग्राह्य इत्यवधेयम् ||३/२।।
ननु 'आयारमट्ठा विणयं पउंजे' (द.वै.९/३/२) इति दशवैकालिकसूत्राद्विनयप्रवर्त्तनमाचारार्थिनो
ગાથાર્થ :- શિષ્ટાચારથી આગમમૂલકતાનું અનુમાન કરીને મહાજનમાર્ગમાં પ્રવર્તમાન સજ્જનો માટે અંધપરંપરાની શંકા ન કરવી. (૩/૩)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org